"ऋग्वेदः सूक्तं १.१०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८३:
|}
</poem>
 
{{ऋग्वेदः मण्डल १}}
 
== सायणभाष्यम्==
९.ये अमी द्युलोके वर्तमानाः सप्तसंख्याकाः रश्मयः सूर्यस्य किरणाः सन्ति तत्र तेषु सूर्यरश्मिष्वध्यात्मं सप्तप्राणरूपेण वर्तमानेषु मे मदीया नाभिः आतता संबद्धा । ऋषिरात्मानमेव परोक्षतया निर्दिशति । त्रितः तीर्णतमस्तिरस्कृताज्ञानः आप्त्यः अपां पुत्रः ऋषि तत् पूर्वोक्तं वृत्तान्तं वेद जानाति नान्यः । सः जानन्नृषिः जामित्वाय कूपान्निर्गन्तृत्वाय प्ररेभति तान् रश्मीन् स्तौति । अन्यत् समानम् ।। आतता । तनोतेः कर्मणि निष्ठा । ' अनुदात्तोपदेश० इत्यादिना अनुनासिकलोपः । ' गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । जामित्वाय. । जमतिर्गतिकर्मा । जमति गच्छतीति जामिः । औणादिक इण्प्रत्ययः । तस्य भावस्तत्त्वम् । रेभति । रेभृ शब्दे ' । भौवादिकः ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०५" इत्यस्माद् प्रतिप्राप्तम्