"ऋग्वेदः सूक्तं १०.१२४" इत्यस्य संस्करणे भेदः

(लघु) ७ अवतरण: rigveda and other pages
No edit summary
पङ्क्तिः १:
{{Rig Veda2|[[ऋग्वेदः मण्डल १०]]}}
 
 
<div class="verse">
<prepoem>
{|
|
इमं नो अग्न उप यज्ञमेहि पञ्चयामं त्रिवृतं सप्ततन्तुम् ।
असो हव्यवाळुत नः पुरोगा ज्योगेव दीर्घं तम आशयिष्ठाः ॥१॥
Line २१ ⟶ २३:
बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम् ।
अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं नि चिक्युः कवयो मनीषा ॥९॥
|
इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् ।
असो॑ हव्य॒वाळु॒त नः॑ पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ॥
अदे॑वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्प्र॒पश्य॑मानो अमृत॒त्वमे॑मि ।
शि॒वं यत्सन्त॒मशि॑वो॒ जहा॑मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ॥
पश्य॑न्न॒न्यस्या॒ अति॑थिं व॒याया॑ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ ।
शंसा॑मि पि॒त्रे असु॑राय॒ शेव॑मयज्ञि॒याद्य॒ज्ञियं॑ भा॒गमे॑मि ॥
ब॒ह्वीः समा॑ अकरम॒न्तर॑स्मि॒न्निन्द्रं॑ वृणा॒नः पि॒तरं॑ जहामि ।
अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वन्ते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ॥
निर्मा॑या उ॒ त्ये असु॑रा अभूव॒न्त्वं च॑ मा वरुण का॒मया॑से ।
ऋ॒तेन॑ राज॒न्ननृ॑तं विवि॒ञ्चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ॥
इ॒दं स्व॑रि॒दमिदा॑स वा॒मम॒यं प्र॑का॒श उ॒र्व१॒॑न्तरि॑क्षम् ।
हना॑व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ सन्तं॑ ह॒विषा॑ यजाम ॥
क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् ।
क्षेमं॑ कृण्वा॒ना जन॑यो॒ न सिन्ध॑व॒स्ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ॥
ता अ॑स्य॒ ज्येष्ठ॑मिन्द्रि॒यं स॑चन्ते॒ ता ई॒मा क्षे॑ति स्व॒धया॒ मद॑न्तीः ।
ता ईं॒ विशो॒ न राजा॑नं वृणा॒ना बी॑भ॒त्सुवो॒ अप॑ वृ॒त्राद॑तिष्ठन् ॥
बी॒भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर॒पां दि॒व्यानां॑ स॒ख्ये चर॑न्तम् ।
अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑ण॒मिन्द्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ॥
|}
</prepoem>
== सायणभाष्यम्==
 
२.अदेवात् अदेवनशीलात् गुहा गुहायां वर्तमानात् ।। ' सुपां सुलुक् ' इति सप्तम्या लुक् ।। प्रचता देवानां प्रयाचनेन हेतुना यन् निर्गच्छन् देवः देवनशीलोऽहं प्रपश्यमानः देवैर्मदर्थं कल्पितं प्रयाजानुयाजादिलक्षणं हविर्भागं प्रपश्यमानो निरीक्षमाणः सन् अमृतत्वमेमि । मरणधर्मराहित्यं देवत्वं प्राप्नोमि ।। दृशेर्व्यत्ययेनात्मनेपदम् ।। हविर्वहनाद्भीतः पलार्थितोऽबादिषु स्थानेषु निगूढः पुनर्देवैर्हविर्वहनाय प्रार्थ्यमानस्तैर्दत्तेन हविषा अहं देवत्वं प्राप्तवानस्मीत्यर्थः । यद्यप्यहं गुहातो निर्गत्य प्रकाशमानः सन् शोभनं यज्ञं निवर्तयामि तथापि शिवं शोभनं सन्तं भवन्तं यज्ञम् अशिवः अशोभनरूपोऽप्रकाशमानः सन् यत् यस्मिन् समाप्तिकाले जहामि परित्यजामि तदानीं नाभिं नहनशीलां बन्धनशीलाम् अरणीम् अश्वत्थमेव स्वात्सख्यात् आत्मीयात् सखित्वाच्चिरकालमश्वरूपोऽहं तत्र न्यवात्समिति स्नेहवशात् एमि प्राप्नोमि ।।
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२४" इत्यस्माद् प्रतिप्राप्तम्