"रामायणम्/अरण्यकाण्डम्/सर्गः ४५" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

०९:३०, ९ अक्टोबर् २००५ इत्यस्य संस्करणं

श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥३-४५॥

आर्तस्वरम् तु तम् भर्तुः विज्ञाय सदृशम् वने ।
उवाच लक्ष्मणम् सीता गच्छ जानीहि राघवम् ॥३-४५-१॥

न हि मे जीवितम् स्थाने हृदयम् वा अवतिष्ठते ।
क्रोशतः परम आर्तस्य श्रुतः शब्दो मया भृशम् ॥३-४५-२॥
आक्रन्दमानम् तु वने भ्रातरम् त्रातुम् अर्हसि ।

तम् क्षिप्रम् अभिधाव त्वम् भ्रातरम् शरण एषिणम् ॥३-४५-३॥
रक्षसाम् वशम् आपन्नम् सिंहानाम् इव गोवृषम् ।

न जगाम तथा उक्तः तु भ्रातुः आज्ञाय शासनम् ॥३-४५-४॥
तम् उवाच ततः तत्र क्षुभिता जनक आत्मजा ।

सौमित्रे मित्र रूपेण भ्रातुः त्वम् असि शत्रुवत् ॥३-४५-५॥
यः त्वम् अस्याम् अवस्थायाम् भ्रातरम् न अभिपद्यसे ।

इच्छसि त्वम् विनश्यन्तम् रामम् लक्ष्मण मत् कृते ॥३-४५-६॥
लोभात् तु मत् कृतम् नूनम् न अनुगच्छसि राघवम् ।

व्यसनम् ते प्रियम् मन्ये स्नेहो भ्रातरि न अस्ति ते ॥३-४५-७॥
तेन तिष्ठसि विस्रब्धः तम् अपश्यन् महाद्युतिम् ।

किम् हि संशयम् आपन्ने तस्मिन् इह मया भवेत् ॥३-४५-८॥
कर्तव्यम् इह तिष्ठन्त्या यत् प्रधानः त्वम् आगतः ।

एवम् ब्रुवाणम् वैदेहीम् बाष्प शोक समन्वितम् ॥३-४५-९॥
अब्रवीत् लक्ष्मणः त्रस्ताम् सीताम् मृग वधूम् इव ।

पन्नग असुर गन्धर्व देव दानव राक्षसैः ॥३-४५-१०॥
अशक्यः तव वैदेही भर्ता जेतुम् न संशयः ।

देवि देव मनुष्येषु गन्धर्वेषु पतत्रिषु ॥३-४५-११॥
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च ।
दानवेषु च घोरेषु न स विद्येत शोभने ॥३-४५-१२॥
यो रामम् प्रतियुध्येत समरे वासव उपमम् ।

अवध्यः समरे रामो न एवम् त्वम् वक्तुम् अर्हसि ॥३-४५-१३॥
न त्वाम् अस्मिन् वने हातुम् उत्सहे राघवम् विना ।

अनिवार्यम् बलम् तस्य बलैः बलवताम् अपि ॥३-४५-१४॥
त्रिभिः लोकैः समुदितैः स ईश्वरैः स अमरैः अपि ।

हृदयम् निर्वृतम् ते अस्तु संतापः त्यज्यताम् तव ॥३-४५-१५॥
आगमिष्यति ते भर्ता शीघ्रम् हत्वा मृगोत्तमम् ।

न सस् तस्य स्वरो व्यक्तम् न कश्चित् अपि दैवतः ॥३-४५-१६॥
गन्धर्व नगर प्रख्या माया तस्य च रक्षसः ।

न्यास भूता असि वैदेहि न्यस्ता मयि महात्मना ॥३-४५-१७॥
रामेण त्वम् वरारोहे न त्वाम् त्यक्तुम् इह उत्सहे ।

कृत वैराः च कल्याणि वयम् एतैः निशाचरैः ॥३-४५-१८॥
खरस्य निधने देवि जनस्थान वधम् प्रति ।

राक्षसा विविधा वाचो व्यवहरन्ति महावने ॥३-४५-१९॥
हिंसा विहारा वैदेहि न चिन्तयितुम् अर्हसि ।

लक्ष्मणेन एवम् उक्ता तु क्रुद्धा संरक्त लोचना ॥३-४५-२०॥
अब्रवीत् परुषम् वाक्यम् लक्ष्मणम् सत्य वादिनम् ।

अनार्य करुणारंभ नृशंस कुल पांसन ॥३-४५-२१॥
अहम् तव प्रियम् मन्ये रामस्य व्यसनम् महत् ।

रामस्य व्यसन्म् दृष्ट्वा तेन एतानि प्रभाषसे ॥३-४५-२२॥
न एव चित्रम् सपत्नेषु पापम् लक्ष्मण यत् भवेत् ।
त्वत् विधेषु नृशंसेषु नित्यम् प्रच्छन्न चारिषु ॥३-४५-२३॥

सुदुष्टः त्वम् वने रामम् एकम् एको अनुगच्छसि ।
मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥३-४५-२४॥

तत् न सिद्ध्यति सौमित्रे तव अपि भरतस्य वा ।
कथम् इंदीवर श्यामम् रामम् पद्म निभेक्षणम् ॥३-४५-२५॥
उपसंश्रित्य भर्तारम् कामयेयम् पृथक् जनम् ।

समक्षम् तव सौमित्रे प्राणान् त्यक्ष्यामि असंशयम् ॥३-४५-२६॥
रामम् विना क्षणम् अपि न एव जीवामि भू तले ।

इति उक्तः परुषम् वाक्यम् सीतया रोमहर्षणम् ॥३-४५-२७॥
अब्रवीत् लक्ष्मणः सीताम् प्रांजलिः विजितेन्द्रियः ।

उत्तरम् न उत्सहे वक्तुम् दैवतम् भवती मम ॥३-४५-२८॥
वाक्यम् अप्रतिरूपम् तु न चित्रम् स्त्रीषु मैथिलि ।
स्वभावः तु एष नारीणाम् एषु लोकेषु दृश्यते ॥३-४५-२९॥

विमुक्त धर्माः चपलाः तीक्ष्णा भेदकराः स्त्रियः ।
न सहे हि ईदृशम् वाक्यम् वैदेही जनक आत्मजे ॥३-४५-३०॥
श्रोत्रयोः उभयोः मध्ये तप्त नाराच सन्निभम् ।

उपशृण्वंतु मे सर्वे साक्षिनो हि वनेचराः ॥३-४५-३१॥
न्याय वादी यथा वाक्यम् उक्तो अहम् परुषम् त्वया ।

धिक् त्वाम् अद्य प्रणश्यन्तीम् यन् माम् एवम् विशंकसे ॥३-४५-३२॥
स्त्रीत्वात् दुष्ट स्वभावेन गुरु वाक्ये व्यवस्थितम् ।

गमिष्ये यत्र काकुत्स्थः स्वस्ति ते अस्तु वरानने ॥३-४५-३३॥
रक्षन्तु त्वाम् विशालाक्षि समग्रा वन देवताः ।

निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ।
अपि त्वाम् सह रामेण पश्येयम् पुनरागतः ॥३-४५-३४॥

लक्ष्मणेन एवम् उक्ता तु रुदती जनकाअत्मजा ।
प्रत्युवाच ततो वाक्यम् तीव्रम् बाष्प परिप्लुता ॥३-४५-३५॥

गोदावरीम् प्रवेक्ष्यामि हीना रामेण लक्ष्मण ।
आबन्धिष्ये अथवा त्यक्ष्ये विषमे देहम् आत्मनः ॥३-४५-३६॥

पिबामि वा विषम् तीक्ष्णम् प्रवेक्ष्यामि हुताशनम् ।
न तु अहम् राघवात् अन्यम् कदाअपि पुरुषम् स्पृशे ॥३-४५-३७॥

इति लक्ष्मणम् आश्रुत्य सीता दुह्ख समन्विता ।
पाणिभ्याम् रुदती दुह्खाद् उदरम् प्रजघान ह ॥३-४५-३८॥

ताम् आर्त रूपाम् विमना रुदन्तीम्
सौमित्रिः आलोक्य विशाल नेत्राम् ।
आश्वासयामास न चैव भर्तुः
तम् भ्रातरम् किंचित् उवाच सीता ॥३-४५-३९॥

ततः तु सीताम् अभिवाद्य लक्ष्मणः
कृत अन्जलिः किम्चिद् अभिप्रणम्य ।
अवेक्षमाणो बहुशः स मैथिलीम्
जगाम रामस्य समीपम् आत्मवान् ॥३-४५-४०॥


इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥३-४५॥