"पञ्चविंशब्राह्मणम्/अध्यायः १" इत्यस्य संस्करणे भेदः

(लघु) पुनर्निर्देशनम् अत्यक्त्वा Shubha इत्यनेन पञ्चविंशब्राह्मणः/अध्याय १ तः [[पञ्चविंशब्राह्मणम्/अ...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 170%">1.1
ओं महन्मे वोचो भर्गो मे वोचो यशो मे वोचः स्तोमं मे वोचो भुक्तिं मे वोचः सर्वं मे वोचस्तन्मावतु तन्माविशतु तेन भुक्षिषीय
देवो देवमेतु सोमः सोममेत्वृतस्य पथा
विहाय दौष्कृत्यम्
बद्वा नामसि सृतिः सोमसरणी सोमं गमेयम्
पितरो भूः पितरो भूः पितरो भूः
नृमण ऊर्ध्वभरसं त्वोर्ध्वभरा दृशेयम्
मृदा शिथिरा देवानां तीर्थं वेदिरसि मा मा हिंसीः
विष्णोः शिरोऽसि यशोधा यशो मयि धेहि
इष ऊर्ज आयुषे वर्चसे च
1.2
युनज्मि ते पृथिवीमग्निना सह युनज्मि वाचं सह सूर्येण युक्तो वातोऽन्तरिक्षेण ते सह युक्तास्तिस्रो विमृजः सूर्यस्य
ऋतस्य सदने सीदामि
ऋतपात्रमसि
वानस्पत्योऽसि बार्हस्पत्योऽसि प्राजापत्योऽसि प्रजापतेर्मूर्धास्यत्यायुपात्रमसीदमहं मां प्राञ्चं प्रोहामि तेजसे ब्रह्मवर्चसाय
मरुतो नपातोऽपाङ्क्षयाः पर्वतानाङ्ककुभः श्येना अजिरा एन्द्रं वग्नुना वहत घोषेणामीवां चातयध्वं युक्तास्थ वहत
इदमहममुं यजमानं पशुष्वध्यूहामि पशुषु च मां ब्रह्मवर्चसे च
वसवस्त्वा गायत्रेण छन्दसा सं मृजन्तु रुद्रास्त्वा त्रैष्टुभेन छन्दसा सं मृजन्त्वादित्यास्त्वा जागतेन छन्दसा सं मृजन्तु
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतोऽतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशतः
प्रशुक्रैतु देवीमनीषास्मद्रथः सुतष्टो न वाज्यायुषे मे पचस्व वर्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्राच्छृण्वन्त्वापोऽधः क्षरन्तीः सोमेहोद्गाय मामायुषे मम ब्रह्मवर्चसाय यजमानस्यर्द्ध्या अमुष्य राज्याय
1.3
वेकुरानामासि जुष्टा देवेभ्यो नमो वाचे नमो वाचस्पतये देवि वाग्यत् ते वाचो मधुमत् तस्मिन्मा धाः सरस्वत्यै स्वाहा
सूर्यो मा दिव्याभ्यो नाष्ट्राभ्यः पातु वायुरन्तरिक्षाभ्योऽग्निः पार्थिवाभ्यः स्वाहा
योऽद्य सौम्यो वधोऽघायूनामुदीरते विषूकुहस्य धन्वनाप तान् वरुणोऽप धमतु
यो म आत्मा या मे प्रजा ये मे पशवस्तैरहं मनो वाचं प्र सीदामि
अग्नेस्तेजसेन्द्रस्येन्द्रियेण सूर्यस्य वर्चसा बृहस्पतिस्त्वा युनक्तु देवेभ्यः प्राणायाग्निर्युनक्तु तपसा सोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
अन्नं करिष्याम्यन्नं प्रविष्याम्यन्नं जनयिष्यामि
अन्नमकरमन्नमभूदन्नमजीजनम्
श्येनोऽसि गायत्रच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजामिषम्
सं वर्चसा पयसा सं तपोभिरगन्महि मनसा सं शिवेन सं विज्ञानेन मनसश्च सत्यैर्यथा वोऽहं चारुतमं वदानीन्द्रो वो दृशे भूयासं सूर्यश्चक्षुषे वातः प्राणाय सोमो गन्धाय ब्रह्म क्षत्राय
नमो गन्धर्वाय विष्वग्वादिने वर्चोधा असि वर्चो मयि धेहि
1.4
अध्वनामध्वपते स्वस्ति मेऽद्यास्मिन् देवयाने पथि भूयात्
सम्राडसि कृशानुः
तुथोऽसि जनधायो नभोऽसि प्रतक्वासंमृष्टोऽसि हव्यसूदनः
विबुरसि प्रवाहणः
वह्निरसि हव्यवाहनः
श्वात्रोऽसि प्रचेताः
तुथोऽसि विश्ववेदा उशिगसि कविरङ्घारिरसि बम्भारिरवस्युरसि दुवस्वान्
शुन्ध्युरसि मार्जालीयः
ऋतधामासि स्वर्ज्योतिः
समुद्रोऽसि विश्वव्यचाः
अहिरसि बुध्न्यः
अजोऽस्येकपात्
सगरा असि बुध्न्यः
कव्योऽसि कव्यवाहनः
पात माग्नयो रौद्रेणानीकेन पिष्टत मा नमो वोऽस्तु मा मा हिंसिष्ट
1.5
ऋतस्य द्वारौ स्थो मा मा सं ताप्तम्
नमः सखिभ्यः पूर्वसद्भ्यो नमो परसद्भ्यः
श्येनो नृचक्षा अग्नेष्ट्वा चक्षुषाव पश्यामि
इन्दविन्द्रपीतस्य त इन्द्रियावतो गायत्रच्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
ऊर्ध्वः सप्त ऋषीनुप तिष्ठस्वेन्द्रपीतो वाचस्पते सप्तर्त्विजोऽभ्युच्छ्रयस्व जुषस्व लोकं मार्वागव गाः
सोम रारन्धि नो हृदि पिता नोऽसि मम तन्मा मा हिंसीः
सोम गीर्भिष्ट्वा वयं वर्धयामो वाचोविदः सुमृडीको न आ विश
आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे
अवमैस्त ऊर्ध्वैस्ते काव्यैस्ते पितृभिर्भक्षितस्य मधुमतो नाराशंसस्य सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
दीक्षायै वर्णेन तपसो रूपेण मनसो महिम्ना वाचो विभूत्या प्रजापतिस्त्वा युनक्तु प्रजाभ्योऽपानाय
वायुर्युनक्तु मनसा स्तोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
वृषकोऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजामिषम्
इन्दविन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
सूर्यो युनक्तु वाचा स्तोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
स्वरोऽसि गयोऽसि जगच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजामिषम्
इन्दविन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
आयुर्मे प्राणो मनोऽसि मे प्राण आयुपत्न्यामृचि यन्मे मनो यमं गतं यद्वा मे अपरागतं राज्ञा सोमेन तद्वयं पुनरस्मासु दध्नसि
यन्मे यमं वैवस्वतं मनो जगाम दूरगास्तन्म आवर्तया पुनर्जीवातवे न मर्तवेऽथो अरिष्टतातये
येनाह्याजिमजयद्विचक्ष्य येन श्येनं शकुनं सुपर्णं यदाहुश्चक्षुरदितावनन्तं सोमो नृचक्षा मयि तद्दधातु
1.6
ऐन्द्रं सहोऽसर्जि तस्य त इन्दविन्द्रपीतस्येन्द्रियावतोऽनुष्टुप्छन्दसो हरिवतः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
इन्दविन्द्रपीतस्य त इन्द्रियावतोऽनुष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
स्तुतस्य स्तुतमस्यूर्जस्वत् पयस्वदा मा स्तोत्रस्य स्त्रोत्रं. गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजामिषम्
इष्टयजुषस्ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य तिरोह्न्यस्य योऽश्वसनिर्गोसनिर्भक्षस्तस्योपहूत उपहूतस्य भक्षयामि
ऋतस्य त्वा देव स्तोमपदे विष्णोर्धामानि वि मुञ्चाम्येतत् त्वं देव स्तोमानवकरमगन्नशीमहि वयं प्रतिष्ठाम्
सोमेहानु मेहि सोम सह सदस इन्द्रियेण
सुभूरसि श्रेष्ठो रश्मिर्देवानां संसद्देवानां यातुर्यया तन्वा ब्रह्म जिन्वसि तया मा जिन्व तया मा जनय प्रकाशं मा कुरु
अपां पुष्पमस्योषधीनां रस इन्द्रस्य प्रियतमं हविः स्वाहा
हारियोजनस्य ते देव सोमेष्टयजुषः स्तुतस्तोमस्य शस्तोक्थस्य योऽश्वसनिर्गोसनिर्भक्षस्तस्योपहूत उपहूतस्य भक्षयामि
देवकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमस्यस्मत्कृतस्यैनसोऽवयजनमसि यद्दिवा च नक्तं चैनश्चकृम तस्यावयजनमसि यत् स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनमसि यद्विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्यावयजनमस्येनसएनसावयजनमसि
अप्सु घौतस्य ते देव सोम नृभिः सुतस्य
मधुमन्तं भक्षं करोमि
समद्भ्य ओषधीभ्यः
कामकामं म आ वर्तय
ऊर्गस्यूर्जं मयि धेहि
प्राण सोमपीथे मे जागृहि
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र न आयूंषि तारिषत्
1.7
अश्वोऽस्यत्योऽसि मयोऽसि हयोऽसि वाज्यसि सप्तिरर्वाग्सि वृषासि
आदित्यानां पत्मान्विहि नमस्तेऽस्तु मा मा हिंसीः
वायोष्ट्वा तेजसा प्रति गृह्णामि नक्षत्राणां त्वां रूपेण प्रति गृह्णामि सूर्यस्य त्वा वर्चसा प्रति गृह्णामि
रथन्तरमसि वामदेव्यमसि बृहदसि
अङ्कान्यङ्कू अभितो रथं यौ ध्वान्तं वाताग्रमभिसंचरतौ दूरे हेतिरिन्द्रियवान् पतत्री ते नोऽग्नयः पप्रयः पारयन्तु
वैश्वानरः प्रत्नथा नाकमा रुह दिवः पृष्ठे मन्दमानः सुमन्मभिः सपूर्ववज्जन्तवे धनाः समानमय्मन् पर्येति जागृविः
गिदैष ते रथ एष वामश्विना रथोऽरिष्टो विश्वभेषजः
कृशानो सव्याना यच्छ
दासानो दक्षिणानव गृहाण
1.8
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रति गृह्णामि
वरुणस्त्वा नयतु देवि दक्षिणे वरुणायाश्वं तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
वरुणस्त्वा नयतु देवि दक्षिणे रुद्राय गां तयामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
वरुणस्त्वा नयतु देवि दक्षिणेऽग्नयेऽजम्
अग्नये हिरण्यम्
अग्नीषोमाभ्यामजान्मयामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
अन्नस्यान्नपतिः प्रादादनमीवस्य शुष्मिणो नमो विश्वजनस्य क्षामाय भुञ्जति मा मा हिंसीः
वरुणस्त्वा नयतु देवि दक्षिणे त्वष्ट्रेऽविं तयामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
ग्नास्त्वाऽकृन्तन्नपसोऽतन्वत वयित्र्योऽवयन्
वरुणस्त्वा नयतु देवि दक्षिणे बृहस्पतये वासस्तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिगृहीत्रे
वरुणस्त्वा नयतु देवि दक्षिणे उत्तानायाङ्गिरसायाप्राणत् तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
वरुणस्त्वा नयतु देवि दक्षिणे पूष्ण उष्ट्रम्
वायवे मृगं तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
जापतये हस्तिनं प्रजापतये वराहं प्रजापतये व्रीहियवांस्तैरमृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
वरुणस्त्वा नयतु देवि दक्षिणे क्षेत्रपतये तिलमाषास्तैरमृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
वरुणस्त्वा नयतु देवि दक्षिणे सवित्रेऽश्वतरं वाश्वतरीं वा तयामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहीता कामः समुद्रमाविशत् कामेन त्वा प्रति गृह्णामि कामैतत् ते
1.9
रश्मिरसि क्षयाय त्वा क्षयं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
प्रेतिरसि धर्मणे त्वा धर्मं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
अन्वितिरसि दिवे त्वा दिवं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
संधिरस्यन्तरिक्षाय त्वान्तरिक्षं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
प्रतिधिरसि पृथिव्यै त्वा पृथिवीं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
विष्टम्भोऽसि वृष्ट्यै त्वा वृष्टिं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
प्राचोऽस्यह्ने त्वाहर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
अन्वासि रात्र्यै रात्रिं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
उशिगसि वसुभ्यस्त्वा वसून् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
प्रकेतोऽसि रुद्रेभ्यस्त्वा रुद्रान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
सुदीतिरस्यादित्येभ्यस्त्वादित्यान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
ओजोऽसि पितृभ्यस्त्वा पितॄन् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
1.10
तन्तुरसि प्रजाभ्यस्त्वा प्रजा जिन्व सवितृप्रसूता बृहस्पतये स्तुत
रोदस्यस्योषधीभ्यस्त्वौषधीर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
पृतनाषाडसि पशुभ्यस्त्वा पशून् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
अभिजिदसि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
अधिपतिरसि प्राणाय त्वा प्राणान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
धरुणोऽस्यपानाय त्वापानान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
संसर्पोऽसि चक्षुषे त्वा चक्षुर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
वयोधा असि क्षेत्राय त्वा क्षेत्रं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
त्रिवृदसि त्रिवृते त्वा सवृदसि सवृते त्वा प्रवृदसि प्रवृते त्वानुवृदस्यनुवृते त्वा सवितृप्रसूता बृहस्पतये स्तुत
निरोहोऽसि निरोहाय त्वा संरोहोऽसि संरोहाय त्वा प्ररोहोऽसि प्ररोहाय त्वानुरोहोऽस्यनुरोहाय त्वा सवितृप्रसूता बृहस्पतये स्तुत
वसुकोऽसि वस्यष्टिरसि वेषश्रीरसि सवितृप्रसूता बृहस्पतये स्तुत
आक्रमोऽस्याक्रमाय त्वा संक्रमोऽसि संक्रमाय त्वोत्क्रमोऽस्युत्क्रमाय त्वोत्क्रान्तिरस्युत्क्रान्त्यै त्वा सवितृप्रसूता बृहस्पतये स्तुत
 
१.१.१ ओं महन्मे वोचो भर्गो मे वोचो यशो मे वोचः स्तोमं मे वोचो भुक्तिं मे वोचः सर्वं मे वोचस्तन्मावतु तन्माविशतु तेन भुक्षिषीय
१.१.२ देवो देवं एतु सोमः सोमं एत्वृतस्य पथा
"https://sa.wikisource.org/wiki/पञ्चविंशब्राह्मणम्/अध्यायः_१" इत्यस्माद् प्रतिप्राप्तम्