"आर्षेयकल्पः/अध्यायः ०१" इत्यस्य संस्करणे भेदः

कॢप्तो ज्योतिष्टोमोऽतिरात्रोऽषोडशिकः १-१-१ प... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<span style="font-size: 14pt; line-height:200%">
 
 
 
91
मशककल्पसूत्रम्
 
प्रथमोऽध्यायः
गवामयनम्
चतुर्विंशः प्रायणीयः
उक्तौ ज्योतिष्टोमद्वादशाहौ । अथ तदुपजीवनेन कल्पकार ऋक्समाम्नाये दशरात्रानन्तरम् अधीतस्य ब्राह्मणे च दाशरात्रिक- विष्टुतिसमाम्नायानन्तरं गावो वा एतत् सत्रमासते(तां० ब्रा० ४.१. १) त्यारभ्य अध्यायद्वयेन विहितस्य संवत्सरसत्रस्य गवामयनस्यस्तोत्र- क्लृप्तिमध्यायद्वयेनाह- क्लृप्तो ज्योतिष्टोम इत्यादिना ।।
इह गवामयनस्य एकषष्ट्यधिकं शतत्रयं सौत्यान्यहानि सन्ति । तानि च सत्रप्रकरणे शतरात्रानन्तरमतिरात्रश्चतुर्विंशं प्रायणीयमहरित्यारभ्य संवत्सरब्राह्मणमि(तां० ब्रा० २४२ ०.२)त्यन्तेनानु- वाकेन संगृह्य दर्शितानि । तद्यथा-अतिरात्रश्चतुर्विशं प्रायणीय- महश्चत्वारोऽभिप्लवाः षडहाः । पृष्ठ्यः षडहः । इति प्रथमो मासः ।
 
92
स द्वितीयः । स तृतीयः । स चतुर्थः । स पञ्चमः । इति पञ्च मासाः । अथ षष्ठे मासि त्रयोऽभिप्लवाः षडहाः । पृष्ठ्यः षडहोऽभिजित् त्रयः स्वरसामान तां० ब्रा० २४.२०. १) इत्यष्टा- विंशतिरहानि । अतिरात्रश्चतुर्विंशाभ्यां सह षष्ठो मास इति पूर्वः पक्षः । मध्ये विषुवान् दिवाकीर्त्यमहः । आत्मा वा एष संवत्सरस्य यद्विषुवान् पक्षावेतावभितो भवतः ( तां० ब्रा० ४.७.१) इति श्रुतेः ।।
अथोत्तरः पक्षः । त्रयः स्वरसामानो विश्वजित् पृष्ठ्यः षडहः त्रयस्त्रिंशारम्भणः त्रयोऽभिप्लवाः षडहा इत्यष्टाविंशतिरहानि । व्रतातिरात्राभ्यां सह प्रथमो मासः । व्रतातिरात्राभ्यां प्रथम उत्तरस्मिन्नि- (ला०श्रौ० १ ०.९.७)ति वचनात् । पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भणश्चत्वारो- ऽभिप्लवाः षडहा इति द्वितीयो मासः । तथैव तृतीयस्तथैव चतुर्थस्तथैव पञ्चमः । त्रयोऽभिप्लवाः षडहा आयुश्च गौश्च द्वे अहनी द्वादशाहस्य द्वादशाहानि (तां० ब्रा० २४.२०.१) इति षष्ठो मासः ।।
अथ महाव्रतं चातिरात्रश्च । तौ च प्रथममासपूरकावित्युक्तम् । तस्यैतस्य गवामयनस्य सत्रभूतद्वादशाहवत् प्रयोगः । उक्तकाले दीक्षा । ब्राह्मणेन गवामयनस्येत्यादिना दीक्षाकालादिकमुक्तम् । औपसथ्यान्तं कृत्वा प्रायणीयमतिरात्रमुपयन्ति । तस्य सत्रस्यर्द्ध्यादि सुब्रह्मण्यान्तं द्वादशाहवत् । स्तोत्रक्लृप्तिमाह-
क्लृप्तो ज्योतिष्टोमोऽतिरात्रोऽषोडशिक ।। १ ।।
 
 
93 गवामयनम् – चतुर्विंशस्तोमः (अ. 1 ख.1)
 
ब्राह्मणेनैवंभूतोऽतिरात्रः क्लृप्त इत्यर्थः । तत्राहरन्तिकी सुब्रह्मण्या द्वादशाहवदेव ।। १ ।।
अथ प्रायणीयमेतदहर्भवतीत्युक्तं चतुर्विंशमहराह-
पवस्व वाचो अग्रियः ( सा० ७७५-७) पवस्वेन्दो वृषा सुतः ( सा० ७७८-८०) उपास्मै गायता नर ( सा० ६५१-३) उपोषु जातमप्तुरम् ( सा० १३३५-७) दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवः ( सा० ८३०-२) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) ।। २ ।।
इति बहिष्पवमानम् ।।
द्वितीयादीनामह्नांसदसि बहिष्पवमानस्तवनं द्वादशाहवत् । रेतस्या- रथन्तरवर्णयोः सर्वत्र प्रवृत्तिः । न धुराम् ।। २ ।।
उप प्रयन्तो अध्वरम् ( सा० १३७९-८१) प्र वो मित्राय गायते (सा० ११४३-५) न्द्रायाहि चित्रभानो ( सा० ११४३-८) इन्द्रे अग्ना नमो बृहद् ( सा० ८००-२) ।। ३ ।।
इत्याज्यानि ।।
तृचसूक्तानामादिग्रहणेनविधिरनादेश (ला०श्रौ० ६.३.१) इति वचनात् उपप्रयं-चतुर्ऋचस्य ठपावदानेऽपि आवृत्तिस्तोत्रत्वात् अन्त्याया
उद्धारः । शिष्टास्तृचः ।। ३ ।।
वृषा पवस्व धारये(सा० ८०३ ५)ति गायत्रं चामहीयवं (ऊ० ६. २.१) चैडं सौपर्णं (ऊ० ४.१. २) रोहितकूलीयं ( ऊ० ४.१.३) च पुनानः सोम धारये( सा० ६७५-६) ति समन्तं (ऊ० ६.२.२) तिसृषु समन्तमेकस्याम् प्लव एकस्यां
 
94
 
(ऊ० ६.२. ३) दैर्घश्रवसमेकस्या-(ऊ० ६.२. ४)मिति वा ।। रथन्तरं तिसृषु (र० २.२. १०) गौङ्गवं ( ऊ० ४. १. ५) रौरवं (ऊ० १ .१ .२) त्रिणिधनमायास्यं (ऊ० ४.१ .६) च एकर्चाः । प्र काव्यमुशनेव ब्रुवाण (सा० १११६-८) इति पार्थमन्त्यम् ऊ० ६.२.५) ।। ४ ।।
इति माध्यंदिनः पवमानः ।।
समन्तादीनामेकर्चानां गौङ्गवादीनां च सामतृचः । त्रीनेकतृचे नानास्तोत्रीयास्वि-(ला०श्रौ० ६.३.१४) ति वचनात् । अत्रैवंभूताया ऋक्सामक्लृप्तेर्निदानकारेण दर्शितम्- अथ खलु य ऊर्ध्वं ज्योतिष्टोमदशाहाभ्यामि-( नि० सू० ४. १२. १०) त्यादिना । तत्तु विस्तरभयादिह नोच्यते । अन्त्यशब्दोऽयं माध्यदिनस्य पवमानस्यान्त्य- माह । एवमुत्तरस्यार्भवस्य ।। ४ ।।
बृहच्च ( र० १. १. ५) वामदेव्यं च (ऊ० १. १. ५) मा चिदन्यद्विशंसते-( सा० १३६०-१) त्यभीवर्तः ( ऊ० ६. २.६) स्वासु कालेयम् (ऊ० १. १. ७) ।। ५ ।।
इति पृष्ठानि ।।
यस्ते मदो वरेण्यम्-( सा० ८१५-७) इति गायत्रं च मौक्षम् ( ऊ० ४. १. १०) जराबोधीयम् (ऊ० ६. २.७) पवस्वे- ( सा० ६९२-३ )-न्द्रमच्छे-( सा० ६९४-६) ति सफ-( ऊ० १. १. ९) सुज्ञाने ( ऊ० ६.२.८) । पुरोजिती वो अन्धस (सा० ६९७- ९) इति गौरीवितं च (ऊ० ४.१. १३)
 
95 गवामयनम् – अभिप्लवः षडहः (अ. 1. ख. 2)
 
क्रौञ्चं च (ऊ० ६. २. ९) । प्रो अयासीद् (सा ० ११५२-४) इति कावम् (ऊ० ६.२. १०) अन्त्यम् ।। ६ ।।
इति आर्भवः पवमानः । ।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। ७ ।।
अग्निं वो वृधन्ताम् ( सा० ९४६-८) इति सत्रासाहीयं (ऊ ० ६.२. ११) सौभरम् ( ऊ० १. १. १६) उद्वंशीयम् ऊ. ४. १. ८) ।। ८ ।।
इत्युक्थानि । ।
चतुर्विंशस्तोमः ।। ९ ।।
अस्मिन्नहनि सर्वेषां स्तोत्राणामिति शेषः । उक्थान्ते स्तोम- विमोचनाद्यप्सुषोमान्तं सुब्रह्मण्या च ।। ९ ।।
इति चतुर्विंशस्तोमः ।। १ । ।
अभिप्लवः षडहः
प्रथममहः-ज्योतिः
ज्योतिर्गौरायुर्गौरायुर्ज्योतिरिति षडहोऽभिप्लव उच्यते । ज्वातिर्गौरायुर्(तां ० ब्रा० ४. १.७) इत्यारभ्य स एतं त्र्यहं पुनः प्रायुड्क्ते- (तां० ब्रा० ४. १.९) ति श्रुतेः । तस्य ज्योतिःसंज्ञकं प्रथममहराह-
उपास्मै गायता नरः (सा० ६५१ -३) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् । ।
अग्न आयाहि वीतये ( सा० ६६०-७१) ।। २ ।।
 
इत्याज्यानि ।।
अग्न (सा० ६६०-२) आ नो मित्रा ( सा० ६६३ -५) याही- ( सा० ६६६-८) न्द्राग्नी-( ६६९-७१) त्याज्यानीत्यर्थः ।। २ ।।
 
96
प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रं चाश्वं च (ऊ० ६.२. १२) प्र सोम देववीतय ( सा ० ७६७ ८) इति पज्रं (ऊ० ६. २. १३) यौधाजयं (ऊ० १. २. १३) चौशनसम् (ऊ०१. १ .५) अन्त्यम् ।। ३ ।।
इति माध्यंदिनः पवमानः ।।
रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च । तं वो दस्ममृतीषहमू (सा० ६८५-६) इत्यभीवर्तः (ऊ० ६. २. १४) स्वासु कालेयम् ( ऊ० १. १. ७) ।। ४ ।।
इति पृष्ठानि ।।
स्वादिष्ठया मदिष्ठये (सा० ६८९-९१ )ति गायत्रसंहिते (ऊ० १. १. ८) । अया पवस्व देवयुः ( सा० ७७२) पवते हर्यतो हरिर् (सा० ७७३) इति सफ(ऊ० १. १. १५) सुज्ञाने (ऊ० ६. २.१५) काशीतं (ऊ० ६.२.१६) वा । प्र सुन्वानायान्धसः (सा० ७७४) इति गौरीवितं तिसृषु (ऊ० ६.२.१७) गौरीवितमेकस्याम् (ऊ० १. १. १७) औष्णिहमोकोनिधनमेकस्याम् (ऊ० ६.२. १८) औदल- मेकस्याम् (ऊ० ६.२.१९) इति वा । साभ्रं तिसृषु (ऊ० ६.२.२०) कावमन्त्यम् (ऊ० १. १. १३) ।। ५ ।।
इति आर्भबः पवमानः ।।
 
सुज्ञानकाशीतयोर्विकल्पः ।। ५ ।।
यज्ञायज्ञीयमग्निष्टोमसाम ।। ६ ।।
ज्योतिष्टोमस्तोमः ।। ७ ।।
ज्योतिष्टोमशब्देनात्र ज्योतिष्टोमसंबन्धिस्तोमसंनिवेश उच्यते । त्रिवृद्बहिष्पवमानम् । पञ्चदशानि आज्यानि । पञ्चदशो माध्यंदिनः पवमानः । सप्तदशानि पृष्ठानि । सप्तदश आर्भवः । एकविंशोऽग्निष्टोम इति स्तोम इत्यर्थः ।। अग्निष्टोमान्ते स्तोमविमोचनादि पूर्ववत् ।। ७ ।। इति ज्योतिष्टोमस्तोमः ।।२।।
 
97 गवामयनम् – अभिप्लवः षडहः (अ. 1. ख. 3)
 
अभिप्लवषडहस्य द्वितीयमहः-गौः
गोसंज्ञकं द्वितीयमाभिप्लविकमहराह-
पवस्व वाचो अग्रियः (सा० ७७५- ७) पवस्वेन्दो वृषा सुतः (सा० ७७८- ८०) वृषा सोम द्युमाँ असि (सा० ७८१ -३) वृषा ह्यसि भानुना ( सा० ७८४ - ६) पवमानस्य ते कवे (सा० ७८५) ।। १ ।।
इति बहिष्पवमानम् । ।
अग्निं दूतं वृणीमहे (सा० ७९०) ।। २ ।।
इत्याज्यानि ।।
अग्निं दूतं (सा० ७९० - १२) मित्रं वयं (सा० ७९३-९५) इन्द्रमिद्गा- ( सा० ७९६-९९) चतुर्ऋचम् । इन्द्रे अग्ना (सा० ८०० -८०२ )
इत्याज्यानि । इन्द्र इद्गा-चतुर्ऋचे अन्त्याया उद्धारः ।। २ । ।
वृषा पवस्व धारये- ( सा० ८०३ - ५) ति गायत्रं च हाविष्मतं च (ऊ ० ७. १. १) यौक्ताश्वमुत्तरेषु यदुत्तरम् (ऊ० ७.१.२) । ।
उत्तेरष्वभिप्लवेषु द्वितीयतृतीयचतुर्थेषु हाविष्मतस्य स्थाने यौक्ताश्व- मुत्तरमित्यर्थः ।।
परीतो षिञ्चता सुतम् (सा ० १३१३ -१५) इति माधुच्छन्दसं (अ ० ७.१. ३) च भर्गश्च (र ० १ .२. ५) यशो (र ० १. २. ६) वायास्ये (ऊ० ७.१ .४-५) ।।
मधुच्छन्दसं प्रथमायाम् । भर्गस्तृचे । यशो वा । आइ पराइ इत्यैडमायास्यं तृचे । श्रीणन्तो गोभिरूहाउ होवेति त्रिणिधनमायास्य-
 
98
मध्यास्यायाम् । साध्यास्यायां चैकोऽध्यास्यायामेवान्ततो द्वौ तस्यां चैवादितश्च सा शशकर्णक्लृप्ते-( ला० श्रौ० ६. ३. २०-२१) ति
वचनात् । एवं तृचैकर्चकरणम् । भर्गयशसोर्व्यवस्थां सूत्रकार आह- आभिप्लविकस्य द्वितीयेऽहनि भर्गो यश इति प्राग् विषुवतो व्यत्यासं स्यातामिति गौतम इत्यादिना यश उत्तरस्मिन्नपरमि-( द्रा० श्रौ० सू० ७.४.९-१३ )त्यन्तेन ।।
वृषा शोण ( सा० ८०६-८) पार्थम् (ऊ० ७.१ .६) अन्त्यम् ।।३।।
इति माध्यंदिनः पवमानः ।।
अथ पृष्ठानि-
बृहच्च (र० १. १.५) वामदेव्यं (ऊ. १. १ .५) चाभि प्र वः सुराधसम् (सा० ८९१-२) इत्यभीवर्तः (ऊ० ७.१. ७) स्वासु कालेयम् (ऊ० १ .१ .७) ।। ४ ।।
इति पृष्ठानि ।।
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्र-मौक्षे (ऊ० ४. १. १०) हाविष्मतम् (ऊ० २ १. ५) उत्तरेषु । पवस्वेन्द्रमच्छे (सा० ६९२-६) ति शङ्कु-(ऊ० ७. १. ८) सुज्ञाने (ऊ० ६.२.८) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति गौरीवितं (ऊ. ७.१. ९) च क्रौञ्चं (ऊ० २.१. ९) च । वृषा मतीनां पवत ( सा० ८२१ -३) इति याममन्त्यम् (ऊ० २.१. १०) ।। ५ ।।
]। इत्यार्भवः पवमानः ।।
 
99 गवामयनम् – अभिप्लवः षडहः (अ. 1. ख. 4)
 
हाविष्मतमुत्तरेष्विति उत्तरेष्वभिप्लवेषु मौक्षस्य स्थाने हाविष्मत- मित्यर्थः ।। ५ ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ।। ६ ।।
साकमश्वम् (ऊ० १.१. १५) अभ्रातृव्यो अनात्वम् (सा० १ ३८९- ९०) इत्यामहीयवम् (ऊ० ७ १.१०) आष्टादंष्ट्रं यादौहो- वद् (ऊ० ७. १. ११) ।। ७ ।।
इत्युक्थानि ।।
यदौहोवदिति । इन्द्रं विश्वा अवीवृधन्नै( सा० ८२७ )यादौ होवेत्याष्टादंष्ट्रमित्यर्थः ।। ७ ।।
गोष्टोमस्तोमः ।। ८ ।।
पञ्चदशं बहिष्पवमानम् । त्रिवृदाज्यानि । सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयं सवनं सोक्थ्यम् इति गोष्टोमस्य स्तोम इत्यर्थः । स्तोमविमोचनादि पूर्ववत् ।। ८ ।।
इति गोष्टोमस्तोमः ।। ३ ।।
अथ अभिप्लवस्य तृतीयमहः-आयुः
आयुःसंज्ञिकं तृतीयमाभिप्लविकमहराह--
दविद्युतत्या रुचै-(सा० ६५४-६ ) ते असृग्रमिन्दवः (सा० ८३०-२) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् ।।
अग्निनाग्निः समिध्यते (सा० ८४४-५५) ।। २ ।।
इत्याज्यानि ।।
अग्निना (सा० ८४४-४६) मित्रं हुवे (सा० ८४७-४९) इन्द्रेण (सा० ८९०-५२ ) ता हुवे (८५३-५५)
इत्याज्यानि ।। २ ।।
उच्चा ते जातमन्धस (सा. ६७२-४) इति गायत्रं च वैरूपं (ऊ० ७. १. १२) चाभि सोमास आयवः (सा० ८५६-८) इति
 
100
रौरवं (ऊ० ७. १ .१३) च गौतमं (ऊ० २. १. १५) चाञ्जश्च वैरूपम् (र० १. २. ११) । अग्नेस्त्रिणिधनम् (ऊ० २.१. १४) । तिस्रो वाचः (सा० ८५९-६१) इत्यङ्गिरसां संक्रोशो- (ऊ. २ १ १७)न्त्यः ।। ३ ।।
इति माध्यंदिनः पवमानः ।।
रौरवं प्रथमायाम् । प्रहिन्वान (सा० ५३६) इत्यग्नेस्त्रिणिधन- मध्यास्यायाम् ।। ३ ।।
रथन्तरं ( र० १. १.१) च वामदेव्यं ( ऊ० १.१.५) चात्वा सहस्रमा शतम् (सा० १३९१.३) इत्यभीवर्तः । (ऊ. ७ १ १५) स्वासु कालेयम् (ऊ०. १.१.७) ।४।।
इति पृष्ठानि ।।
तिस्रो वाच उदीरत ( सा. ८६९-७१) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० ७. १. १६) चासोता परिषिञ्चत (सा. १३९४-५) सखाय आ निषीदते( सा० ११५७-९) ति वाचश्च साम (ऊ. ७. १. १७) सुज्ञानं च (ऊ० ७. १. १८) दैवोदासं (ऊ० ७. १. १९) च सुतासो मधुमत्तमा ( सा० ८७२-४) इति गौरीवितं (ऊ. २.२.३) चान्धी- गवं (ऊ. ७. १. २०) च पवित्र त (सा० ८७५-७) इति सामराजम् (ऊ. ७. २. १) अन्त्यम् । ५ ।।
इति आर्भवः पवमानः
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १ १४) ।। ६ ।।
स्वान्युक्थान ।। ७ ।।
षडहस्य तृतीयस्याह्नः उक्थानि- प्रमँहिष्ठीयं (ऊ. २.२ .५ हारिवर्णं ( ऊ० २.२.६) तैरश्च्य ( ऊ० २.२.७ )मिति ।। ७ ।।
आयुष्टोमस्तोमः ।। ८ ।।
 
101 गवामयनम् – अभिप्लवः षडहः (अ.1 ख.5)
 
त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयसवनम् । सोक्थ्यम् ।। ८ । ।
इति आयुष्टोमस्तोमः ।। ४ ।।
अभिप्लवस्य चतुर्थमहः -गौः
गोसंज्ञिकं चतुर्थमाभिप्लविकमहराह-
पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि ( सा. ९२४ -६) प्रयद्गावो न भूर्णयः ( सा० ८९२ - ७) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् । ।
प्रयद्गा - षडृचम् । तृचसूक्तानामादिग्रहणेन विधिरनादेश (ला० श्रौ० ६. ३.१) इति वचनात् । शिष्टास्तृचः । । १ ।।
अग्निर्वृत्राणि जङ्घनत् (सा ० १३९६-८) इति होतुराज्य- मिति । स्वान्युत्तराणि ।। २ । ।
इत्याज्यानि ।।
अग्निर्वृत्राणि (सा ० १३९६ -८) अयं वां मित्रावरुणा (सा ० ९१० - १२) इन्द्रो दधीचो अस्थभिर् (सा ० ९१३- १५) इयं वामस्य मन्मनः ( सा. ९१६-१८)
इत्याज्यानि स्वशब्देन गृह्यन्ते ।
चातुर्थिकत्वात् । । २ ।।
पवस्व दक्ष साधन (सा ० ७१९-२१) इति गायत्रं चादार० सृच्च (ऊ० ७.२.२) । परीतो षिञ्चता सुतम् (सा० १३१३-५) इति पृश्नि ( ऊ० ७.२. ३) चाथर्वणं (र ० १. २.१२) चाभीशवं (ऊ० ७.२. ४) च यौधाजयं (ऊ० ७. २. ५) चोहु वा अस्येति वासिष्ठम् (ऊ० ७.२.६) अन्त्यम् ।। ३ ।।
इति माध्यंदिनः पवमानः । ।
पृश्नि प्रथमायाम् । श्रीणन्त ( सा० १३१४) इति यौधाजयमध्यास्यायाम् । । ३ । ।
 
102
 
बृहच्च (र० १. १.५) वामदेव्यं (ऊ० १. १.५) च यो राजा चर्षणीनाम् ( सा० ९३३-४) इत्यभीवर्तः (ऊ० ७.२. ७) । स्वासु कालेयम् (ऊ० १. १. ७) ।। ४ ।
इति पृष्ठानि ।।
परि प्रिया दिवः कविर् ( सा० ९३५-७) इति गायत्रं चौर्णायवं च यदीनिधनम् (ऊ० ७. २. ८) । त्वं ह्यङ्ग दैव्य ( सा० ९८३-९) सोमः पुनान उर्मिणे( सा० ९४०- २) ति बृहत्क( ऊ० २.२. १६) सुज्ञाने (ऊ० ७.२.९) । पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितं (ऊ० ४. १. १३) च त्वाष्ट्रीसाम च यदूर्ध्वेडम् (ऊ० ७.२. १०) । प्रो अयासीद् (सा० ११५२-४) इति लौशम् (ऊ. ७. २. ११) अन्त्यम् ।। ५ ।।
इति आर्भवः पवमानः ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। ६ ।
सैन्धुक्षितं (ऊ० २.२.२०) सौभरं (ऊ० १. १. १६) वीङ्कं (ऊ० ४. १. १९) शुद्धाशुद्धीयं वा यदीडाभिरैडम् (ऊ० ७. १२. १२) ।। ७ ।।
इत्युक्थानि ।।
वीङ्कशुद्धाशुद्धीययोर्व्यवस्था भर्गयशोभ्यामुक्ता । तदुक्तम्- एताभ्यामुक्ते वीङ्कशुद्धाशुद्धीये (ला० श्रौ० ३.४. १३) इति ।।७।।
गोष्टोमस्तोमः ।। ८ ।।
पञ्चदशं बहिष्पवमानमित्यादि ।। ८ ।।
इति अभिप्लवस्य चतुर्थमहः-गोष्टोमस्तोमः ।।५।।
 
103 गवामयनम् – अभिप्लवः षडहः (अ.1. ख.6)
अभिप्लवस्य पञ्चममहः-आयुः
आयुःसंज्ञकं पञ्चममाभिप्लविकमहराह-
पवमानस्य विश्वविद् ( सा० ९५८-६०) यत्सोम चित्रमुक्थ्यम् (सा० ९९९ -१००१) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।
इति बहिष्पवमानम् ।।
अग्ने स्तोमं मनामह (सा० १४०५-७) इति होतुराज्यम् । स्वान्युत्तराणि ।। २ ।।
इत्याज्यानि।।
पुरूरुणा चिद्ध्यस्ति ( सा० ९८५-८७) उत्तिष्ठन्नोजसा सह ( ९८८-९०) इन्द्राग्नी युवाम्(सा० ९९१-९३) इत्युत्तराण्याज्यानि ।।२ ।। अर्षा सोम द्युमत्तम (सा० ९९४-६) रटति गयत्रं च यण्वं (र० १. १. ११) च । अपत्यं (र० १ . २. १३) संतनि (ऊ० ७. २. १३) शाक्वरवर्णम् ( र० १. २. १४) । तान्युत्तरेषु । अभिसोमास आयवः (सा० ८५६-८) इति मानवं (ऊ० ७.२. १४) चानूपं(ऊ० ७.२. १५) च वाम्रं ( ऊ० ७.२. १६) चाग्नेस्त्रिणिधनम् ( ऊ० ७. १. १४) । अभि त्रिपृष्ठम् (सा० १४०८-१०) इति सम्पान्त्यमन्त्यम् (ऊ० ७.२. १७) ।।३।।
इति माध्यंदिनः पवमानः । ।
अपत्यं संतनि शाक्वरवर्णम् । तान्युत्तरेष्विति । अपत्यादीनि त्रीणि सामानि द्वितीयादिष्वभिप्लवेषु यथासंख्यं यण्वस्थान इत्यर्थः । मानवं
प्रथमायाम् । अग्नेस्त्रिणधनमध्यास्यायाम् ।। ३ ।।
 
104
रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १. १.५) च त्वमिन्द्र यशा असी-(सा० १४११-२) त्यभीवर्तः (ऊ० ७.२. १८) । स्वासु कालेयम् (ऊ० १. १. ७.) ।। ४ ।।
इति पृष्ठानि ।।
असाव्यंशुर्मदाये( सा० १००८-१०) ति गायत्रं च गोषूक्तं (ऊ० ७.२. १९) चाभिद्युम्नं वृहद्यशः (सा० १०११-२) प्राणा शिशुर्महीनाम् (सा० १०१३-५) इति च्यावन(ऊ० ३. १. ११) सुज्ञाने (ऊ० ७.२.२०) । दैवोदासं (ऊ० ७.२ २१) वा । पवस्व वाजसातय (सा० १०१६-८ ) इति गौरीवितं (ऊ० ३. १. १३) च रयिष्ठं च (ऊ० ८. १ . १) असावि सोमो अरुषो वृषा हरिर् ( सा० १३१६-८) इति द्व्यभ्याघातं लौशम् (ऊ० ८ .१.२) अन्त्यम् । ।५ ।।
इति ह्यार्भवः पवमानः ।।
सुज्ञानदैवोदासयोर्विकल्पः ।। ५ ।।
यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १. १. १४) ।। ६ ।।
यजिष्ठं त्वा ववृमह ( सा० १४१३-४) इति साध्यं (ऊ० ८. १.३) सांवर्तं (ऊ० ५. १ . १२) मारुतम् (ऊ० ५ १. १३) ।। ७ ।।
इत्युक्थानि ।।
अयुष्टोमस्तोमः ।। ८ ।
त्रिवृद् बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशं माध्यंदिनं सवनम् इत्यादि ।। ८ ।।
इति आभिप्लविकं पञ्चममहः अयुः ।। ६ ।।
-
अभिप्लवस्य षष्ठमहः --ज्योतिः
ज्योतिःसंज्ञकं षष्ठमाभिप्लविकमहराह-
असृक्षत प्र वाजिनः ( साऽ १०३४-६) एतमु त्यं दश क्षिपः (सा० १०८१-३) पवमानस्य ते कवे (सा० ६५७-९) ।।१ ।।
इति बहिष्पवमानम् ।।
 
105 गवामयनम् – अभिप्लवः षडहः (अ.1 ख.7)
 
यमग्ने पृत्सु मर्त्यम् (सा० १४१५-७) इति होतुराज्यम् । स्वान्युत्तराणि ।। २ ।।
।। इत्याज्यानि ।।
प्रति वां सूर उदिते (सा० १०६७-६९) भिन्धि विश्वा अप -द्विषो ( सा० १०७०-७२) यज्ञस्य हि स्थ ऋत्विजा (सा० १०७३-७५)
इत्युत्तराण्याज्यानि ।। २ ।।
इन्द्रायेन्दो मरुत्वते-(सा० १०७६-८) ति गायत्रं चाश्वसूक्तं च ( ऊ० ८.१.४) सकृदिषोवृधीयं (ऊ० ३.१. १९) कुर्यात् मृज्यमानः सुहस्त्ये( सा० १०७९ - ८० त्यैडं चौक्ष्णोरन्ध्रं (ऊ० ३. २. २) त्रिणिधनमायास्यं (ऊ० ८.१ .६) सकृत्समन्तं कुर्यात् (ऊ० ८.१ .५) । साकमुक्ष ( सा० १४१८-२०) इतीहवद्वासिष्ठम् (ऊ० ८. १. ७) अन्त्यम् ।। ३ ।।
इति माध्यंदिनं पवमानम् ।।
सकृदिषोवृधीयं कुर्यादिति । अन्तेऽभिप्लव इषोवृधीयमाश्व- सूक्तस्य स्थाने कुर्यादित्यर्थः । एवं त्रिणिधनस्थाने समन्तम् । तदिदमुक्तम्-इषोवृधीयसमन्ते पृष्ठ्यानन्तर्ये षष्ठ ( ला० श्रौ० ३. ४. १६) इति । ३
बृहच्च ( र० १. १. ५) वामदेव्यं ( ऊ० १. १. ५) च । पिबा सुतस्य रसिन (सा० १४२१ -२) इत्यभीवर्तः (ऊ० ८. १ .८) । स्वासु कालेयम् (ऊ० १. १ .७) ।। ४ ।।
इति पृष्ठानि ।।
परि स्तवानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रं चैध्मवाहं च यदिहवत् (ऊ० ८. १. ९) स सुन्वे यो वसूनां (सा० १०९६-७) तं वः सखायो मदाये-(सा० १०९८- ११००) ति
 
106
दीर्घ-(ऊ० ३.२. ११) सुज्ञाने (ऊ० ८.१. १०) । काशीतं (ऊ० ८.१ .११) वा । सोमाः पवन्त इन्दव (सा० १९०१-३) इति गौरीवितं ( ऊ० ३ .२. १३) च क्रौञ्चं च यत्स्वयोनि (ऊ० ३.२.१६) । त्रिरस्मै सप्त धेनवो दुदुह्रिरे (सा० १४२३-५) इति मरुतां धेनु (ऊ० ८.१.१२) अन्त्यम् ।। ५ ।।
इत्यार्भवः पवमानः ।।
यदिहवदिति । परिसुवा इहेत्यैध्मवाहमित्यर्थः । यत्स्वयोनीति वाङ्निधनव्यावृत्त्यर्थम् ।। ५ ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १ . १४) ।। ६ ।।
गूर्दम् (ऊ० ३.२.१८) त्रैककुभं ( ऊ० ६.१ .७) नार्मेधम् (ऊ० १. १. १७) इत्युक्थानि । यद्युक्थ्यः ।।
यद्युत्सृजेयुरुक्थानि उत्सृजेयुरिति पक्षाश्रयणेन यद्युक्थ्यान्तं चिकीर्षितमित्यर्थः । तदुक्तम्-उत्सर्जनानि मासि मासि यथान्ते एवमा- वृत्तानामादिः पूर्वेष्वभिप्लवेषु षष्ठमहरुक्थ्यं कृत्वाग्निष्टोममुत्तमः (द्रा० श्रौ०
सू० ८४८-१०) इति । सिद्धान्तमाह-
अग्निष्टोमस्त्वे ।। ७ ।।
उत्रसर्जनस्यानित्यत्वादिति भावः । तथा यद्युत्सृजेयु(तां० ब्रा० ५.
१ ०.५)रिति ब्राह्मणम् ।।
ज्योतिष्टोमस्तोमः ।। ७ ।।
त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । पञ्चदशः माध्यंदिनः पवमानः । सप्तदशानि पृष्ठानि । सप्तदश आर्भवः । एकविंशो- ऽग्निष्टोमः । सोक्थ्य इति ।। ७ ।।
इति ज्योतिः ।।
इति अभिप्लवस्य षष्ठमहः ।।
संपूर्णोऽभिप्लवः षडहः ।।
 
107 गवामयनम् – पृष्ठ्यः षडहः (अ. 1. ख. 8)
पृष्ठ्यः षडहः
एवमन्येऽपि त्रयोऽभिप्लवाः कर्तव्याः । तेषु विशेषः । द्वितीये- ऽहनि हाविष्मतस्य स्थाने यौक्ताश्वमुत्तरम् । मौक्षस्य हाविष्मतम् । द्वितीयेऽभिप्लवे पञ्चमेऽहनि यण्वस्य स्थानेऽपत्यम् । तृतीयेऽभिप्लवे पञ्चमेऽहनि संतनि । मानवात् पूर्वं वाम्रं च मानवं चानूपं चेति । पञ्चमेऽहनि यदहः ग्रामेगेयं संताने स्यात् मानवात् पूर्वं वाम्रं स्यात् (द्रा० श्रौ० ७.४.१६) इति वचनात् । एतच्चाजाम्यर्थम् । तत्र वाम्रं प्रथमायाम् । मानवं तृचे । चतुर्थेऽभिप्लवे पञ्चमेऽहनि यण्वस्य स्थाने शाक्वरवर्णम् । तत्रैव षष्ठेऽहन्याश्वसूक्तस्येषो- वृधीयम् । त्रिणिधनायास्यस्य समन्तम् । भद्रयशसोर्वीङ्कशुद्धाशुद्धीययोश्च व्यवस्थाप्रकार उक्तो न प्रस्मर्तव्यः । अन्यत् सर्वं प्रथमवत् ।।
एवं चतुरोऽभिप्लवानुपेत्य पृष्ठ्यःषडहमुपयन्तीति तस्य
क्लृप्तिमाह
पृष्ठ्यः षडहः समूढो वा व्यूढो वा ।। १ ।।
ब्राह्मणोक्तं पृष्ठ्यस्य यद् व्यूढत्वं तद्यदि दशरात्रप्रयुक्तं तत्र समूढोऽयं भवितुमर्हति । अविच्छिन्नत्वात् । अथ पृष्ठ्यप्रयुक्तं ततो व्यूढ इति संदेहाद्विकल्प इति पूर्वः पक्षः ।। १ ।।
सिद्धान्तमाह
समूढस्त्वेव ।। २ ।।
इति । दशरात्रप्रयुक्तो व्यूह इति भावः । तथा च निदानम्- अथापि विलुप्तो व्यूढः षडह ( नि० सू० ५. ६ .१) इत्यादि । श्रुत्यन्तरं च नर्ते छन्दोमेभ्यः पृष्ठयो व्यूहमानश (नि० सू० ५.६.४) इति।।२ ।।
-
 
108
 
तस्य समूढस्य क्लृप्तिर्वक्ष्यत इत्याह-
तस्य कल्पः ।। ३ ।।
इति ।। ३ ।।
प्रथममहराह
उपास्मै गायता नरः ( सा० ६५१-३) उपोषु जातमप्तुरम् (सा० १ ३३५-७) पवमानस्य ते कवे (सा० ६५७-९) इति प्रथमस्याह्नो बहिष्पवमानम् ।। ४ ।।
अस्य प्रत्ना-(सा० ७५५-९३) नवर्चस्य नवाहयोगाभावान्निवृत्तिः । प्रत्नवतीभिश्चोपवतीभिश्चेत्यारभ्य नव भवन्ति । नवाहस्य युक्त्या (तां० ब्रा० ११. १ .६) इति श्रुतेः ।।
प्र सोम देववीतय ( सा० ७६७-८) इत्यभीवर्त एकस्याम् (ऊ० ८. १. १३) । पज्रमेकस्याम् (ऊ० ६.२.१३) । यौधाजयमेकस्याम् (ऊ० १. २.१३) । समानमितरत् ।। ५ ।।
दशरात्रिकेण प्रथमेनाह्ना समानमितरदित्यर्थः ।।
अग्न (सा० ६६०-२) आ नो मित्रा (सा० ६६३-५) आ याहि- (सा० ६६६-८) इत्याज्यानि । प्र सोमासो विपश्चितः (सा० ७६४-६) इति गायत्रमाश्वं (ऊ० ६.२.१२) सोमसाम (ऊ० १४.१. १३) इति तृचः । प्र सोम देववीतये (सा० ७६७-८) इत्यभीवर्त-(ऊ० ८.१. १३) पज्र-(ऊ० ६.२.१३) यौधाजयैः (ऊ० १. २.१३) सामतृचः । प्र तु द्रव (सा० ६७७-९) इत्यौशन(ऊ० १. १. ४) मन्त्यम् । रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च नौधसं (ऊ० १. १. ६) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि । अस्मिन्नपि पृष्ठे रथघोषादयः पृष्ठधर्माः कार्याः । सह धर्मैः सर्वत्र पृष्ठं स्यात् ( ला० श्रौ० ३.६.१६) इति वचनात् ।। प्र सोमासो मदच्युत ( सा० ७६९-७१) इति गायत्रमेकस्याम् । तस्यामेव
 
109 गवामयनम् – पृष्ठ्यः षडहः (अ.1. ख.9)
 
संहितम् (ऊ० १.२. १४) । अया पवस्व देवयुः(सा० ७७२-४) पवते हर्यतो हरिर् (सा० ७७३-४) इत्येकर्चयोः सफाक्षारे (ऊ० १. २.१५-१६) । प्र सुन्वानायान्धस इति प्रथमायां गौरीवितगौतमे (ऊ० १. २.१७-१८) । काव(ऊ० १.१.१ ३)मन्त्यम् । यज्ञा- यज्ञीय( ऊ० १. १.१ ४)मग्निष्टोमसाम । सर्वं त्रिवृत् । अत्रेदमनु- संधेयम् । यत्सामावसृजेयुरवस्वर्गाल्लोकात् पद्येरन् (तां० ब्रा० ४.३.६) इत्यभीवर्तप्रकरणे श्रवणात् पूर्वस्मिन् पक्षसि सर्वत्र कर्तव्योऽभीवर्त इति स्थिते पृष्ठस्य नानाब्रह्मसामत्वात् न तत्राभिप्लववत् ब्रह्म- सामत्वेन संकल्पयितुं शक्यत इति पावमानीकीषु वृहतीषु निवेश्यते । नित्यानुग्रहेणैव च स्तोमोपपत्त्यर्थमागन्तुभिर्नित्यैः सहैकर्चं क्रियते । तत्र द्वितीयादिष्वहस्सु कालेयमागन्तु कल्पयिष्यते । तं खलु वृहतीषु कालेयमनुकल्पयामः । सतोऽनुरूपमस्मिन् भवतीति । अस्मिंस्त्वहनि कालेयस्याच्छावाकसामत्वात् संचारदोषो मा भूदिति
पज्रमागन्तु कल्पितमिति ।। ५ ।।-।। ८ ।।
द्वितीयस्याह्नः
पुनानः सोम धारय ( सा० ६७५ - ६) इत्यैडमायास्यमेकस्याम् (ऊ० १.२.२०) अभीवर्त एकस्याम् (ऊ० ८.१.१४) कालेय- मेकस्याम् (ऊ० ८.१.१५) वृषा शोण (सा० ८०६-८) इति
 
110
पार्थम् ( ऊ० ७१६) अन्त्यम् । इति माध्यंदिनस्य । समान- मितरत् ।। १ ।।
इति । माध्यंदिनशब्देन कल्पे सर्वत्र माध्यंदिनः पवमान उच्यते । इहवद्वासिष्ठस्य षष्ठेऽहनि माध्यंदिनान्त्यत्वेन कल्पयिष्यमाणत्वात् असंचाराय पार्थमत्र कल्पितम् । एतत्स्तोमं क्षत्रसाम बृहती- पृष्ठेऽभिरूपम् (नि० सू० ) इति निदानम् । तत्रेयं क्लृप्तिः । पवस्व वचो (सा० ७७५-७) पवस्वेन्दो (सा० ७७८-८०) वृषा सोम ( सा० ७१८-३) वृषा ह्यसि (सा० ७८४-६) पवमानस्य ते वयम् ( सा० ७८७-९) इति बहिष्पवमानम् । अग्निं दूतं (सा० ७९०-२) मित्रं वयम् (७९३-५) इन्द्रमिद्गा (सा० ७९६-९) चतुर्ऋचम् । इन्द्रे अग्ना (सा० ८००-२) इत्याज्यानि । चतुर्ऋचेऽन्त्याया उद्धारः । वृषा पवस्व धारय ( सा० ८०३-५) इति गायत्रं च यौक्ताश्वं (ऊ० १.२.१ ९) च । पुनानः सोम धारय (सा० ६७५ ६) इत्यैडमायास्यम् ( ऊ० १ .२.२ ०) अभीवर्तः ( उ० ८.२.१३) कालेय- (ऊ० १०. १.१ ३)मिति सामतृचः । त्रिणिधनमायास्यं(ऊ० २.१.१) । तृचे । वृषा शोण (सा० ८०६-८) इति पार्थ ( ऊ० ७.१. ६)मन्त्यम् । वृहच्च ( र० १. १.५) वामदेव्यं ( ऊ० १. १.५) च श्यैतं ( ऊ० २.१. ३) च माधुच्छन्दसं (ऊ० २.१.४) चेति पृष्ठानि । वृहत्स्तोत्रे दुन्दुभिमाहन्युः । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च हाविष्मतं ( ऊ० २.१ .५) च । पवस्वेन्द्रमच्छे(सा० ६९२-३; ६९४-६)ति शङ्कुसुज्ञाने (ऊ० २.१. ६-७) एकर्चे । अयं पूषा रयिर्भग ( सा० ८१८-२०) इति गौरीवित( ऊ० २.१. ८) मेकस्याम् । क्रौञ्चं ( ऊ. २.१.९) तृचे । वृषा मतीनां पवत ( सा० ८२१-३) इति याम(ऊ० २.१.१० )मन्त्यम् । यज्ञायज्ञीय- ( ऊ० १.१.१ ४)मग्निष्टोमसाम । साकमश्वम् (ऊ० १ .१. १५) ।
 
111 गवामयनम् – पृष्ठ्यः षडहः (अ.1. ख.10)
एवाह्यसि वी-( सा० ८२४-३) त्यामहीयवम् (ऊ० २. १. ११) । आष्टादंष्ट्र( ऊ० २.१ .१२ )मित्युक्थानि । सर्वं पञ्चदशम् ।।६।।-।।९। -
तृतीयस्याह्नः
अभि सोमास आयवः (सा० ८५६८) इति पौरुमद्गं प्रथमायाम् । ( ऊ० १. १. १४) तस्यामेवाभीवर्तः ( ऊ० ८.१. १६) । कालेयं द्वितीयायाम् ( ऊ० ८. १. १७) । गौतमं तृतीयायाम् (ऊ० १.१. १५) । समानमितरत् ।। १ ।।
इति । चतुर्णां प्रथमायां द्वावितरौ नानोत्तरयोर् ( द्रा० श्रौ० १६.३.१३) इति न्यायादेवमेकर्चकरणम् । अथ क्लृप्तिः । दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिदवो (सा० ८३०-२) राजा मेधाभिरीयते (सा० ८३३-५) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-४०) इषे पवस्व धारय (सा० ८४ १-३) इति बहिष्पवमानम् । अग्निना ( सा० ८४४-६) मित्रं हुव ( सा० ८४७-९) इन्द्रेण (सा० ८५०-२) ता हुव (सा० ८५३-५) इत्याज्यानि । उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० २. १.१३) च । अभिसोमास आयवः ( सा० ८५६-७) इति पौरुमद्गं (ऊ० २. १. १४) प्रथमायाम् । अभीवर्त-(ऊ० ६.१.१६) कालेय ( ऊ० १. १. ७) गौतमैः ( ऊ० १.२.१८) सामतृचः अन्तरिक्षं (र० १. १.५) तिसृषु । प्र हिवान (सा० ५३६) इत्यस्याध्यास्यायाम् आष्कारणिधनम् (ऊ० २.१. १६) । तिस्रो वाच (सा० ८५९-६१) इत्यङ्गिरसां संक्रोशो (ऊ० २.१.१७)ऽन्त्यः । वैरूपं च वामदेव्यं च । वयं घ त्वे (सा० ८६४-६) महावैष्टम्भम् (ऊ० २. १. १८) । तरणिरित्सिषासति (सा० ८६७-८) इति
 
112
 
रौरवं (ऊ० २. १. १९) चेति पृष्ठानि । उपवाजयमाना वैरूपेण स्तुवीरन्नि( ला० श्रौ० २. ५.३) त्यादि । तिस्रो वाच उदीरत (सा० ८६९-७१) इति गायत्रं च पाष्ठौहं (ऊ० २. १. २०) च । आ सोता परिषिञ्चत ( सा० १३९४-५) सखाय आ निषीदत (सा ११५७-९) इति वाचःसाम शौक्तं (ऊ० २.२. १-२) चैक- र्चयोः । सुतासो मधुमत्तमा (सा० ८७२-४) इति गौरीवितं (ऊ० २.२.३) च त्रिणिधनं च त्वाष्ट्रीसाम ( ऊ० २.२.४) । पवित्रं त ( सा० ८७५-७ इत्यरिष्ट( र० १. १. ८ )मन्त्यम् । यज्ञायज्ञीय- (ऊ० १. १. १४) मग्निष्टोमसाम । प्रमंहिष्ठीयं (ऊ० २. २.५) हारिवर्णं ( ऊ० २.२.६) तैरश्च्य- (ऊ० २.२.७ )मि- त्युक्थानि ।। सर्वं सप्तदशम् ।। १ ।।-।। १० ।।
चतुर्थस्याह्नः
पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि ( सा० ९२४-६) इति स्तोत्रीयानुरूपौ । अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) होतुराज्यम् । तवाहं सोम रारण (सा०९२२-३) इत्याष्टादंष्ट्रोत्तरमेकस्याम् (ऊ०२.२.९) । अभीवर्त एकस्याम् (ऊ० ८. १ . १८) । कालेयमेकस्याम् (ऊ० ८.१.१९) । सोमः पवते जनिता मतीनाम् ( सा० ८४३-५) इति जनित्रमन्त्यम् (ऊ० ८.२. १) । माध्यदिनस्य प्र त आश्विनीः पवमान धेनवः (सा० ८८६-८) इति लौशमन्त्यम् (ऊ० ८.२.२) आर्भवस्य । समानमितरत् ।। १ ।।
 
113 गवामयनम् – पृष्ठ्यः षडहः (अ.1. ख. 11)
इति । स्तोत्रीयो बहिष्पवमानस्याद्यस्तृचः । द्वितीयोऽनुरूपः । अत्र गायत्रीत्रिष्टुब्जगतीनाम् अन्योन्यलोकपरिहरणेन प्रकृतिवदवस्थानं समूह इत्यस्मिंस्त्र्यहे वैयूहिकेऽहरेव जगतीत्रिष्टुभोरार्भवान्ते माध्यं- दिनान्ते च कृतयोर्बहिष्पवमाने प्रकृतिवदवस्थाने वैयूहिको यूपः तत्स्थाने च माध्यदिनान्त्यो गायत्रस्तृचो यथाप्रत्यासक्तिरिष्यते । होतुराज्यानि च । वैयूहिकान्युद्धृत्य गायत्राणि तद्विभक्तीनि प्रति- निधीयन्त इत्यनुसंधेयम् ।।
अथास्य क्लृप्तिः । पवमानो अजीजनत्( सा० ८८९-९१) पुनानो अक्रमीदभि (सा० ९२४-६) प्र यद्गावो न भूर्णय (सा० ८९२-६) आशुरर्षबृहन्मते (सा० ८९८-९०३) हिन्वन्ति सूरमुस्रय (सा० ९०४-६) इति बहिष्पवमानम् । अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) अयं वां मित्रावरुणा (सा० ९१०-२) इन्द्रो दधीचो अस्थभिः (सा० ९१३-५) इयं वामस्य मन्मन ( सा० ९१६-८) इत्याज्यानि । पवस्व दक्ष साधन (सा० ९१९-२१) इति गायत्रं चाथर्वणं (र० १. १.९) च निधनकामं (ऊ० २.२.८) च । तवाहं सोम रारण (सा० ९२२-३) इत्याष्टादंष्ट्र( ऊ० २.२.९)मभीवर्तः (ऊ०६.१.१६) कालेय(ऊ० १. १. ७)मिति सामतृचः । आभीशवं (ऊ० २.२.१०) तिसृषु ।
 
114
स्वःपृष्ठं (ऊ० २.२. ११) तिसुषु । सोमः पवते जनिता मतीनाम् ( सा० ९४३-५) इति जनित्र(ऊ० ८.२. १ )मन्त्यम् । वैराजं (र० १. १. १०) च वामदेव्यं ( ऊ० १. १. ५) च त्रैशोकं (ऊ० २.२. १३) च पृश्नि (ऊ० २.२.१४) चेति पृष्ठानि । वैराजस्य स्तोत्रमुपाकृत (ला० श्रौ० सू० ३.५.५) इत्यादि । परि- प्रिया दिवः कविर् (सा० ९३५-७) इति गायत्रं चौर्णायवं (ऊ० २. २. १५) च । त्वं ह्यङ्ग दैव्यम् सोम । पुनान ऊर्मिणा (सा० ९३८-९) इति बृहत्कातीषादीये (ऊ० २.२. १६-१७) । पुरोजिती वो अन्धस सा० ६९७-९) इति नानदा-(ऊ० २.२.१८ )न्धीगवे(ऊ० १ . १. १२) । प्र त आश्विनीर् (सा० ८८६) इति लौशम् ( ऊ० ८.२.२) अन्त्यम् । यज्ञायज्ञीय(ऊ० १. १. १४ )मग्निष्टोमसाम । सैन्धुक्षितं ( ऊ० २.२.२०) सौभरं (ऊ० १. १. १६) वसिष्ठस्य प्रिय- (ऊ० ३.१. १ )मित्युक्थानि । इन्द्र जुषस्व (सा० ९५२-४) इति गौरी- वितं (ऊ० ३. १. २) षोडशिसाम । सर्वमेकविंशम् ।। १ ।।-।। ११ ।।
पञ्चमस्याह्नः
पवमानस्य विश्ववित् (सा० ९५८- १०) यत् सोम चित्रमुक्थ्यम् ( सा० ९९९-१००१) इति स्तोत्रीयानुरूपौ । अग्ने स्तोमं मनामहे (सा० १४०५-७) इति होतुराज्यम् । सोम उष्वाणः सोतृभिः (सा० ९९७-८) इति मानवानूपे (ऊ० ३. १. ५-६) तृचयोः । वाम्रमेकस्याम् (ऊ० ३. १. ७) अभीवर्त एकस्याम् (ऊ० ८.२.३) । कालेयमेकस्याम् ( ऊ० ८.२.४) । इन्दुर्वाजी पवते गोन्योघा (सा० १०१९-२१) इति संपान्त्या (ऊ० ८.२. ५) माध्यदिनस्य । पार्थस्य लोके त्वाष्ट्रीसाम यद् द्व्यनुतोदम् (ऊ० ८.२.६) । गोवित् पवस्व (सा० ९५५-७) इति द्व्यभ्याघातं लौशम् (ऊ० ८.२. ७) अन्त्यम् आर्भवस्य । समानमितरत् ।। ११ ।।
 
115 गवामयनम् – पृष्ठ्यः षडहः (अ. 1. ख.12)
इति । पार्थस्य लोके त्वाष्ट्रीसामेति (अ)संचारार्थमुक्तम् । पवमानस्य विश्ववित् ( सा० ९५८-१ ०) । यत्सोम चित्रमुक्थ्यम् (सा० ९९९-१००१) । प्र सोमासो अधन्विषुः (सा० ९६१-७) प्र कविर्देववीतये (सा० ९६८-७४) यवं यवन्नो अन्धसा (सा० ९७५-८) यास्ते धारा मधुश्चुतः (सा० ९७९-८१) इति बहिष्पवमानम् । अग्ने स्तोमं मनामहे (सा० १४०५-७) पुरूरुणा चिद्ध्यस्ति (सा० ९८५- ७) उत्तिष्ठन्नोजसा सह ( सा० ९८८-९०) इन्द्राग्नी युवाम् (सा० ९९१-३) इत्याज्यानि । अर्षा सोम द्युमत्तम (सा. ९९४-६) इति गायत्रं च यण्व( र० १. २. १ )शाकलवार्शानि( ऊ० ३ १.३-४) । सोम उष्वाणः सोतृभिर् ((सा० ९९७-८) इति मानवानूपे (ऊ० ३. १. ५-६) तृचयोः । वाम्रा-( ऊ० ३. १. ७)भीवर्त- (ऊ० ६.१.१६) कालेयैः (ऊ० १. १.७) सामतृचः । अग्नेस्त्रिणि- धनं (ऊ० ३. १.८) तिसृषु । इन्दुर्वाजी पवते (सा० १०१९-२१) इति संपान्त्या-( ऊ० ८.२.५ )न्त्यम् । महानाम्न्यश्च वामदेव्यं (ऊ० १. १. ५) च बार्हद्गिरं (र० १.२.२) च रायोवाजीयं ( र० १.२.४) चेति पृष्ठानि । अपः सावका उपनिधाय महा- नाम्नीभिः स्तुवीरन्नि( ला० श्रौ० सू० ३.५. १३) त्यादि । असाव्यं- शुर्मदाये(सा० १००८-१) -ति गायत्रं च संतनि (ऊ० ३. १. १०) च । अभिद्युम्नं बृहद्यशः - प्राणाशिशुर्महीनाम् (सा० १०१३-५) इति च्यावनक्रोशे (ऊ० ३.१. ११ -१२) । पवस्व वाजसातये (सा० १०१६-८) इति गौरीवितं (ऊ० ३. १.१३) च ऋषभश्च- शाक्वरं (र० १.२.५) त्वाष्ट्रीसाम ( ऊ० १६.२. १) च द्व्यनुतोदमष्टेडश्च पदस्तोभः ( र० १.२.६) । गोवित्पवस्वे(सा०
 
116
९५५-७ )ति द्व्यभ्याघातं लौश-( ऊ० ७.२. ११) मन्त्यम् । यज्ञायज्ञीय(ऊ० १ . १. १४ )मग्निष्टोमसाम । संजयं च सौमित्रं महावैश्वामित्रं ( ऊ० ३. १. १६-८) चोकस्थानि । सर्वं त्रिणवम् ।। १२ ।।
-
षष्ठस्याह्नः
असृक्षत प्र वाजिन (सा० १०३४-६) एतमु त्यं दश क्षिपः (सा० १०८१-३) इति स्तोत्रीयानुरूपौ । यमग्ने पृत्सु मर्त्यम् (सा० १४१५-७) इति होतुराज्यम् । मृज्यमानः सुहस्त्ये-( सा० १०७९-८०) ति स्वारमौक्ष्णोरन्ध्रं तिसृषु ( ऊ० ३ २. १) ऐडमौक्ष्णोरन्ध्रमेकस्याम् (ऊ० ३.२.२) अभीवर्त एकस्याम् (ऊ० ८ २.८) कालेयमेकस्याम् (ऊ० ८.२. ९) अया पवा पवस्वैना वसूनी-( सा० ११०४-६) ति इहवद्वासिष्ठमन्त्यं ( ऊ० ८. २. १०) माध्यंदिनस्य । ज्योतिर्यज्ञस्य पवते मधु प्रियम् (सा० १०३१ -३) इति मरुतां धेन्वन्त्यम् (ऊ० ८.२. ११) आर्भवस्य । समानमितरम् । समानमितरम् ।। १ ।।
इति आर्षेयकल्पसूत्रे प्रथमोऽध्यायः ।। १ ।।
असृक्षत प्र वाजिनः (सा० १०३४-६) एतमुत्यं दश क्षिपः सा० १०८१-३) पवस्व देववीरति (सा० १०२७-४६) स ना च सोम जेषि च ( सा० १०४७-५६) तरत्समन्दी धावति (सा० १०५७-६०) एते सोमा असृक्षते( सा० १०६१-६३)ति बहिष्पवमानम् । यमग्ने पृत्सु मर्त्यं (सा० १४१५-७) प्रति वां सूर उदिते (सा० १०६७-९) भिन्धि विश्वा अप द्विषो (सा० १०७०-२) यज्ञस्य हि स्थ ऋत्विजे(सा० १०७३-५)त्याज्यानि । इन्द्रायेन्दो मरुत्वते (सा० १०७६-८) इति गायत्रं चेषोवृधीयं (ऊ० ३. १.१९) गायत्री- क्रौञ्चं ( ऊ० ३. १. २०) च वाजदावर्यश्च (ऊ० ३.२. १)
 
117 गवामयनम् – पृष्ठ्यः षडहः (अ.1. ख. 13)
रेवत्यश्च (र० १.२.७) । मृज्यमान (सा० १०७९-८०) इति स्वारमौक्ष्णोरन्ध्रं (ऊ० ३.२.२) तिसृष्वैडमौक्ष्णोरन्ध्र-(ऊ० ३. २. ३)मभीवर्तः (६. १.१६) कालेय-(ऊ० १. १.७) मिति सामतृचे । वाजजिद्वरुणसाम (ऊ० ३.२. ४-५) । अङ्गिरसां गोष्ठश्च (ऊ० ३. २.६) तिसृषु । अया पवस्वैना वसूनी-( सा० ११०४-६ )तीहवद्वा- सिष्ठ-(ऊ० ८.२. १०) मन्त्यम् । रेवतीषु वारवन्तीयम् (ऊ० ३. २.८) । स्वासु वामदेव्यम् (ऊ० १. १.५) । सुरूपकृत्नुमूतये (सा० १०८७-९) इत्यृषभोरैवतम् (र० १.२.८) । उभे यदिन्द्रेति श्येनश्च (र० १.२.९) पृष्ठानि । वारवन्तीयस्य स्तोत्रे धेनु- रित्यादि पृष्ठधर्म उक्तः । परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रं च त्रीणि च वैदन्वतानि (ऊ० ३.२.९-११) । ससुन्वेयो वसूनाम् (सा० १०९६-७) तं वः सखायो मदाये( सा० १०९८- ११००) ति दीर्घकार्णश्रवसे (ऊ० ३.२.१२-१३) च । सोमा पवन्त (सा० ११०१-३) इति गौरीवितं च मधुश्चिन्निधनं च क्रौञ्चे च वाङ्निधनैडे ( ऊ० ३. १. १४-७) । ज्योतिर्यज्ञस्ये-(सा० १०३१-३) ति मरुतां धेन्व( ऊ० ८.२.११) न्त्यम् । यज्ञायज्ञीय(ऊ० १. १.१४ )मग्निष्टोमसाम । अग्ने त्वं नो अन्तम (सा० ११०७-९) इति गूर्दः (ऊ० ३.२.१९) । इमा नु कम् (सा० १११०-२) इति भद्रम् (र० १.२. १०) । प्र व इन्द्राये(सा० १११३-५ )त्युद्वंशपुत्र (ऊ० ३.२.२०) इत्युक्थानि । सर्वं त्रयस्त्रिंशम् ।।
षष्ठेऽहनि संस्थिते इत्यादि पूर्ववत् । अत्र सूत्रम्-आभीवर्त- स्तोत्रीयानाभिप्लाविकान् पृष्ठ्ये संशयेत् । ब्राह्मणाच्छंसिना कालेयर्चो- ऽच्छावाकेन सर्वत्र यदा पवमाने स्याता-( ला० श्रौ० ३.६. १८) विति । तत्र प्रथमद्वितीययोरह्नोराभिप्लाविकस्याभीवर्तस्य
 
118
पार्ष्टिकयोर्नौधसश्यैतयोश्च समानस्तोत्रीयाविति न तयोः पृथगनु- शासनम् । प्रथमेऽहनि कालेयस्य च । एवं चतुर्भिरभिप्लवैः पृष्ठ्येन चैको मासः । स द्वितीयः । स तृतीयः । स चतुर्थः । स पञ्चमः । षष्ठेऽपि मासे त्रयोऽभिप्लवाः प्रयोक्तव्याः । चतुर्थस्य लोपः । पूर्वस्मिन् पक्षसि त्रिषु चतुर्थोऽभिप्लवो लुप्येते( ला० श्रौ० ३.४. १७ )ति वचनात् । तृतीयेऽभिप्लवे षष्ठेऽहनि इषोवृधीयसमन्ते स्याताम् । पृष्ठ्यानन्तर्ये षष्ठ ( ला० श्रौ० ३.४.१३) इति वचनात् ।।
पूर्ववत् पृष्ठ्यः षडहः प्रयोक्तव्यः ।। १ ।।-। १३ ।।
इति श्रीवामनार्यसुतवरदराजविरचितायाम् आर्षेयकल्पसूत्र- व्याख्यायां प्रथमोऽध्यायः ।। १ ।।
 
</span>
 
 
कॢप्तो ज्योतिष्टोमोऽतिरात्रोऽषोडशिकः १-१-१
 
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०१" इत्यस्माद् प्रतिप्राप्तम्