"ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ४४" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">नारायण उवाच ।।
कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथागमम्।।
देवी मङ्गलचण्डी च तदाख्यानं निशामय ।। १ ।।
तस्याः पूजादिकं सर्वं धर्मवक्त्राच्च यच्छ्रुतम् ।।
श्रुतिसम्मतमेवेष्टं सर्वेषां विदुषामपि ।। २ ।।
चण्डायां वर्त्तते चण्डी जाग्रती शत्रुमण्डले ।।
मङ्गलेषु च या दक्षा मङ्गला सैव चण्डिका ।। ३ ।।
दुर्गायां विद्यते चण्डी मङ्गलोऽपि महीसुते ।।
मङ्गलाऽभीष्टदेवी या सा स्यान्मङ्गलचण्डिका ।। ४ ।।
मंगलो मनुवंशश्च सप्तद्वीपावनीपतिः ।।
तस्य पूज्याऽभीष्टदेवी तेन मंगलचण्डिका ।। ५ ।।
मूर्त्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी ।।
कृपारूपाऽतिप्रत्यक्षा योषितामिष्टदेवता ।।६।।
प्रथमे पूजिता सा च शङ्करेण पुरा परा ।।
त्रिपुरस्य वधे घोरं विष्णुना प्रेरितेन च ।। ७ ।।
ब्रह्मन्ब्रह्मोपदेशेन दुर्गप्रस्थे च सङ्कटे ।।
आकाशात्पतिते याने रुषा दैत्येन पातिते ।। ८ ।।
ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्करः ।।
सा च मंगलचण्डीयमभवद्रूपभेदतः ।। ९ ।।
उवाच पुरतः शम्भोर्भयं नास्तीति ते प्रभो ।।
भगवान्वृषरूपश्च सर्वेशश्च बभूव ह ।। 2.44.१० ।।
युद्धशक्तिस्वरूपाऽहं भविष्यामि तदाज्ञया ।।
मयाऽऽत्मना च हरिणा सहायेन वृषध्वज ।। ११ ।।
जहि दैत्यं च देवेश सुराणां पदघातकम् ।।
इत्युक्त्वाऽन्तर्हिता देवी शम्भोः शक्तिर्बभूव सा ।। १२ ।।
विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः ।।
मुनीन्द्र पतिते दैत्ये सर्वे देवा महर्षयः ।। १३ ।।
तुष्टुवुः शंकरं देवा भक्तिनम्रात्मकन्धराः ।।
सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव ह ।। १४ ।।
ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् ।।
ब्रह्मविष्णूपदिष्टश्च सुस्नातः शङ्करः शुचिः ।। १५ ।।
पूजयामास तां शक्तिं देवीं मङ्गलचण्डिकाम् ।।
पाद्यार्घ्याचमनीयैश्च बलिभिर्विविधैरपि ।। १६ ।।
पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने ।।
छागैर्मेषैश्च महिषैर्गण्डैर्मायाविभिर्वरैः ।। १७ ।।
वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि ।।
मधुभिश्च सुधाभिश्च पक्वैर्नानाविधैः फलैः ।। १८ ।।
सङ्गीतैर्नर्त्तनैर्वाद्यैरुत्सवैः कृष्णकीर्त्तनैः ।।
ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन विधिपूर्वकम् ।। १९ ।।
ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद ।।
ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्गलचण्डिके ।।
ऐं क्रूं फट्स्वाहेत्येवं चाप्येकविंशाक्षरो मनुः।। ।। 2.44.२० ।।
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ।।
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ।। २१ ।।
मन्त्रसिद्धिर्भवेद्यस्य स विष्णुः सर्वकामदः ।।
ध्यानं च श्रूयतां ब्रह्मन्वेदोक्तं सर्वसम्मतम् ।। २२ ।।
देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम् ।।
सर्वरूपगुणाढ्यां च कोमलांगीं मनोहराम् ।। २३ ।।
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ।।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ।। ।। २४ ।।
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम्।।
बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ।। २५ ।।
ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् ।।
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम् ।। २६ ।।
संसारसागरे घोरे पोतरूपां वरां भजे ।। २७ ।।
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ।।
प्रयतः सङ्कटग्रस्तो येन तुष्टाव शङ्करः ।। २८ ।।
शङ्कर उवाच ।।
रक्ष रक्ष जगन्मातर्देवि मंगलचण्डिके ।।
संहर्त्रि विपदां राशेर्हर्षमंगलकारिके ।। २९ ।।
हर्षमंगलदक्षे च हर्षमंगलचण्डिके ।।
शुभे मंगलदक्षे च शुभमंगल चण्डिके ।। 2.44.३० ।।
मंगले मङ्गलार्हे च सर्वमंगलमंगले ।।
सतां मंगलदे देवि सर्वेषां मंगलालये ।। ३१ ।।
पूज्या मंगलवारे च मंगलाभीष्टदैवते ।।
पूज्ये मंगलभूपस्य मनुवंशस्य सन्ततम् ।। ३२ ।।
मंगलाधिष्ठातृदेवि मंगलानां च मंगले ।।
संसारे मंगलाधारे मोक्षमंगलदायिनि ।। ३३ ।।
सारे च मंगलाधारे पारे त्वं सर्वकर्मणाम् ।।
प्रतिमंगलवारं च पूज्ये त्वं मंगलप्रदे ।। ३४ ।।
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मगलचण्डिकाम् ।।
प्रतिमंगलवारे च पूजां कृत्वा गतः शिवः ।। ३५ ।।
देव्याश्च मंगलस्तोत्रं यः शृणोति समाहितः ।।
तन्मंगलं भवेच्छश्वन्न भवेत्तदमंगलम् ।। ३६ ।।
प्रथमे पूजिता देवी शम्भुना सर्वमंगला ।।
द्वितीये पूजिता देवी मंगलेन ग्रहेण च ।। ३७ ।।
तृतीये पूजिता भद्रा मंगलेन नृपेण च ।।
चतुर्थे मंगले वारे सुन्दरीभिश्च पूजिता ।।
पञ्चमे मङ्गलाकांक्षैर्नरैर्मंगलचण्डिका।।३८।।
पूजिता प्रतिविश्वेषु विश्वेशैः पूजिता सदा ।।
ततः सर्वत्र संपूज्य सा बभूव सुरेश्वरी ।। ३९ ।।
देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने ।।
देव्याश्च मङ्गलस्तोत्रं यः शृणोति समाहितः ।। 2.44.४० ।।
तन्मंगलं भवेच्छश्वन्न भवेत्तदमंगलम् ।।
वर्द्धन्ते तत्पुत्रपौत्रा मंगलं च दिने दिने ।। ४१ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे मङ्गलोपाख्याने तत्स्तोत्रादिकथनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः।।४४।।
 
</span></poem>