"छान्दोग्योपनिषद्/अध्यायः २" इत्यस्य संस्करणे भेदः

New page created (no summary given)
(भेदः नास्ति)

१८:०१, १९ डिसेम्बर् २००८ इत्यस्य संस्करणं


॥छान्दोग्योपनिषद्॥ तृतीयोऽध्यायः, चतुर्थोऽध्यायः

॥तृतीयोऽध्यायः॥


॥प्रथमः खण्डः॥

असौ वा आदित्यो देवमधु तस्य द्यौरेव
तिरश्चीनवँशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥३.१.१॥

तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः।
ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता
आपस्ता वा एता ऋचः ॥३.१.२॥

एतमृग्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज
इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥३.१.३॥

तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य रोहितँरूपम्॥३.१.४॥

॥इति प्रथमः खण्डः॥

॥द्वितीयः खण्डः॥

अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा
मधुनाड्यो यजूँष्येव मधुकृतो यजुर्वेद एव पुष्पं
ता अमृत आपः ॥३.२.१॥

तानि वा एतानि यजूँष्येतं
यजुर्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं
वीर्यमन्नाद्यँरसोजायत ॥३.२.२॥

तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य शुक्लँ रूपम्॥३.२.३॥

॥इति द्वितीयः खण्डः॥

॥तृतीयः खण्डः॥

अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो
मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं
ता अमृता आपः॥३.३.१॥

तानि वा एतानि सामान्येतँ
सामवेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं
वीर्यमन्नाद्यँरसोऽजायत ॥३.३.२॥

तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य कृष्णँरूपम्॥३.३.३॥

॥इति तृतीयः खण्डः॥

॥चतुर्थः खण्डः॥

अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो
मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत
इतिहासपुराणं पुष्पं ता अमृता आपः॥३.४.१॥

ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपँ
स्तस्याभितप्तस्य यशस्तेज इन्द्रियां
वीर्यमन्नाद्यँरसोऽजायत ॥३.४.२॥

तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य परं कृष्णँरूपम्॥३.४.३॥

॥इति चतुर्थः खण्डः॥

॥पञ्चमः खण्डः॥

अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा
मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव
पुष्पं ता अमृता आपः ॥३.५.१॥

ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपँ
स्तस्याभितप्तस्य यशस्तेज इन्द्रियं
वीर्यमन्नाद्यँरसोऽजायत ॥३.५.२॥

तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥३.५.३॥

ते वा एते रसानाँरसा वेदा हि रसास्तेषामेते
रसास्तानि वा एतान्यमृतानाममृतानि वेदा
ह्यमृतास्तेषामेतान्यमृतानि॥३.५.४॥

॥इति पञ्चमः खण्डः॥

॥षष्ठः खण्डः॥

तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै
देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा
तृप्यन्ति॥३.६.१॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति॥३.६.२॥

स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.६.३॥

स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता
वसूनामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥३.६.४॥

॥इति षष्ठः खण्डः॥

॥सप्तमः खण्डः॥

अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति॥३.७.१॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥३.७.२॥

स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.७.३॥

स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता
द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव
तावदाधिपत्यँस्वाराज्यं पर्येता॥३.७.४॥

॥इति सप्तमः खण्डः॥

॥अष्टमः खण्डः॥

अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति ॥३.८.१॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥३.८.२॥

स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.८.३॥

स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता
द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव
तावदाधिपत्यँस्वाराज्यं पर्येता ॥३.८.४॥

॥इति अष्टमः खण्डः॥

॥नवमः खण्डः॥

अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति ॥३.९.१॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥३.९.२॥

स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.९.३॥

स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता
द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव
तावदाधिपत्य्ँस्वाराज्यं पर्येता ॥३.९.४॥

॥इति नवमः खण्डः॥

॥दशमः खण्डः॥

अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति ॥३.१०.१॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥३.१०.२॥

स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा
ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.१०.३॥

स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता
द्विस्तावदूर्ध्वं उदेतार्वागस्तमेता साध्यानामेव
तावदाधिपत्यँस्वाराज्यं पर्येता ॥३.१०.४॥

॥इति दशमः खण्डः॥

॥एकादशः खण्डः॥

अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव
मध्ये स्थाता तदेष श्लोकः ॥३.११.१॥

न वै तत्र न निम्लोच नोदियाय कदाचन।
देवास्तेनाहँसत्येन मा विराधिषि ब्रह्मणेति॥३.११.२॥

न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै
भवति य एतामेवं ब्रह्मोपनिषदं वेद॥३.११.३॥

तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे
मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय
पिता ब्रह्म प्रोवाच॥३.११.४॥

इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म
प्रब्रूयात्प्रणाय्याय वान्तेवासिने॥३.११.५॥

नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां
धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव
ततो भूय इति॥३.११.६॥

॥इति एकादशः खण्डः॥

॥द्वादशः खण्डः॥

गायत्री वा ईदँ सर्वं भूतं यदिदं किं च वाग्वै गायत्री
वाग्वा इदँ सर्वं भूतं गायति च त्रायते च॥३.१२.१॥

या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याँ हीदँ
सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते॥३.१२.२॥

या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे
शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव
नातिशीयन्ते॥३.१२.३॥

यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः
पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव
नातिशीयन्ते॥३.१२.४॥

सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम्
॥३.१२.५॥

तावानस्य महिमा ततो ज्यायाँश्च पूरुषः।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति॥३.१२.६॥

यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा
पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः॥३.१२.७॥

अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः
पुरुष आकाशः ॥३.१२.८॥

अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति
पूर्णमप्रवर्तिनीँश्रियं लभते य एवं वेद॥३.१२.९॥

॥इति द्वादशः खण्डः॥

॥त्रयोदशः खण्डः॥

तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः
स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः
स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत
तेजस्व्यन्नादो भवति य एवं वेद॥३.१३.१॥

अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रँ
स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत
श्रीमान्यशस्वी भवति य एवं वेद॥३.१३.२॥

अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः
सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत
ब्रह्मवर्चस्यन्नादो भवति य एवं वेद॥३.१३.३॥

अथ योऽस्योदङ्सुषिः स समानस्तन्मनः
स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत
कीर्तिमान्व्युष्टिमान्भवति य एवं वेद॥३.१३.४॥

अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः
स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी
महस्वान्भवति य एवं वेद॥३.१३.५॥

ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य
द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य
लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते
स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य
लोकस्य द्वारपान्वेद॥३.१३.६॥

अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु
सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव
तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः॥३.१३.७॥

तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे सँस्पर्शेनोष्णिमानं
विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव
नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च
श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद
य एवं वेद ॥३.१३.८॥

॥इति त्रयोदशः खण्डः॥

॥चतुर्दशः खण्डः॥

सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके
पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत
॥३.१४.१॥

मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प
आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः
सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥३.१४.२॥

एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा
सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष
म आत्मान्तर्हृदये ज्यायान्पृथिव्या
ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो
लोकेभ्यः ॥३.१४.३॥

सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः
सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय
एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा
न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः
॥३.१४.४॥

॥इति चतुर्दशः खण्डः॥

॥पञ्चदशः खण्डः॥

अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो
ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलँ स एष कोशो
वसुधानस्तस्मिन्विश्वमिदँ श्रितम् ॥३.१५.१॥

तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा
राज्ञी नाम प्रतीची सुभूता नामोदीची तासां
वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न
पुत्ररोदँ रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं
वेद मा पुत्ररोदँरुदम्॥३.१५.२॥

अरिष्टं कोशं प्रपद्येऽमुनामुनामुना
प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना
भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना
॥३.१५.३॥

स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदँ सर्वं
भूतं यदिदं किंच तमेव तत्प्रापत्सि ॥३.१५.४॥

अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं
प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम्॥३.१५.५॥

अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं
प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम्॥३.१५.६॥

अथ यदवोचँस्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये
सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम्॥३.१५.७॥

॥इति पञ्चदशः खण्डः॥

॥षोडशः खण्डः॥

पुरुषो वाव यज्ञस्तस्य यानि चतुर्विँशति वर्षाणि
तत्प्रातःसवनं चतुर्विँशत्यक्षरा गायत्री गायत्रं
प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव
एते हीदँसर्वं वासयन्ति ॥३.१६.१॥

तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा
वसव इदं मे प्रातःसवनं माध्यंदिनँसवनमनुसंतनुतेति
माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
तत एत्यगदो ह भवति ॥३.१६.२॥

अथ यानि चतुश्चत्वारिँशद्वर्षाणि तन्माध्यंदिनँ
सवनं चतुश्चत्वारिँशदक्षरा त्रिष्टुप्त्रैष्टुभं
माध्यंदिनँसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा
वाव रुद्रा एते हीदँसर्वँरोदयन्ति ॥३.१६.३॥

तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा
इदं मे माध्यंदिनँसवनं तृतीयसवनमनुसंतनुतेति
माहं प्राणानाँरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
तत एत्यगदो ह भवति ॥३.१६.४॥

अथ यान्यष्टाचत्वारिँशद्वर्षाणि
तत्तृतीयसवनमष्टाचत्वारिँशदक्षरा
जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः
प्राणा वावादित्या एते हीदँसर्वमाददते ॥३.१६.५॥

तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा
अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं
प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
तत एत्यगदो हैव भवति ॥३.१६.६॥

एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः
स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति
स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं
वर्षशतं जीवति य एवं वेद ॥३.१६.७॥

॥इति षोडशः खण्डः॥

॥सप्तदशः खण्डः॥

स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य
दीक्षाः ॥३.१७.१॥

अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥३.१७.२॥

अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव
तदेति ॥३.१७.३॥

अथ यत्तपो दानमार्जवमहिँसा सत्यवचनमिति
ता अस्य दक्षिणाः ॥३.१७.४॥

तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य
तन्मरणमेवावभृथः ॥३.१७.५॥

तद्धैतद्घोर् आङ्गिरसः कृष्णाय
देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव
सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि
प्राणसँशितमसीति तत्रैते द्वे ऋचौ भवतः ॥३.१७.६॥

आदित्प्रत्नस्य रेतसः।
उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरँस्वः
पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म
ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥३.१७.७॥

॥इति सप्तदशः खण्डः॥

॥अष्टादशः खण्डः॥

मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो
ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च
॥३.१८.१॥

तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः
पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः
पादो वायुः पादा अदित्यः पादो दिशः पाद
इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च
॥३.१८.२॥

वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा
भाति च तपति च भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद ॥३.१८.३॥

प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा
भाति च तपति च् भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद ॥३.१८.४॥

चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा
भाति च तपति च भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद ॥३.१८.५॥

श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा
भाति च तपति च भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥३.१८.६॥

॥इति अष्टादशः खण्डः॥

॥एकोनविंशः खण्डः॥

आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र
आसीत्। तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत
तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले
रजतं च सुवर्णं चाभवताम्॥३.१९.१॥

तद्यद्रजतँ सेयं पृथिवी यत्सुवर्णँ सा द्यौर्यज्जरायु
ते पर्वता यदुल्बँ समेघो नीहारो या धमनयस्ता
नद्यो यद्वास्तेयमुदकँ स समुद्रः ॥३.१९.२॥

अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा
उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च
कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा
उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः
॥३.१९.३॥

स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह
यदेनँ साधवो घोषा आ च गच्छेयुरुप च
निम्रेडेरन्निम्रेडेरन्॥३.१९.४॥

॥इति एकोनविंशः खण्डः॥

॥इति तृतीयोऽध्यायः॥

॥चतुर्थोऽध्यायः॥


॥प्रथमः खण्डः॥

जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस
स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव
मेऽन्नमत्स्यन्तीति॥४.१.१॥

अथ हँसा निशायामतिपेतुस्तद्धैवँ हँ सोहँ समभ्युवाद
हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य
समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा
मा प्रधाक्षीरिति॥४.१.२॥

तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तँ सयुग्वानमिव
रैक्वमात्थेति यो नु कथँ सयुग्वा रैक्व इति॥४.१.३॥

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँ सर्वं
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद
यत्स वेद स मयैतदुक्त इति॥४.१.४॥

तदु ह जानश्रुतिः पौत्रायण उपशुश्राव
स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव
रैक्वमात्थेति यो नु कथँ सयुग्वा रैक्व इति॥४.१.५॥

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँ सर्वं
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद
यत्स वेद स मयैतदुक्त इति॥४.१.६॥

स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तँ होवाच
यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति॥४.१.७॥

सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश
तँ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व
इत्यहँ ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति
प्रत्येयाय॥४.१.८॥

॥इति प्रथमः खण्डः॥

॥द्वितीयः खण्डः॥

तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां
निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तँ हाभ्युवाद
॥४.२.१॥

रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु
म एतां भगवो देवताँ शाधि यां देवतामुपास्स इति
॥४.२.२॥

तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह
गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः
सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय
प्रतिचक्रमे॥४.२.३॥

तँ हाभ्युवाद रैक्वेदँ सहस्रं गवामयं
निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो
यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति॥४.२.४॥

तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव
मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम
महावृषेषु यत्रास्मा उवास स तस्मै होवाच॥४.२.५॥

॥इति द्वितीयः खण्डः॥

॥तृतीयः खण्डः॥

वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति
यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति
वायुमेवाप्येति॥४.३.१॥

यदाप उच्छुष्यन्ति वायुमेवापियन्ति
वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम्॥४.३.२॥

अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव
वागप्येति प्राणं चक्षुः प्राणँ श्रोत्रं प्राणं मनः प्राणो
ह्येवैतान्सर्वान्संवृङ्क्त इति॥४.३.३॥

तौ वा एतौ द्वौ सम्वर्गौ वायुरेव देवेषु प्राणः प्राणेषु
॥४.३.४॥

अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं
परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः
॥४.३.५॥

स होवाच महात्मनश्चतुरो देव एकः कः स जगार
भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या
अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा
एतन्न दत्तमिति॥४.३.६॥

तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां
जनिता प्रजानाँ हिरण्यदँष्ट्रो बभसोऽनसूरिर्महान्तमस्य
महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं
ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति॥४.३.७॥

तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश
सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतँ सैषा
विराडन्नादी तयेदँ सर्वं दृष्टँ सर्वमस्येदं दृष्टं
भवत्यन्नादो भवति य एवं वेद य एवं वेद॥४.३.८॥

॥इति तृतीयः खण्डः॥

॥चतुर्थः खण्डः॥

सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे
ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति
॥४.४.१॥

सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि
बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे
साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि
सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो
ब्रवीथा इति॥४.४.२॥

स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति
वत्स्याम्युपेयां भगवन्तमिति॥४.४.३॥

तँ होवाच किंगोत्रो नु सोम्यासीति स होवाच
नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरँ
सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने
त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु
नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहँ
सत्यकामो जाबालोऽस्मि भो इति॥४.४.४॥

तँ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधँ
सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय
कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः
सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच
नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा
सहस्रँ संपेदुः॥४.४.५॥

॥इति चतुर्थः खण्डः॥

॥पञ्चमः खण्डः॥

अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति
भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रँ स्मः
प्रापय न आचार्यकुलम्॥४.५.१॥

ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला
दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः
पादो ब्रह्मणः प्रकाशवान्नाम॥४.५.२॥

स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणः
प्रकाशवानित्युपास्ते प्रकाशवानस्मिँल्लोके भवति
प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं
पादं ब्रह्मणः प्रकाशवानित्युपास्ते॥४.५.३॥

॥इति पञ्चमः खण्डः॥

॥षष्ठः खण्डः॥

अग्निष्टे पादं वक्तेति स ह श्वोभूते ग
आभिप्रस्थापयांचकार ता यत्राभि सायं
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय
पश्चादग्नेः प्राङुपोपविवेश ॥४.६.१॥

तमग्निरभ्युवाद सत्यकाम३ इति भगव इति
ह प्रतिशुश्राव ॥४.६.२॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला
समुद्रः कलैष वै सोम्य चतुष्कलः पादो
ब्रह्मणोऽनन्तवान्नाम ॥४.६.३॥

स य एतमेवं विद्वाँश्चतुष्कलं पादं
ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिँल्लोके
भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं
पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥४.६.४॥

॥इति षष्ठः खण्डः॥

॥सप्तमः खण्डः॥

हँसस्ते पादं वक्तेति स ह श्वोभूते गा
अभिप्रस्थापयांचकार ता यत्राभि सायं
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय
पश्चादग्नेः प्राङुपोपविवेश॥४.७.१॥

तँहँस उपनिपत्याभ्युवाद सत्यकाम३ इति भगव
इति ह प्रतिशुश्राव॥४.७.२॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला
विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो
ज्योतिष्मान्नाम॥४.७.३॥

स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणो
ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिँल्लोके भवति
ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं
पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते॥४.७.४॥

॥इति सप्तमः खण्डः॥

॥अष्टमः खण्डः॥

मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार
ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा
उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश॥४.८.१॥

तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति
ह प्रतिशुश्राव॥४.८.२॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः
कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम
॥४.८.३॥

स यै एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मण
आयतनवानित्युपास्त आयतनवानस्मिँल्लोके
भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं
विद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते
॥४.८.४॥

॥इति अष्टमः खण्डः॥

॥नवमः खण्डः॥

प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति
भगव इति ह प्रतिशुश्राव॥४.९.१॥

ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये
मनुष्येभ्य इति ह प्रतिजज्ञे भगवाँस्त्वेव मे कामे ब्रूयात्
॥४.९.२॥

श्रुतँह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता
साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन
वीयायेति वीयायेति॥४.९.३॥

॥इति नवमः खण्डः॥

॥दशमः खण्डः॥

उपकोसलो ह वै कामलायनः सत्यकामे जाबाले
ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार
स ह स्मान्यानन्तेवासिनः समावर्तयँस्तं ह स्मैव न
समावर्तयति॥४.१०.१॥

तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा
त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव
प्रवासांचक्रे॥४.१०.२॥

स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच
ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच
बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधीभिः
प्रतिपूर्णोऽस्मि नाशिष्यामीति॥४.१०.३॥

अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः
पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म
कं ब्रह्म खं ब्रह्मेति॥४.१०.४॥

स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न
विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव
कमिति प्राणं च हास्मै तदाकाशं चोचुः॥४.१०.५॥

॥इति दशमः खण्डः॥

॥एकादशः खण्डः॥

अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य
इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स
एवाहमस्मीति॥४.११.१॥

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं
विद्वानुपास्ते॥४.११.२॥

॥इति एकादशः खण्डः॥

॥द्वादशः खण्डः॥

अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि
चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि
स एवाहमस्मीति॥४.१२.१॥

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं
विद्वानुपास्ते॥४.१२.२॥

॥इति द्वादशः खण्डः॥

॥त्रयोदशः खण्डः॥

अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति
य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स
एवाहमस्मीति॥४.१३.१॥

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
सर्वमयुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं
विद्वानुपास्ते॥४.१३.२॥

॥इति त्रयोदशः खण्डः॥

॥चतुर्दशः खण्डः॥

ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या
चाचार्यस्तु ते गतिं वक्तेत्याजगाम
हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति
॥४.१४.१॥

भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति
को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव
निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे
किं नु सोम्य किल तेऽवोचन्निति॥४.१४.२॥

इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं
तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त
एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे
भगवानिति तस्मै होवाच॥४.१४.३॥

॥इति चतुर्दशः खण्डः॥

॥पञ्जदशः खण्डः॥

य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति
होवाचैतदमृतमभयमेतद्ब्रह्मेति
तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव
गच्छति॥४.१५.१॥

एतँ संयद्वाम इत्याचक्षत एतँ हि सर्वाणि
वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति
य एवं वेद॥४.१५.२॥

एष उ एव वामनीरेष हि सर्वाणि वामानि नयति
सर्वाणि वामानि नयति य एवं वेद॥४.१५.३॥

एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति
सर्वेषु लोकेषु भाति य एवं वेद॥४.१५.४॥

अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च
नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न
आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति
मासाँस्तान्मासेभ्यः संवत्सरँ
संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं
तत् पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो
ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते
नावर्तन्ते॥४.१५.५॥

॥इति पञ्चदशः खण्डः॥

॥षोडशः खण्डः॥

एष ह वै यज्ञो योऽयं पवते एष ह यन्निदँ सर्वं पुनाति
यदेष यन्निदँ सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य
मनश्च वाक्च वर्तनी॥४.१६.१॥

तयोरन्यतरां मनसा सँस्करोति ब्रह्मा वाचा
होताध्वर्युरुद्गातान्यतराँस यत्रौपाकृते प्रातरनुवाके
पुरा परिधानीयाया ब्रह्मा व्यवदति॥४.१६.२॥

अन्यतरामेव वर्तनीँ सँस्करोति हीयतेऽन्यतरा
स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो
रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञँ रिष्यन्तं
यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति॥४.१६.३॥

अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा
व्यवदत्युभे एव वर्तनी सँस्कुर्वन्ति न हीयतेऽन्यतरा
॥४.१६.४॥

स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः
प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं
यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति॥४.१६.५॥

॥इति षोडशः खण्डः॥

॥सप्तदशः खण्डः॥

प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाँ
रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः
॥४.१७.१॥

स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाँ
रसान्प्रावृहदग्नेरृचो वायोर्यजूँषि सामान्यादित्यात्
॥४.१७.२॥

स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया
रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति
सामभ्यः॥४.१७.३॥

तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव
तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टँ संदधाति
॥४.१७.४॥

स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ
जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य
विरिष्टँ संदधाति॥४.१७.५॥

अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये
जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य
विरिष्टं संदधाति॥४.१७.६॥

तद्यथा लवणेन सुवर्णँ संदध्यात्सुवर्णेन रजतँ
रजतेन त्रपु त्रपुणा सीसँ सीसेन लोहं लोहेन दारु
दारु चर्मणा॥४.१७.७॥

एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया
वीर्येण यज्ञस्य विरिष्टँ संदधाति भेषजकृतो ह वा
एष यज्ञो यत्रैवंविद्ब्रह्मा भवति॥४.१७.८॥

एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदँ
ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते
तत्तद्गच्छति॥४.१७.९॥

मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध
वै ब्रह्मा यज्ञं यजमानँ सर्वाँश्चर्त्विजोऽभिरक्षति
तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम्
॥४.१७.१०॥

॥इति चतुर्थोऽध्यायः॥

संबंधित कड़ियाँ

  1. उपनिषद्
    1. छान्दोग्य उपनिषद्
      1. छान्दोग्य उपनिषद् 1 प्रथमोऽध्यायः, द्वितीयोऽध्यायः
      2. छान्दोग्य उपनिषद् 2 तृतीयोऽध्यायः, चतुर्थोऽध्यायः
      3. छान्दोग्य उपनिषद् 3 पञ्चमोऽध्यायः, षष्ठोऽध्यायः
      4. छान्दोग्य उपनिषद् 4 सप्तमोऽध्यायः, अष्टमोऽध्यायः

बाहरी कडियाँ