"कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः ०७" इत्यस्य संस्करणे भेदः

{{header | title = कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौत... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८:
| notes = अग्निष्टोमः
}}
<span style="font-size: 14pt; line-height: 200%">दर्शपूर्णमासाभ्यामिष्ट्वाऽन्येन यजेतेति श्रुतेः १ सोमेन वोपकॢप्तसोमः २ आधानस्य सोमप्राधान्यात् ३ नाऽविशेषात् ४ वसन्तेऽग्निष्टोमः ५ ऐन्द्रा ग्नंऐन्द्राग्नं पुनरुत्सृष्टमालभ्य द्विपुरुषाऽसोमपीथिनः ६ षोडशर्त्विजो ब्रह्मोद्गातृहोत्र-ध्वर्युब्राह्मणाच्छंसिप्रस्तोतृमैत्रावरुणप्रतिप्रस्थातृपोतृप्रतिहर्त्रच्छावकनेष्ट्रग्नीत्सुब्रह्मण्यग्रावस्तुदुन्नेतॄन्ब्रह्मोद्गातृहोत्रध्वर्यु ब्राह्मणाच्छंसि प्रस्तोतृ मैत्रावरुणप्रतिप्रस्थातृ पोतृप्रतिहर्त्रच्छावाक नेष्ट्रग्नीत्सुब्रह्मण्य ग्रावस्तुदुन्नेतॄन् वृणीते ७ चतुरो वाऽऽद्याँ स्तत्पुरुषावाऽऽद्याँस्तत्पुरुषा इतरे यथावेदम् ८ ब्राह्मणाच्छंस्यग्नीत्पोतारो ब्रह्मणः ९ देवयजनं जोषयन्ते १० उच्चतमं सममविभ्रंशि ११ अभितो देवयजनमात्रदेशं पुरस्ताद्वर्जम् १२ प्राक्प्रवण-मुदग्वा यत्किंञ्चाऽनूचानर्त्विजः १३ उद्धतौषधिमूलेऽपरेऽन्ते विमितं कु-र्वन्ति १४ प्राग्वंशम् १५ पुरस्तादुच्चम् १६ प्रतिदिग्द्वारम् १७ उदग्वर्जं वा १८ शालां वा १९ परिवृते चोत्तरापरे २० दीक्षाप्रभृति शुक्लपक्षे पञ्चमीं सप्तमीं वा प्रसुतः २१ कालातिक्रमे नियतक्रिया प्राप्तकालत्वात् २२ न समत्वात् २३ द्वादशदीक्षा अपरिमिता वा २४ पुण्याहे दीक्षा क्रयः प्रसव उत्थानम् २५ प्रक्रमोत्थाने विरोधे २६ न वाऽचोदित्वात् २७ दीक्षासु यूपच्छेदनं यूपाहुतिं प्राग्घुत्वा यूपान्ते वाऽग्निं मथित्वा दीक्षितरयाऽग्निहोमप्रतिषेधश्रुतेः २८ उच्छ्रयणकाले वोभयं होमच्छेदने सन्निधेः २९ समारोह्याऽग्नी शालास्तम्भं पूर्वार्धं गृहीत्वाऽरणिपाणि-राहेदमगन्मेति ३० १ 7.1
 
शालायां राजानं निदधात्याहृतश्चेत् १ प्राक् क्रयादन्नमुपहरन्त्यस्मै हविष्यममांसम् २ अग्निं विहृत्य सप्तसु प्रक्रमेष्वर्द्धव्यामे च साऽग्निचित्ये ३ अपराह्णेऽश्नातीष्टमुपपन्नं वा न वा ४ क्रत्वर्थमपदिश्याऽन्यस्मा उत्तरे परिवृत उदकुम्भवत्यप्सुदीक्षा ५ नापित उत्तरत उपतिष्ठत नखानि निकृन्तत्यङ्गुष्ठप्रभृतीनि दक्षिणहस्तस्य प्रथमम् ६ दक्षिणं गोदानं वितार्योनत्तीमा आप इति ७ यूपवत्कुशतरुणम् ८ क्षुरेण चाऽभिनिधाय ९ छित्वोदपात्रे प्रास्यति १० एवमुत्तरं तूष्णीम् ११ नापिताय क्षुरं प्रयच्छति १२ तेन केशश्मश्रु वपति १३ आपो अस्मानिति स्नात्वोदिदाभ्य इत्युत्क्रामत्युत्तरपूर्वार्धम् १४ क्षौमं वस्ते निष्पेष्टवै ब्रूयादहतं चेदद्भिरभ्युक्ष्य १५ स्नातवस्यं वाऽमौत्रधौतं विचितकेशं प्रसारितदशं दीक्षातपसोरिति १६ न नीविं कुरुते १७ एवं प्रतिप्रस्थाताऽपरस्मिन्परिवृते पत्नीं तूष्णीम् १८ वपनं वा १९ धेन्वनडुहयोर्नाऽश्नीयात् २० पुरुषधर्मो वाऽसम्भवात् २१ अंसलभोजनं वा २२ प्रपाद्याऽऽग्नावैष्णव एकादशकपालः २३ आदि-त्येभ्यो वा चरुः २४ प्राक् समिष्टयजुषः करोति २५ समिष्टयजुर्वर्जं वा २६ उपांशु चरन्ति प्रागग्नीषोमीयात् २७ वागन्तेन वा दीक्षणीयां नीचैस्तरां नीचैस्तरामितरे २८ उपांशूपसदः २९ शालां पूर्वेण तिष्ठन्नभ्यङ्क्ते कुशेषु नवनीतेन शीर्ष्णोऽध्यनुलोमं सपादको महीनां पयोऽसीति ३० वृत्रस्येत्यक्ष्यावनक्ति त्रैककुदाञ्जनेन ३१ अभावेऽन्यत् ३२ द्विर्दक्षिणं त्रिरूत्तरं पराक् ३३ सकृत्सकृन्मन्त्रः ३४ शरेषीकया साऽग्रया ३५ २ 7.2