"रामायणम्/अरण्यकाण्डम्/सर्गः २८" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
{{Ramayana|अरण्यकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टाविंशः सर्गः ॥३-२८॥'''
<div class="verse">
<pre>
निहतम् दूषणम् दृष्ट्वा रणे त्रिशिरसा सह ।
खरस्य अपि अभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥३-२८-१॥
स दृष्ट्वा राक्षसम् सैन्यम् अविषह्यम् महाबलम् ।
हतम् एकेन रामेण दूषणः त्रिशिरा अपि ॥३-२८-२॥
तद् बलम् हत भूयिष्ठम् विमनाः प्रेक्ष्य राक्षसः ।
आससाद खरो रामम् नमुचिर् वासवम् यथा ॥३-२८-३॥
विकृष्य बलवत् चापम् नाराचान् रक्त भोजनान् ।
खरः चिक्षेप रामाय क्रुद्धान् आशी विषान् इव ॥३-२८-४॥
ज्याम् विधुन्वन् सुबहुशः शिक्षया अस्त्राणि दर्शयन् ।
चचार समरे मार्गान् शरै रथ गतः खरः ॥३-२८-५॥
स सर्वाः च दिशो बाणैः प्रदिशः च महारथः ।
पूरयामास तम् दृष्ट्वा रामो अपि सुमहत् धनुः ॥३-२८-६॥
स सायकैः दुर्विषहैः स स्फुलिन्गैः इव अग्निभिः ।
नभः चकार अविवरम् पर्जन्य इव वृष्टिभिः ॥३-२८-७॥
तद् बभूव शितैः बाणैः खर राम विसर्जितैः ।
परि आकाशम् अनाकाशम् सर्वतः शर संकुलम् ॥३-२८-८॥
शर जाल आवृतः सूर्यो न तदा स्म प्रकाशते ।
अन्योन्य वध संरम्भात् उभयोः संप्रयुध्यतोः ॥३-२८-९॥
ततो नालीक नाराचैः तीक्ष्ण अग्रैः च विकर्णिभिः ।
आजघान रणे रामम् तोत्रैर् इव महा द्विपम् ॥३-२८-१०॥
ददृशुः सर्व भूतानि पाश हस्तम् इव अंतकम् ॥३-२८-११॥
हन्तारम् सर्व सैन्यस्य पौरुषे पर्यवस्थितम् ।
परिश्रन्तम् महासत्त्वम् मेने रामम् खरः तदा ॥३-२८-१२॥
तम् सिंहम् इव विक्रान्तम् सिंह विक्रान्त गामिनम् ।
दृष्ट्वा न उद्विजते रामः सिंहः क्षुद्र मृगम् यथा ॥३-२८-१३॥
ततः सूर्य निकाशेन रथेन महता खरः ।
आससाद अथ तम् रामम् पतंग इव पावकम् ॥३-२८-१४॥
ततो अस्य सशरम् चापम् मुष्टि देशे महात्मनः ।
खरः चिच्छेद रामस्य दर्शयन् हस्त लाघवम् ॥३-२८-१५॥
स पुनः तु अपरान् सप्त शरान् आदाय वर्मणि ।
निजघान रणे क्रुद्धः शक्र अशनि सम प्रभान् ॥३-२८-१६॥
ततः शर सहस्रेण रामम् अप्रतिम ओजसम् ।
अर्दयित्वा महानादम् ननाद समेरे खरः ॥३-२८-१७॥
ततः तत् प्रहतम् बाणैः खर मुक्तैः सुपर्वभिः ।
पपात कवचम् भूमौ रामस्य आदित्य वर्चसः ॥३-२८-१८॥
स शरैः अर्पितः क्रुद्धः सर्व गात्रेषु राघवः ।
रराज समरे रामो विधूमो अग्निर् इव ज्वलन् ॥३-२८-१९॥
ततो गंभीर निर्ह्रादम् रामः शत्रु निबर्हणः ।
चकार अंताय स रिपोः सज्यम् अन्यन् महत् धनुः ॥३-२८-२०॥
सुमहत् वैष्णवम् यत् तत् अतिसृष्टम् महर्षिणा ।
वरम् तत् धनुः उद्यम्य खरम् समभिधावत ॥३-२८-२१॥
ततः कनक पुंखैः तु शरैः संनत पर्वभिः ।
चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥३-२८-२२॥
स दर्शनीयो बहुधा विच्छिन्नः कांचनो ध्वजः ।
जगाम धरणीम् सूर्यो देवतानाम् इव आज्ञया ॥३-२८-२३॥
तम् चतुर्भिः खरः क्रुद्धो रामम् गात्रेषु मार्गणैः ।
विव्याध हृदि मर्मज्ञो मातंगम् इव तोमरैः ॥३-२८-२४॥
स रामो बहुभिः बाणैः खर कार्मुक निःसृतैः ।
विद्धो रुधिर सिक्तांगो बभूव रुषितो भृशम् ॥३-२८-२५॥
स धनुर् धन्विनाम् श्रेष्ठः प्रगृह्य परम आहवे ।
मुमोच परम इष्वासः षट् शरान् अभिलक्षितान् ॥३-२८-२६॥
शिरसि एकेन बाणेन द्वाभ्याम् बाह्वोर् अथ आर्पयत् ।
त्रिभिः चन्द्र अर्ध वक्त्रैः च वक्षसि अभिजघान ह ॥३-२८-२७॥
ततः पश्चात् महातेजा नाराचान् भास्कर उपमान् ।
जघान राक्षसम् क्रुद्धः त्रयोदश शिला अशितान् ॥३-२८-२८॥
रथस्य युगम् एकेन चतुर्भिः शबलान् हयान् ।
षष्ठेन च शिरः संख्ये चिच्छेद खर सारथेः ॥३-२८-२९॥
त्रिभिः त्रिवेणून् बलवान् द्वाभ्याम् अक्षम् महाबलः ।
द्वादशेन तु बाणेन खरस्य स शरम् धनुः ॥३-२८-३०॥
छित्त्वा वज्र निकाशेन राघवः प्रहसन् इव ।
त्रयोदशेन इन्द्र समो बिभेद समरे खरम् ॥३-२८-३१॥
प्रभग्न धन्वा विरथो हत अश्वो हत सारथिः ।
गदा पाणिः अवप्लुत्य तस्थौ भूमौ खरः तदा ॥३-२८-३२॥
तत् कर्म रामस्य महारथस्यसमेत्य देवाः च महर्षयः च ।
अपूजयन् प्रांजलयः प्रहृष्टाःतदा विमान अग्र गताः समेताः ॥३-२८-३३॥
</pre>
</div>
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टाविंशः सर्गः ॥३-२८॥'''
|