"ऋग्वेदः सूक्तं १.९६" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(लघु) (Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १.९६ पृष्ठं ऋग्वेदः सूक्तं १.९६ प्रति स्थानान...)
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १|मण्डल १]]
| author = कुत्स आङ्गिरसः
| translator =
| section = सूक्तं १.९६
| previous = [[ऋग्वेद: सूक्तं १.९५|सूक्तं १.९५]]
| next = [[ऋग्वेद: सूक्तं १.९७|सूक्तं १.९७]]
| notes = दे. अग्निः, द्रविणोदा अग्निर्वा । त्रिष्टुप्
}}
{{ऋग्वेदः मण्डल १}}
<poem>
<div class="verse">
<pre>
स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळधत्त विश्वा ।
आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम् ॥१॥
 
स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम् ।
विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम् ॥२॥
 
तमीळत प्रथमं यज्ञसाधं विश आरीराहुतमृञ्जसानम् ।
ऊर्जः पुत्रं भरतं सृप्रदानुं देवा अग्निं धारयन्द्रविणोदाम् ॥३॥
 
स मातरिश्वा पुरुवारपुष्टिर्विदद्गातुं तनयाय स्वर्वित् ।
विशां गोपा जनिता रोदस्योर्देवा अग्निं धारयन्द्रविणोदाम् ॥४॥
 
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची ।
द्यावाक्षामा रुक्मो अन्तर्वि भाति देवा अग्निं धारयन्द्रविणोदाम् ॥५॥
 
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः ।
अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन्द्रविणोदाम् ॥६॥
 
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् ।
सतश्च गोपां भवतश्च भूरेर्देवा अग्निं धारयन्द्रविणोदाम् ॥७॥
 
द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत् ।
द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायुः ॥८॥
 
एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥९॥
 
 
</prepoem>
</div>
३८,५३२

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/122712" इत्यस्माद् प्रतिप्राप्तम्