"ऐतरेय ब्राह्मणम्/पञ्चिका ७ (सप्तम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९३:
 
1360
त्रयाणाम्भक्षाणामेकमाहरिष्यन्ति सोमं वा दधि वापो वा स यदि सोम-म्ब्राह्मणानांसोमम्ब्राह्मणानां स भक्षो ब्राह्मणांस्तेन भक्षेण जिन्विष्यसि ब्राह्मणकल्पस्ते प्रजायामाजनिष्यत आदाय्यापाय्यावसायी यथाकामप्रयाप्यो यदा वै क्षत्रियाय पापम्भवति ब्राह्मणकल्पोऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा ब्राह्मणतामभ्युपैतोः स ब्रह्मबन्धवेन जिज्यूषितोऽथ यदि दधि वैश्यानां स भक्षो वैश्यांस्तेन भक्षेण जिन्विष्यसि वैश्यकल्पस्ते प्रजायामा-जनिष्यतेऽन्यस्य बलिकृदन्यस्याद्यो यथाकामज्येयो यदा वै क्षत्रियाय पाप-म्भवति वैश्यकल्पोऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा वैश्यतामभ्युपैतोः स वैश्यतया जिज्यूषितोऽथ यद्यपः शूद्र ?ाणांशूद्राणां स भक्षः शूद्र ?ांस्तेनशूद्रांस्तेन भक्षेण जिन्विष्यसि शूद्र कल्पस्ते प्रजायामाजनिष्यतेऽन्यस्य प्रेष्यः कामोत्थाप्यो यथाकामवध्यो यदा वै क्षत्रियाय पापम्भवति शूद्र कल्पोऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा शूद्रतामभ्युपैतोः स शूद्रतया जिज्यूषितः॥7.29॥ (35.3) (152)
 
एते वै ते त्रयो भक्षा राजन्निति होवाच येषमाशां नेयात्क्षत्त्रियो यजमानः। अथास्यैष स्वो भक्षो न्यग्रोधस्यावरोधाश्च फलानि चौदुम्बराण्याश्वत्थानि प्लाक्षाण्यभिषुणुयात्तानि भक्षयेत्सोऽस्य स्वो भक्षः। यतो वा अधि देवा यज्ञेनेष्ट्वा स्वर्गं लोकमायंस्तत्रैतांश्चमसान्न्युब्जंस्ते न्यग्रोधा अभवन्न्युब्जा इति हाप्येनानेतर्ह्याचक्षते कुरुक्षेत्रे ते ह प्रथमजा न्यग्रोधानां तेभ्यो हान्येऽधिजाताः। ते यन्न्यञ्चोऽरोहंस्तस्मान्यङ् रोहति न्यग्रोहो न्यग्रोहो वै नाम तन्न्यग्रोहं सन्तं न्यग्रोध इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः॥7.30॥ (35.4) (153)