"तैत्तिरीयोपनिषद्" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
|||
पङ्क्तिः १:
{{Upanishad}}
॥ तैत्तिरीयोपनिषत् ॥
<div class="verse">
<pre>
ॐ श्री गुरुभ्यो नमः । हरिः ॐ ।
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि ।
सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु ।
अवतु माम् । अवतु वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥ इति प्रथमोऽनुवाकः ॥
ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् ।
साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ १ ॥
इति द्वितीयोऽनुवाकः ॥
सह नौ यशः । सह नौ ब्रह्मवर्चसम् ।
अथातः संहिताया उपनिषदम् व्याख्यास्यामः ।
पञ्चस्वधिकरणेषु ।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् ।
ता महासँ हिता इत्याचक्षते । अथाधिलोकम् ।
पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् ।
आकाशः सन्धिः ॥ १ ॥
वायुः सन्धानम् । इत्यधिलोकम् । अथाधिजौतिषम् ।
अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः ।
वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् ।
आचार्यः पूर्वरूपम् ॥ २ ॥
अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनँ सन्धानम् ।
इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् ।
पितोत्तररूपम् । प्रजा सन्धिः । प्रजननँ सन्धानम् ।
इत्यधिप्रजम् ॥ ३ ॥
अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् ।
उत्तरा हनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् ।
इत्यध्यात्मम् । इतीमा महासँ हिताः ।
य एवमेता महासँ हिता व्याख्याता वेद ।
सन्धीयते प्रजया पशुभिः ।
ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ॥ ४ ॥
इति तृतीयोऽनुवाकः ॥
यश्छन्दसामृषभो विश्वरूपः ।
छन्दोभ्योऽध्यमृतात्संबभूव ।
स मेन्द्रो मेधया स्पृणोतु ।
अमृतस्य देव धारणो भूयासम् ।
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा ।
कर्णाभ्यां भूरि विश्रुवम् ।
ब्रह्मणः कोशोऽसि मेधया पिहितः ।
श्रुतं मे गोपाय । आवहन्ती वितन्वाना ॥ १ ॥
कुर्वाणाऽचीरमात्मनः । वासाँ सि मम गावश्च ।
अन्नपाने च सर्वदा । ततो मे श्रियमावह ।
प्र माऽऽयन्तु ब्रह्मचारिणः स्वाहा ।
दमायन्तु ब्रह्मचारिणः स्वाहा ।
शमायन्तु ब्रह्मचारिणः स्वाहा ॥ २ ॥
यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा ।
तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा ।
तस्मिन् त्सहस्रशाखे निभगाहं त्वयि मृजे स्वाहा ।
यथाऽऽपः प्रवताऽऽयन्ति यथा मासा अहर्जरम् ।
एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा ।
प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥ ३ ॥
इति चतुर्थोऽनुवाकः ॥
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः ।
तासामु ह स्मैतां चतुर्थीम् । माहाचमस्यः प्रवेदयते ।
मह इति । तत् ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः ।
भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् ।
सुवरित्यसौ लोकः ॥ १ ॥
मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते ।
भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः ।
मह इति चन्द्रमाः । चन्द्रमसा वाव
सर्वाणि ज्योतीँ षि महीयन्ते । भूरिति वा ऋचः ।
भुव इति सामानि ।
सुवरिति यजूँ षि ॥ २ ॥
मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते ।
भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः ।
मह इत्यन्नम् । अन्नेन वाव सर्वे प्राण महीयन्ते ।
ता वा एताश्चतस्रश्चतुर्ध । चतस्रश्चतस्रो व्याहृतयः ।
ता यो वेद ।
स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥ ३ ॥
इति पञ्चमोऽनुवाकः ॥
स य एषोऽन्तरहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः ।
अमृतो हिरण्मयः । अन्तरेण तालुके । य एष स्तन इवावलंबते ।
सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले ।
भूरित्यग्नौ प्रतितिष्ठति ।
भुव इति वायौ ॥ १ ॥
सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् ।
आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः ।
श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म ।
सत्यात्म प्राणारामं मन आनन्दम् ।
शान्तिसमृद्धममृतम् ।
इति प्राचीनयोग्योपास्स्व ॥ २ ॥ इति षष्ठोऽनुवाकः ॥
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः ।
अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि ।
आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् ।
अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः ।
चक्षुः श्रोत्रं मनो वाक् त्वक् ।
चर्म माँसँ स्नावास्थि मज्जा ।
एतदधिविधाय ऋषिरवोचत् । पाङ्क्तं वा इदँ सर्वम् ।
पाङ्क्तेनैव पाङ्क्तँ स्पृणोतीति ॥ १ ॥ इति सप्तमोऽनुवाकः ॥
ओमिति ब्रह्म । ओमितीदँ सर्वम् ।
ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति ।
ओमिति सामानि गायन्ति । ओँ शोमिति शस्त्राणि शँ सन्ति ।
ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति ।
ओमित्यग्निहोत्रमनुजानाति ।
ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति ।
ब्रह्मैवोपाप्नोति ॥ १ ॥ इत्यष्टमोऽनुवाकः ॥
ऋतं च स्वाध्यायप्रवचने च ।
सत्यं च स्वाध्यायप्रवचने च ।
तपश्च स्वाध्यायप्रवचने च ।
दमश्च स्वाध्यायप्रवचने च ।
शमश्च स्वाध्यायप्रवचने च ।
अग्नयश्च स्वाध्यायप्रवचने च ।
अग्निहोत्रं च स्वाध्यायप्रवचने च ।
अतिथयश्च स्वाध्यायप्रवचने च ।
मानुषं च स्वाध्यायप्रवचने च ।
प्रजा च स्वाध्यायप्रवचने च ।
प्रजनश्च स्वाध्यायप्रवचने च ।
प्रजातिश्च स्वाध्यायप्रवचने च ।
सत्यमिति सत्यवचा राथीतरः ।
तप इति तपोनित्यः पौरुशिष्टिः ।
स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः ।
तद्धि तपस्तद्धि तपः ॥ १ ॥ इति नवमोऽनुवाकः ॥
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव ।
ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणँ सवर्चसम् ।
सुमेध अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ १ ॥
इति दशमोऽनुवाकः ॥
वेदमनूच्याचार्योन्तेवासिनमनुशास्ति ।
सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः ।
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ।
सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् ।
कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् ।
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १ ॥
देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव ।
पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव ।
यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि ।
यान्यस्माकँ सुचरितानि ।
तानि त्वयोपास्यानि ॥ २ ॥
नो इतराणि । ये के चारुमच्छ्रेयाँसो ब्राह्मणाः ।
तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । श्रद्धया देयम् ।
अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् ।
संविदा देयम् ।
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥ ३ ॥
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।
अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् ।
तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु ।
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।
अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् ।
तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः ।
एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् ।
एवमु चैतदुपास्यम् ॥ ४ ॥ इत्येकादशऽनुवाकः ॥
शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् ।
सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् ।
आवीन्माम् । आवीद्वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥ इति द्वादशोऽनुवाकः ॥
॥ इति शीक्षावल्ली समाप्ता ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥
--------------------------------------------------------------------------------
ॐ ब्रह्मविदाप्नोति परम्
सत्यं ज्ञानमनन्तं ब्रह्म
सोऽश्नुते सर्वान् कामान् सह
तस्माद्वा एतस्मादात्मन आकाशः संभूतः
वायोरग्निः
पृथिव्या ओषधयः
स वा एष पुरुषोऽन्न्नरसमयः
तस्येदमेव शिरः
अयं दक्षिणः पक्षः
अयमात्मा
तदप्येष श्लोको भवति
अन्नाद्वै प्रजाः प्रजायन्ते
श्रिताः
अथो अन्नेनैव जीवन्ति
अन्नँ हि भूतानां ज्येष्ठम्
सर्वं वै तेऽन्नमाप्नुवन्ति
अन्नँ हि भूतानां ज्येष्ठम्
अन्नाद् भूतानि जायन्ते
अद्यतेऽत्ति च भूतानि
तस्माद्वा एतस्मादन्नरसमयात्
तेनैष पूर्णः
तस्य पुरुषविधताम्
तस्य प्राण एव शिरः
अपान उत्तरः पक्षः
पृथिवी पुच्छं प्रतिष्ठा
इति द्वितीयोऽनुवाकः
प्राणं देवा अनु प्राणन्ति
प्राणो हि भूतानामायुः
सर्वमेव त आयुर्यन्ति
प्राणो हि भूतानामायुः
तस्यैष एव शारीर आत्मा
तस्माद्वा एतस्मात् प्राणमयात्
तेनैष पूर्णः
तस्य पुरुषविधताम्
तस्य यजुरेव शिरः
आदेश आत्मा
तदप्येष श्लोको भवति
यतो वाचो निवर्तन्ते
आनन्दं ब्रह्मणो विद्वान्
तस्यैष एव शारीर आत्मा
तस्माद्वा एतस्मान्मनोमयात्
तेनैष पूर्णः
तस्य पुरुषविधताम्
अन्वयं पुरुषविधः
ऋतं दक्षिणः पक्षः
सत्यमुत्तरः पक्षः
तदप्येष श्लोको भवति
विज्ञानं यज्ञं तनुते
विज्ञानं देवाः सर्वे
ब्रह्म ज्येष्ठमुपासते
तस्माच्चेन्न प्रमाद्यति
सर्वान्कामान्समश्नुत इति
यः पूर्वस्य
अन्योऽन्तर आत्माऽऽनन्दमयः
स वा एष पुरुषविध एव
अन्वयं पुरुषविधः
प्रमोद उत्तरः पक्षः
तदप्येष श्लोको भवति
असन्नेव स भवति
अस्ति ब्रह्मेति चेद्वेद
तस्यैष एव शारीर आत्मा
अथातोऽनुप्रश्नाः
कश्चन गच्छती३ उ
आहो विद्वानमुं लोकं प्रेत्य कश्चित्समश्नुता ३ उ
बहु स्यां प्रजायेयेति
इदँ सर्वमसृजत
तदेवानुप्राविशत्
निरुक्तं चानिरुक्तं च
विज्ञानं चाविज्ञानं च
यदिदं किञ्च
तदप्येष श्लोको भवति
असद्वा इदमग्र आसीत्
तदात्मानँ स्वयमकुरुत
तस्मात्तत्सुकृतमुच्यत इति
यद्वै तत् सुकृतम्
रसँ ह्येवायं लब्ध्वाऽऽनन्दी भवति
प्राण्यात्
एष ह्येवाऽऽनन्दयाति
यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं
प्रतिष्ठां विन्दते
यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते
अथ तस्य भयं भवति
तदप्येष श्लोको भवति
भीषाऽस्माद्वातः पवते
भीषाऽस्मादग्निश्चेन्द्रश्च
सैषाऽऽनन्दस्य मीमाँसा भवति
युवा स्यात्साधुयुवाऽध्यायकः
आशिष्ठो दृढिष्ठो बलिष्ठः
तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्
स एको मानुष आनन्दः
स एको मनुष्यगन्धर्वाणामानन्दः
ते ये शतं मनुष्यगन्धर्वाणामानन्दाः
स एको देवगन्धर्वाणामानन्दः
ते ये शतं देवगन्धर्वाणामानन्दाः
स एकः पितृणां चिरलोकलोकानामानन्दः
श्रोत्रियस्य चाकामहतस्य
ते ये शतं पितृणां चिरलोकलोकानामानन्दाः
स एक आजानजानां देवानामानन्दः
श्रोत्रियस्य चाकामहतस्य
ते ये शतं आजानजानां देवानामानन्दाः
स एकः कर्मदेवानां देवानामानन्दः
ये कर्मणा देवानपियन्ति
ते ये शतं कर्मदेवानां देवानामानन्दाः
स एको देवानामानन्दः
ते ये शतं देवानामानन्दाः
श्रोत्रियस्य चाकामहतस्य
स एको बृहस्पतेरानन्दः
ते ये शतं बृहस्पतेरानन्दाः
श्रोत्रियस्य चाकामहतस्य
ते ये शतं प्रजापतेरानन्दाः
स एको ब्रह्मण आनन्दः
स यश्चायं पुरुषे
स य एवंवित्
एतमन्नमयमात्मानमुपसङ्क्रामति
एतं प्राणमयमात्मानमुपसङ्क्रामति
एतं मनोमयमात्मानमुपसङ्क्रामति
एतं विज्ञानमयमात्मानमुपसङ्क्रामति
एतमानन्दमयमात्मानमुपसङ्क्रामति
तदप्येष श्लोको भवति
यतो वाचो निवर्तन्ते
आनन्दं ब्रह्मणो विद्वान्
न बिभेति कुतश्चनेति
एतँ ह वाव न तपति
किमहँ साधु नाकरवम्
स य एवं विद्वानेते आत्मानँ स्पृणुते
उभे ह्येवैष एते आत्मानँ स्पृणुते
इत्युपनिषत्
ॐ सह नाववतु
तेजस्वि नावधीतमस्तु मा विद्विषावहै
ॐ शान्तिः शान्तिः शान्तिः
--------------------------------------------------------------------------------
भृगुर्वै वारुणिः
अधीहि भगवो ब्रह्मेति
अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति
तँ होवाच
येन जातानि जीवन्ति
यत्प्रयन्त्यभिसंविशन्ति
स तपोऽतप्यत
अन्नं ब्रह्मेति व्यजानात्
भुतानि जायन्ते
अन्नं प्रयन्त्यभिसंविशन्तीति
पुनरेव वरुणं पितरमुपससार
तँ होवाच
स तपोऽतप्यत
प्राणो ब्रह्मेति व्यजानात्
प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते
प्राणेन जातानि जीवन्ति
तद्विज्ञाय
अधीहि भगवो ब्रह्मेति
तपसा ब्रह्म विजिज्ञासस्व
स तपोऽतप्यत
मनो ब्रह्मेति व्यजानात्
भूतानि जायन्ते
मनः प्रयन्त्यभिसंविशन्तीति
पुनरेव वरुणं पितरमुपससार
तँ होवाच
स तपोऽतप्यत
विज्ञानं ब्रह्मेति व्यजानात्
विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते
विज्ञानेन जातानि जीवन्ति
विज्ञानं प्रयन्त्यभिसंविशन्तीति
पुनरेव वरुणं पितरमुपससार
तँ होवाच
स तपोऽतप्यत
आनन्दो ब्रह्मेति व्यजानात्
आनन्दाध्येव खल्विमानि भूतानि जायन्ते
आनन्देन जातानि जीवन्ति
सैषा भार्गवी वारुणी विद्या
स य एवं वेद प्रतितिष्ठति
महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन
महान् कीर्त्या
अन्नं न निन्द्यात्
शरीरमन्नादम्
शरीरे प्राणः प्रतिष्ठितः
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति
अन्नवानन्नादो भवति
महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन
इति सप्तमोऽनुवाकः
अन्नं न परिचक्षीत
ज्योतिरन्नादम्
ज्योतिष्यापः प्रतिष्ठिताः
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति
अन्नवानन्नादो भवति
महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन
महान् कीर्त्या
इत्यष्टमोऽनुवाकः
अन्नं बहु कुर्वीत
आकाशोऽन्नादः
आकाशे पृथिवी प्रतिष्ठिता
तदेतदन्नमन्ने प्रतिष्ठितम्
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति
अन्नवानन्नादो भवति
महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन
इति नवमोऽनुवाकः
न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् ।
तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् ।
अराध्यस्मा अन्नमित्याचक्षते ।
एतद्वै मुखतोऽनँ राद्धम् ।
मुखतोऽस्मा अन्नँ राध्यते ।
एतद्वै मध्यतोऽनँ राद्धम् ।
मध्यतोऽस्मा अन्नँ राध्यते ।
एदद्वा अन्ततोऽन्नँ राद्धम् ।
अन्ततोऽस्मा अन्नँ राध्यते ॥ १ ॥
य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः ।
कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ ।
इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ ।
बलमिति विद्युति ॥ २ ॥
यश इति पशुषु । ज्योतिरिति नक्षत्रेषु ।
प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे ।
तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति ।
तन्मह इत्युपासीत । महान्भवति । तन्मन इत्युपासीत ।
मानवान्भवति ॥ ३ ॥
तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः ।
तद्ब्रह्मेत्युपासीत । ब्रह्मवान्भवति ।
तद्ब्रह्मणः परिमर इत्युपासीत ।
पर्येणं म्रियन्ते द्विषन्तः सपत्नाः ।
परि येऽप्रिया भ्रातृव्याः ।
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ॥ ४ ॥
स य एवंवित् । अस्माल्लोकात्प्रेत्य ।
एतमन्नमयमात्मानमुपसङ्क्रम्य ।
एतं प्राणमयमात्मानमुपसङ्क्रम्य ।
एतं मनोमयमात्मानमुपसङ्क्रम्य ।
एतं विज्ञानमयमात्मानमुपसङ्क्रम्य ।
एतमानन्दमयमात्मानमुपसङ्क्रम्य ।
इमाँल्लोकन्कामान्नी कामरूप्यनुसञ्चरन् ।
एतत् साम गायन्नास्ते । हा ३ वु हा ३ वु हा ३ वु ॥ ५ ॥
अहमन्नमहमन्नमहमन्नम् ।
अहमन्नादो३ऽहमन्नादो३ऽअहमन्नादः ।
अहँ श्लोककृदहँ श्लोककृदहँ श्लोककृत् ।
अहमस्मि प्रथमजा ऋता३स्य ।
पूर्वं देवेभ्योऽमृतस्य ना३भायि ।
यो मा ददाति स इदेव मा३ऽऽवाः ।
अहमन्नमन्नमदन्तमा३द्मि ।
अहं विश्वं भुवनमभ्यभवा३म् ।
सुवर्न ज्योतीः । य एवं वेद । इत्युपनिषत् ॥ ६ ॥
इति दशमोऽनुवाकः ॥
॥ इति भृगुवल्ली समाप्ता ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ हरिः ओ३म् ॥
</pre>
</div>
|