"दक्षिणामूर्त्युपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Upanishad}}
.. दक्षिणामूर्त्युपनिषत् ..
 
यन्मौनव्याख्यया मौनिपटलं क्षणमात्रतः .
.. दक्षिणामूर्त्युपनिषत् ..
महामौनपदं याति स हि मे परमा गतिः ..
 
ॐ सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
<div class="verse">
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
<pre>
ॐ शान्तिः शान्तिः शान्तिः ..
यन्मौनव्याख्यया मौनिपटलं क्षणमात्रतः .
महामौनपदं याति स हि मे परमा गतिः ..
ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
ॐ ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता
महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो
मार्कण्डेयं चिर~जीविनमुपसमेत्य पप्रच्छुः केन त्वं
चिरं जीवसि केन वानन्दमनुभवसीति .
परमरहस्यशिव-
तत्त्वज्ञानेनेति स होवाच .
किं तत्परमरहस्यशिवतत्त्वज्ञानम् .
तत्र को देवः .
के मन्त्राः .
को जपः .
का मुद्रा .
का निष्ठा .
किं तज्ज्ञानसाधनम् .
कः परिकरः .
को बलिः .
कः कालः .
किं तत्स्थानमिति .
स होवाच .
येन दक्षिणामुखः शिवोऽपरोक्षीकृतो
भवति तत्परमरहस्यशिवतत्त्वज्ञानम् .
यः सर्वोपरमे काले
सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते
वा स देवः .
अत्रैते मन्त्ररहस्यश्लोका भवन्ति .
मेधा
दक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः .
गायत्री छन्दः .
देवता दक्षिणास्यः .
मन्त्रेणाङ्गन्यासः .
ॐ आदौ नम उच्चार्य
ततो भगवते पदम् .
दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् ....
अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् .
समुच्चार्य ततो वायुबीजं च्छं च ततः पठेत् .
अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ....
ध्यानम् ..
स्फटिकरजतवर्णं मौक्तिकीमक्षमाला-
ममृतकलशविद्यां ज्ञानमुद्रां कराग्रे .
दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं
विधृतविविधभूषं दक्षिणामूर्तिमीडे ....
मन्त्रेण न्यासः .
आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् .
पञ्चार्णं तत उद्धृत्य अन्तरं सविसर्गकम् .
अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ....
मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं
जान्वासक्तं दधानो भुजगबिलसमाबद्धकक्ष्यो वटाधः .
आसीनश्चन्द्रखण्डप्रतिघटितजटाक्षीरगौरस्त्रिनेत्रो
दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः ....
मन्त्रेण न्यासः ब्रह्मर्षिन्यासः -
तारं ब्रूंनम उच्चार्य मायां वाग्भवमेव च .
दक्षिणापदमुच्चार्य ततः स्यान्मूर्तये पदम् ....
ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो न्यसेत् .
मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ....
भस्मव्यापाण्डुरङ्गः शशिशकलधरो ज्ञानमृद्राक्षमाला-
वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः .
व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः
सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ....
मन्त्रेण न्यासः .
[ब्रह्मर्षिन्यासः .]
तारं परं रमाबीजं वदेत्सांबशिवाय च .
तुभ्यं चानलजायां मनुर्द्वादशवर्णकः ....
वीणां करैः पुस्तकमक्षमालां
बिभ्राणमभ्राभगलं वराढ्यम् .
फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः
सेव्यं वटाधः कृतनीडमीडे .. १०..
विष्णू ऋषिरनुष्टुप् छन्दः .
देवता दक्षिणास्यः .
मन्त्रेण न्यासः .
तारं नमो भगवते तुभ्यं वटपदं ततः .
मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् .. ११..
प्रज्ञामेधापदं पश्चादादिसिद्धिं ततो वदेत् .
दायिने पदमुच्चार्य मायिने नम उद्धरेत् .. १२..
वागीशाय ततः पश्चान्महाज्ञानपदं ततः .
वह्निजायां ततस्त्वेष द्वात्रिंशद्वर्णको मनुः .
आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः .. १३..
ध्यानम् .
मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं
मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्वलम् .
अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं
न्यग्रोधान्तनिवासिनं परगुरुं ध्यायाम्यभीष्टाप्तये .. १४..
मौनमुद्रा .
सोऽहमिति यावदास्थितिः सनिष्ठा भवति .
तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् .
चित्ते तदेकतानता परिकरः .
अङ्गचेष्टार्पणं बलिः .
त्रीणि धामानि कालः .
द्वादशान्तपदं स्थानमिति .
ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः .
कथं वाऽस्योदयः .
किं स्वरूपम् .
को वाऽस्योपासक इति .
स होवाच .
वैराग्यतैलसंपूर्णे भक्तिवर्तिसमन्विते .
प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् .. १५..
मोहान्धकारे निःसारे उदेति स्वयमेव हि .
वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् .. १६..
गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् .
मोहभानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् .. १७..
तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् .
उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः .. १८..
शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् .
दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः .. १९..
सर्गादिकाले भगवान्विरिञ्चि-
रुपास्यैनं सर्गसामर्थ्यमाप्य .
तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा
धन्यः सोपास्योपासको भवति धाता .. २०..
य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति .
य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ..
ॐ सह नाववतु .
सह नौ भुनक्तु .
सह वीर्यं करवावहै .
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
इति दक्षिणामूर्त्युपनिषत्समाप्ता ..
</pre>
</div>
"https://sa.wikisource.org/wiki/दक्षिणामूर्त्युपनिषत्" इत्यस्माद् प्रतिप्राप्तम्