"वराहपुराणम्/अध्यायः १८२" इत्यस्य संस्करणे भेदः

{{header | title = ../ | author = | translator = | section = अध्यायः १८२ | previou... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">अथ शैलार्च्चास्थापनम् ।।
श्रीवराह उवाच ।।
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
यथा तिष्ठामि शैलेषु प्रतिमायामितस्ततः ।। १ ।।
सुरूपां च शिलां दृष्ट्वा निःशल्यां सुपरीक्षिताम् ।।
तत्र दक्षं रूपकारं शीघ्रं च विनियोजयेत् ।। २ ।।
शीघ्रमालिख्य तं तत्र श्वेतवर्तिकया नरः ।।
प्रदक्षिणां ततः कृत्वा पूजयेदक्षतादिभिः ।। ३ ।।
दीपकं च ततो दद्याद्बलिं दध्योदनेन च ।।
नमो नारायणायेति उक्त्वा मन्त्रमुदीरयेत् ।। ४ ।।
मन्त्रः-
योऽसौ भवान्सर्वजनप्रवीरः सोमाग्नितेजाः सुमतिप्रधानः ।।
एतेन मन्त्रेण तु वासुदेव प्रतिष्ठितो वर्द्धय कीर्त्तिराशिम् ।। ५ ।।
प्रवर अयुतवराह जय जय वर्द्धस्व ।।
अनेनैव तु मन्त्रेण कर्त्तव्यं यस्य यादृशम् ।।
एवंरूपं ततः कृत्वा देवं नारायणं प्रभुम् ।। ६ ।।
ततो वै स्थापयेत्तत्र पूर्वाभिमुखमेव तु ।।
अहोरात्रमुषित्वैवं शुक्लवस्त्रेण भूषितः ।। ७ ।।
शुक्लयज्ञोपवीती च कृत्वा वै दन्तधावनम् ।।
सर्वगन्धोदकं गृह्य इमं मन्त्रमुदाहरेत्।।८।।
मन्त्रः –
योऽसौ भवांस्तिष्ठति सर्वरूपं मायाबलं सर्वजगत्स्वरूपम् ।।
एतेन मन्त्रेण जगत्स्वरूप सम्पूजितस्तिष्ठसि लोकनाथ।।९।।
करणधारणप्रवध्यमुदाहरणमपराजितमजरामर ।।
सम्पूज्य स्नापयात्मानमनेन मन्त्रेण ॐ नमो वासुदेवाय ।।
एवं तु स्थापनं कृत्वा शिलायां मम सुन्दरि ।।
ततो ऽधिवासनं कार्यं पूर्वप्रोष्ठपदासु च ।। 182.१० ।।
यो मां संस्थापयेद्भूमे मम कर्मपरायणः ।।
स याति वैष्णवं लोकं नात्र कार्या विचारणा ।। ११ ।।
यावकं पायसं भुक्त्वा अहोरात्रं समापयेत् ।।
ततः पश्चिमसन्ध्यायां दद्याच्चत्वारि दीपकान्।।१२।।
पंचगव्यं च गन्धं च वारिणा सह मिश्रयेत् ।।
चतुरः कलशांश्चैव स्थापयेत्पादमूलतः ।। १३ ।।
गीतवादित्रघोषेण उत्सवं तत्र कारयेत् ।।
ब्राह्मणैः सामगैस्तत्र वेदघोषं तु कारयेत् ।। १४ ।।
ब्रह्माक्षरसहस्राणि पठतां ब्रह्मवादिनाम् ।।
येषां पठितशब्देन शुभगीतस्वरेण च ।। १५ ।।
आगमिष्याम्यहं देवि मन्त्रपाठो मम प्रियः ।।
निःशब्दं च ततः कृत्वा स्थाप्यो भागवतैः सह ।।३५।।
पुनरावाहनं कुर्यान्मन्त्रेणानेन सुव्रतः ।।
आगच्छ हे देव सुमन्त्रयुक्तः पंचेन्द्रियैः षट्सु तथा प्रधानः ।।१७।।
एतेषु भूतेषु च संविधाता आवासितस्तिष्ठति लोकनाथ ।। १८ ।।
अनेनैव तु मन्त्रेण समित्तिलघृतेन च ।।
मधुना चैव होतव्यमष्टोत्तरशताहुतीः ।। १९ ।।
एवं कृते विधाने भवामि सन्निहितः स्वयम् ।।
व्यतीतायां तु शर्वर्यां प्रभाते विमले ततः।।182.२० ।।
पंचगव्यं तत प्राश्य मन्त्रेण विधिपूर्वकम् ।।
सर्वगन्धैश्च लाजैश्च पंचगव्यजलं तथा ।। २१ ।।
ततः प्रासादे स्थाप्योऽहं गीतवादित्रमङ्गलैः ।।
सर्वगन्धांस्ततो गृह्य इमं मन्त्रमुदाहरेत् ।। २२ ।।
मन्त्रश्च -
योऽसौ भवाँल्लक्षणलक्षितश्च लक्ष्म्या च युक्तः सततं पुराणः ।।
अत्र प्रासादे सुसमिद्धतेजाः प्रवेशमायाहि नमो नमस्ते ।।२३।।
तत एतेन मन्त्रेण प्रासादं संप्रवेशयेत् ।।
प्रतिमा स्थापितव्या मे मध्ये न तु विपार्श्वतः ।। २४ ।।
एवं संस्थापनं कृत्वा दद्यादुद्वर्त्तनं विभोः ।।
चन्दनं कुंकुमं चैव मिश्रं कालेयकेन च ।।२५।।
एवं चोद्वर्त्तनं कृत्वा इमं मन्त्रमुदाहरेत् ।।
योऽसौ भवान्सर्वजगत्प्रधानः सम्पूजितो ब्रह्मबृहस्पतिभ्याम् ।।
प्रवन्दितः कारणं मन्त्रयुक्तः सुस्वागतं तिष्ठ सुलोकनाथ ।। २६ ।।
एवं संस्थापनं कृत्वा गन्धमाल्यैश्च पूजयेत् ।।
शुक्लवस्त्राणि मे दद्यादिमं मन्त्रमुदाहरेत् ।। २७ ।।
मन्त्रः-
वस्त्राणि देवेश गृहाण तानि मया सुभक्त्या रचितानि यानि ।।
इमानि सन्धारय विश्वमूर्त्ते प्रसीद मह्यं च नमो नमस्ते ।।२८।।
एवं वस्त्राणि मे दद्याद्विधिदृष्टेन कर्मणा ।।
धूपनं मे ततो दद्यात्कुङ्कुमागुरुमिश्रितम् ।।
एवं च धूपनं दद्यादिमं मन्त्रमुदीरयेत् ।। २९ ।।
मन्त्रः –
असावनादिः पुरुषः पुराणो नारायणः सर्वजगत् प्रधानः ।।
गन्धं च माल्यानि च धूप दीपौ गृहाण देवेश नमो नमस्ते ।। 182.३० ।।
एवं पूजां ततः कृत्वा प्रापणं च निवेदयेत् ।।
पूर्वोक्तेन विधानेन प्रापणं चोपकल्प्य च ।। ३१ ।।
पूर्वोक्तेनैव मन्त्रेण दद्यात्प्रापणकं बुधः ।।
प्रापणान्ते चाचमनं दद्याद्देहविशुद्धये ।। ३२।।
शान्तिजापस्ततः कार्यः सर्वकार्यार्थसिद्धिदः ।।
मन्त्रः-
त्वं वै सुशान्तिं कुरु लोकनाथ राज्ञः सराष्ट्रस्य च ब्राह्मणानाम् ।।
बालेषु वृद्धेषु गवाङ्गणेषु कन्यासु शान्तिं च पतिव्रतासु ।। ३३ ।।
रोगा विनश्यन्तु च सर्वतश्च कृषीवलानां च कृषिः सदा स्यात्।।
सुभिक्षयुक्ताश्च सदा हि लोकाः काले सुवृष्टिर्भविता च शान्तिः ।।३४।।
एवं विधिं ततः कृत्वा विधिदृष्टेन कर्मणा ।।
संपूज्य तत्र देवेशं ब्राह्मणान्भोजयेद्व्रती ।। ३५ ।।
दीनानाथान्प्रतर्प्याथ यथाविभवशक्तितः ।।
य एतेन विधानेन कुर्यात्संस्थापनं मम ।। ३६ ।।
यावन्तो मम गात्रेषु जायन्ते जलबिन्दवः ।।
तावद्वर्षसहस्राणि मम लोकेषु तिष्ठति ।। ३७ ।।
यो मां संस्थापयेद्भूमे सर्वाहङ्कारवर्जितः ।।
तारितं च कुलं तेन सप्त सप्त च सप्ततिः ।। ३८ ।।
एतत्ते कथितं भद्रे शैलिकास्थापनं मम ।।
धर्मसन्धारणार्थाय मम भक्त सुखाय च ।। ३९ ।।
इति श्रीवराहपुराणे शैलार्चास्थापनं नाम द्व्यशीत्यधिकशततमोऽध्यायः ।। १८२ ।।
 
</span></poem>
"https://sa.wikisource.org/wiki/वराहपुराणम्/अध्यायः_१८२" इत्यस्माद् प्रतिप्राप्तम्