"महाभारतम्-01-आदिपर्व-074" इत्यस्य संस्करणे भेदः
Content deleted Content added
:वैशंपायन उवाच । :ततः काव्यो भृगुश्रेष्ठः समन्यु... नवीन पृष्ठं निर्मीत अस्ती |
(भेदः नास्ति)
|
११:४१, १४ जुलै २०११ इत्यस्य संस्करणं
- वैशंपायन उवाच ।
- ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह ।
- वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥१॥
- नाधर्मश्चरितो राजन्सद्यः फलति गौरिव ।
- शनैरावर्त्यमानो हि कर्तुर्मूलानि कृन्तति ॥२॥
- पुत्रेषु वा नपृषु वा न चेदात्मनि पश्यति ।
- फलत्येव ध्रुवं पापं उरुभुक्तभिवोदरे ॥३॥
- ‘अधीयानं हितं राजन्क्षमावन्तं जितेन्द्रियम ।
- यदघातयथा विप्रं कचमाङ्गिरसं तदा ।
- अपपशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥४॥
- ‘शर्मिष्ठया देवयानी क्रूरमुक्ता बहु प्रभो ।
- विप्रकृत्य च संरम्भात्कूपे क्षिप्ता मनस्विनी ॥५॥
- सा न कल्पेत वासाय तयहं रहितः कथम् ।
- वसेयमिह तस्मात्ते त्यजामि विष्यं नृप् ॥६॥
- वधादनर्हतस्तस्य वधाच्च दुहितुर्मम ।
- वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् ।
- स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ॥७॥
- ‘मा शोच वृषपर्वस्त्वं मा क्रुध्यस्व विशांपते ।
- स्थातुं ते विषये राजन्न शक्ष्यामि तया विना ।
- अस्या गतिर्गतिर्मह्यं प्रयमस्याः प्रियं मम ॥८॥
- वृषपर्वोवाच ।
- यदि ब्रह्मान्धातयामि यदि वा क्रोशयाम्यहम् ।
- शर्मिष्ठया देवयानीं तेन गच्छाम्यसद्गतिम् ॥९॥
- शुक्र उवाच ।
- अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् ।
- यथेममात्मानो दोषं न नियच्छस्युपेक्षसे ॥१०॥
- वृष्पर्वोवाच ।
- नाधर्म न मृषावादं त्वयि जानामि भार्गव ।
- त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ॥११॥
- यद्यस्मानपहाय त्वमितो गच्छसि भार्गव ।
- समुद्रं संप्रवेक्ष्यामि पूर्व मद्वान्धवैः सह ॥१२॥
- पातालमथवा चाग्निं नान्यदस्ति परायणम् ।
- यद्येव देवान्गच्छेस्त्वं मां च यक्त्वा ग्रहाधिप ।
- सर्वत्यागं ततः कृत्वा प्रविशामि हुताशनम् ॥१३॥
- शुक्र उवाच ।
- स्मुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः ।
- दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ॥१४॥
- प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम् ।
- योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥१५॥
- वृषपर्वोवाच ।
- यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव ।
- भुवि हस्तिगवाश्चं च तस्य त्वं मम चेश्वरः ॥१६॥
- शुक्र उवाच ।
- यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर ।
- तस्येश्वरोस्मि यध्येषा देवयानी प्रसाद्यताम् ॥१७॥
- वैशंपायन उवाच ।
- एवमुक्तस्तथेत्याह वृषपर्वा महाकविम् ।
- देवयान्यन्तिकं गत्वा तमर्थ प्राह भार्गवः ॥१८॥
- देवयान्युवाच ।
- यदि त्वमीश्चरस्तात् राज्ञो वित्तस्य भार्गव ।
- नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥१९॥
- ‘वैशंपायन उवाच ।
- शुक्रस्य वचनं श्रुत्वा वृषपर्वा सबान्धवः ।
- देवयानि प्रसीदेति पपात भुवि पादयोः ॥२०॥
- वृषपर्वोवाच ।
- स्तुत्यो वन्द्यश्च सततं मया तातश्च ते शुभे ।’
- यं काममभिकामाऽसि देवयानि शुचिस्मिते ।
- तत्तेऽहं संप्रदास्यामि यदि वपि हि दुर्लभम् ॥२१॥
- देवयान्युवाच ।
- दासीं कन्यासहस्त्रेण् शर्मिष्ठामभिकामये ।
- अनु मां तत्र गच्छेत्सा यत्र दद्याच्च मे पिता ॥२२॥
- वृषपर्वोवाच ।
- उत्तिष्ठ त्वं गच्छ धात्रि शर्मिष्ठां शीघ्रमानय ।
- यं च कामयते कामं देवयानि करोतु तम् ॥२३॥
- ‘त्यजेदेकं कुलस्यार्थे ग्रामार्थे च कुलं त्यजेत् ।
- ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥२४॥
- वैशंपायन उवाच ।
- ततो घात्री तत्र् गत्वा शर्मीष्ठां वाक्यमब्रवीत् ।
- उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥२५॥
- त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः ।
- सायं कामयते कामं स कार्योऽद्य त्वयाऽनघे ॥२६॥
- शर्मिष्ठोवाच ।
- यं सा कामयते कामं करवाण्यहमद्य तम् ।
- यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम् ।
- मद्दोषान्मागमच्छुक्रो देवयानी च मत्कृते ॥२७॥
- वैशंपायन उवाच ।
- ततः कन्यासहस्त्रेण वृता शिबिकया तदा ।
- पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥२८॥
- शर्मिष्ठोवाच ।
- अहं दसीसहस्त्रेण दासी ते परिचारिका ।
- अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥२९॥
- देवयान्युवाच ।:स्तुवतो दुहिताऽहं ते याचतः प्रतिगृह्णतः ।
- स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥३०॥
- शर्मिष्ठोवाच ।
- येनकेनचिदार्तानां ज्ञातीनां सुखमावहेत् ।
- अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता ॥३१॥
- वैशंपायन उवाच ।
- प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः ।
- देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥३२॥
- देवयान्युवाच ।
- प्रविशामि पुरं तात तुष्टाऽस्मि द्विजसत्तम ।
- अमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥३३॥
- वैशंपायन उवाच ।
- एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः ।
- प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥३४॥