"कौषीतकिब्राह्मणोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६८:
 
 
::::अथातो निःश्रेयसादानं सर्वा ह वै देवता अहं श्रेयसे विवदमानाः । अस्माच्छरीरादुच्चक्रमुस्तद्दारुभूतं शिष्येथैतद्वाक्प्रविवेश तद्वाचा वदच्छिष्य एव । अथैतच्चक्षुः प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छिष्य एवाथैनच्छ्रॊत्रं प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छ्रॊत्रेण शृण्वच्छिष्य एवाथैनन्मनः प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छ्रॊत्रेण शृण्वन्मनसा ध्यायच्छिष्य एवाथैतत्प्राणः प्रविवेश तत्तत एव समुत्तस्थौ ते देवाः प्राणे निःश्रेयसं विचिन्त्य प्राणमेव प्रज्ञात्मानमभिसम्भूय सहैतैः सर्वैरस्माल्लोकादुच्चक्रमुः । ते वायुप्रतिष्ठाकाशात्मानःवायु-प्रतिष्ठाकाशात्मानः स्वर्ययुस्तथॊ एवैवं विद्वान्सर्वेषां भूतानां प्राणमेव प्रज्ञात्मानमभिसम्भूय सहैतैः सर्वैरस्माच्छरीरादुत्क्रामति स वायुप्रतिष्ठाकाशात्मा न स्वरेति तद्भवति यत्रैतद्देवास्तत्प्राप्य तदमृतो भवतियदमृता देवाः ॥ १४ ॥
 
 
"https://sa.wikisource.org/wiki/कौषीतकिब्राह्मणोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्