"छान्दोग्योपनिषद्/अध्यायः २" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(लघु) (१ अवतरण: from old wikisource)
::::::॥ छान्दोग्योपनिषद् ॥
{{Upanishad}}
 
 
::::॥ तृतीयॊऽध्यायः ॥
::::॥ प्रथमः खण्डः ॥
 
::::असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवँशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ १ ॥
 
 
::::तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ २ ॥
 
 
::::एतमृग्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥ ३ ॥
 
 
::::तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य रोहितँरूपम् ॥ ४ ॥
 
 
::::॥ द्वितीयः खण्डः ॥
 
::::अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूँष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ॥ १ ॥
 
 
::::तानि वा एतानि यजूँष्येतं यजुर्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोजायत ॥ २ ॥
 
 
::::तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य शुक्लँरूपम् ॥ ३ ॥
 
 
::::॥ तृतीयः खण्डः ॥
 
::::अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥
 
 
::::तानि वा एतानि सामान्येतँसामवेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥ २ ॥
 
 
::::तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य कृष्णँरूपम् ॥ ३ ॥
 
 
:::: ॥ चतुर्थः खण्डः ॥
 
::::अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः ॥ १ ॥
 
 
::::ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥ २ ॥
 
 
::::तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य परं कृष्णँरूपम् ॥ ३ ॥
 
 
::::॥ पञ्चमः खण्डः ॥
 
::::अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ १ ॥
 
 
::::ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥ २ ॥
 
 
::::तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३ ॥
 
 
::::ते वा एते रसानाँरसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ ४ ॥
 
 
::::॥ षष्ठः खण्डः ॥
 
::::तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
 
 
::::त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
 
 
::::स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
 
 
::::स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥ ४ ॥
 
 
::::॥ सप्तमः खण्डः ॥
 
::::अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
 
 
::::त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
 
 
::::स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
 
 
::::स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥ ४ ॥
 
 
::::॥ अष्टमः खण्डः ॥
 
::::अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
 
 
::::त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
 
 
::::स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
 
 
::::स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥ ४ ॥
 
 
::::॥ नवमः खण्डः ॥
 
::::अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
 
 
::::त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
 
 
::::स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
 
 
::::स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्य्ँस्वाराज्यं पर्येता ॥ ४ ॥
 
 
::::॥ दशमः खण्डः ॥
 
::::अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
 
 
::::त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
 
 
::::स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥
 
 
::::स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्वमुदेतार्वागस्तमेता साध्यानामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥ ४ ॥
 
 
::::॥ एकादशः खण्डः ॥
 
::::अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ १ ॥
 
 
::::न वै तत्र न निम्लोच नोदियाय कदाचन । देवास्तेनाहँसत्येन मा विराधिषि ब्रह्मणेति ॥ २ ॥
 
 
::::न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३ ॥
 
 
::::तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ४ ॥
 
 
::::इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ५ ॥
 
 
::::नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥ ६ ॥
 
 
::::॥ द्वादशः खण्डः ॥
 
::::गायत्री वा ईदँ सर्वं भूतं यदिदं किं च वाग्वै गायत्री वाग्वा इदँ सर्वं भूतं गायति च त्रायते च ॥ १ ॥
 
 
::::या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याँहीदँसर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ २ ॥
 
 
::::या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ३ ॥
 
 
::::यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ४ ॥
 
 
::::सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ ५ ॥
 
 
::::तावानस्य महिमा ततो ज्यायाँश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ६ ॥
 
 
::::यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ७ ॥
 
 
::::अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः पुरुष आकाशः ॥ ८ ॥
 
 
::::अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति पूर्णमप्रवर्तिनीँश्रियं लभते य एवं वेद ॥ ९ ॥
 
 
::::॥ त्रयोदशः खण्डः ॥
 
::::तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥ १ ॥
 
 
::::अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रँस चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥ २ ॥
 
 
::::अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३ ॥
 
 
::::अथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ४ ॥
 
 
::::अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान्भवति य एवं वेद ॥ ५ ॥
 
 
::::ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेद ॥ ६ ॥
 
 
::::अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषो ज्योतिस्तस्यैषा ॥ ७ ॥
 
 
::::तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे सँस्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ८ ॥
 
 
::::॥ चतुर्दशः खण्डः ॥
 
::::सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ १ ॥
 
 
::::मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥ २ ॥
 
 
::::एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मान्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ ३ ॥
 
 
::::सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥
 
 
::::॥ पञ्चदशः खण्डः ॥
 
::::अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलँस एष कोशो वसुधानस्तस्मिन्विश्वमिदँश्रितम् ॥ १ ॥
 
 
::::तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदँरोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदँरुदम् ॥ २ ॥
 
 
::::अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३ ॥
 
 
::::स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदँ सर्वं भूतं यदिदं किञ्च तमेव तत्प्रापत्सि ॥ ४ ॥
 
 
::::अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ५ ॥
 
 
::::अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६ ॥
 
 
::::अथ यदवोचँस्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ७ ॥
 
 
::::॥ षोडशः खण्डः ॥
 
::::पुरुषो वाव यज्ञस्तस्य यानि चतुर्विँशतिवर्षाणि तत्प्रातःसवनं चतुर्विँशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीदँसर्वं वासयन्ति ॥ १ ॥
 
 
::::तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा वसव इदं मे प्रातःसवनं माध्यन्दिनँसवनमनुसन्तनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ २ ॥
 
 
::::अथ यानि चतुश्चत्वारिँशद्वर्षाणि तन्माध्यंदिनँसवनं चतुश्चत्वारिँशदक्षरा त्रिष्टुप्त्रैष्टुभं माध्यन्दिनँसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदँसर्वँरोदयन्ति ॥ ३ ॥
 
 
::::तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा रुद्रा इदं मे माध्यन्दिनँसवनं तृतीयसवनमनुसन्तनुतेति माहं प्राणानाँरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ४ ॥
 
 
::::अथ यान्यष्टाचत्वारिँशद्वर्षाणि तत्तृतीयसवनमष्टाचत्वारिँशदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वावादित्या एते हीदँसर्वमाददते ॥ ५ ॥
 
 
::::तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो हैव भवति ॥ ६ ॥
 
 
::::एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ७ ॥
 
 
::::॥ सप्तदशः खण्डः ॥
 
::::स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ १ ॥
 
 
::::अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ २ ॥
 
 
::::अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥ ३ ॥
 
 
::::अथ यत्तपो दानमार्जवमहिँसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ४ ॥
 
 
::::तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवावभृथः ॥ ५ ॥
 
 
::::तद्धैतद्घोर् आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसँशितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ६ ॥
 
 
::::आदित्प्रत्नस्य रेतसः । उद्वयन्तमसस्परि ज्योतिः पश्यन्त उत्तरँस्वः पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ७ ॥
 
 
::::॥ अष्टादशः खण्डः ॥
 
::::मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ १ ॥
 
 
::::तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद अदित्यः पादो दिशः पाद इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ २ ॥
 
 
::::वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३ ॥
 
 
::::प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ४ ॥
 
 
::::चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ५ ॥
 
 
::::श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ६ ॥
 
 
::::॥ एकोनविंशः खण्डः ॥
 
::::आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ १ ॥
 
 
::::तद्यद्रजतँसेयं पृथिवी यत्सुवर्णँ सा द्यौर्यज्जरायु ते पर्वता यदुल्बँसमेघो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकँस समुद्रः ॥ २ ॥
 
 
::::अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३ ॥
 
 
::::स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेनँ साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥ ४ ॥
 
 
::::॥ चतुर्थोऽध्यायः ॥
::::॥ प्रथमः खण्डः ॥
 
::::जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयाञ्चक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥ १ ॥
 
 
::::अथ हँसा निशायामतिपेतुस्तद्धैवँ हँ सोहँ समभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षीस्तत्त्वा मा प्रधाक्षीरिति ॥ २ ॥
 
 
::::तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तँसयुग्वानमिव रैक्वमात्थेति यो नु कथँसयुग्वा रैक्व इति ॥ ३ ॥
 
 
::::यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँसर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४ ॥
 
 
::::तदु ह जानश्रुतिः पौत्रायण उपशुश्राव स ह सञ्जिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव रैक्वमात्थेति यो नु कथँसयुग्वा रैक्व इति ॥ ५ ॥
 
 
::::यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँसर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ६ ॥
 
 
::::स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तँ होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ७ ॥
 
 
::::सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश तँ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इत्यहँ ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति प्रत्येयाय ॥ ८ ॥
 
 
::::॥ द्वितीयः खण्डः ॥
 
::::तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तँ हाभ्युवाद ॥ १ ॥
 
 
::::रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु म एतां भगवो देवताँशाधि यां देवतामुपास्स इति ॥ २ ॥
 
 
::::तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे ॥ ३ ॥
 
 
::::तँ हाभ्युवाद रैक्वेदँ सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४ ॥
 
 
::::तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास स तस्मै होवाच ॥ ५ ॥
 
 
::::॥ तृतीयः खण्डः ॥
 
::::वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥ १ ॥
 
 
::::यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ २ ॥
 
 
::::अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राणँ श्रोत्रं प्राणं मनः प्राणो ह्येवैतान्सर्वान्संवृङ्क्त इति ॥ ३ ॥
 
 
::::तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४ ॥
 
 
::::अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ५ ॥
 
 
::::स होवाच महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं दत्तमिति ॥ ६ ॥
 
 
::::तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां जनिता प्रजानाँ हिरण्यदँष्ट्रो बभसोऽनसूरिर्महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ७ ॥
 
 
::::तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतँ सैषा विराडन्नादी तयेदँ सर्वं दृष्टँ सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ८ ॥
 
 
::::॥ चतुर्थः खण्डः ॥
 
::::सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किङ्गोत्रोन्वहमस्मीति ॥ १ ॥
 
 
::::सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रवीथा इति ॥ २ ॥
 
 
::::स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ॥ ३ ॥
 
 
::::तँ होवाच किङ्गोत्रो नु सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरँ सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहँ सत्यकामो जाबालोऽस्मि भो इति ॥ ४ ॥
 
 
::::तँ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधँ सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा सहस्रँ संपेदुः ॥ ५ ॥
 
 
::::॥ पञ्चमः खण्डः ॥
 
::::अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रँ स्मः प्रापय न आचार्यकुलम् ॥ १ ॥
 
 
::::ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥ २ ॥
 
 
::::स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिँल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ३ ॥
 
 
::::॥ षष्ठः खण्डः ॥
 
 
::::अग्निष्टे पादं वक्तेति स ह श्वोभूते गा आभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥
 
 
::::तमग्निरभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥
 
 
::::ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ ३ ॥
 
 
::::स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिँल्लोके भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४ ॥
 
 
::::॥ सप्तमः खण्डः ॥
 
::::हँसस्ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥
 
 
::::तँहँस उपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥
 
 
::::ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ३ ॥
 
 
::::स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिँल्लोके भवति ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४ ॥
 
 
::::॥ अष्टमः खण्डः ॥
 
::::मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ १ ॥
 
 
::::तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥
 
 
::::ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ३ ॥
 
 
::::स यै एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्त आयतनवानस्मिँल्लोके भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४ ॥
 
 
::::॥ नवमः खण्डः ॥
 
::::प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ १ ॥
 
 
::::ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे भगवाँस्त्वेव मे कामे ब्रूयात् ॥ २ ॥
 
 
::::श्रुतँह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किञ्चन वीयायेति वीयायेति ॥ ३ ॥
 
 
::::॥ दशमः खण्डः ॥
 
::::उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचार्यमुवास तस्य ह द्वादशवार्षाण्यग्नीन्परिचचार स ह स्मान्यानन्तेवासिनः समावर्तयँस्तं ह स्मैव न समावर्तयति ॥ १ ॥
 
 
::::तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे ॥ २ ॥
 
 
::::स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ३ ॥
 
 
::::अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः ॥ ४ ॥
 
 
::::प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ५ ॥
 
 
::::॥ एकादशः खण्डः ॥
 
::::अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥
 
 
::::स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥
 
 
::::॥ द्वादशः खण्डः ॥
 
::::अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥
 
 
::::स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीभवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥
 
 
::::॥ त्रयोदशः खण्डः ॥
 
::::अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥
 
 
::::स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीभवति सर्वमयुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥
 
 
::::॥ चतुर्दशः खण्डः ॥
 
::::ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या चाचार्यस्तु ते गतिं वक्तेत्याजगाम हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति ॥ १ ॥
 
 
::::भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे किं नु सोम्य किल तेऽवोचन्निति ॥ २ ॥
 
 
::::इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ ३ ॥
 
 
::::॥ पञ्चदशः खण्डः ॥
 
::::य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ १ ॥
 
 
::::एतँ संयद्वाम इत्याचक्षत एतँ हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ २ ॥
 
 
::::एष उ एव वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥
 
 
::::एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥
 
 
::::अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाँस्तान्मासेभ्यः संवत्सरँ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत् पुरुषोऽमानवः ॥ ५ ॥
 
 
::::स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥ ६ ॥
 
 
::::॥ षोडशः खण्डः॥
 
::::एष ह वै यज्ञो योऽयं पवते एष ह यन्निदँ सर्वं पुनाति । यदेष यन्निदँ सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ॥ १ ॥
 
 
::::तयोरन्यतरां मनसा सँस्करोति ब्रह्मा वाचा होताध्वर्युरुद्गातान्यतराँस यत्रौपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यवदति ॥ २ ॥
 
 
::::अन्यतरामेव वर्तनीँ सँस्करोति हीयतेऽन्यतरा स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञँ रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ ३ ॥
 
 
::::अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यवदत्युभे एव वर्तनी सँस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४ ॥
 
 
::::स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ ५ ॥
 
 
::::॥ सप्तदशः खण्डः ॥
 
::::प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाँरसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः ॥ १ ॥
 
 
::::स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाँरसान्प्रावृहदग्नेर्ऋचो वायोर्यजूँषि सामान्यादित्यात् ॥ २ ॥
 
 
::::स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति सामभ्यः ॥ ३ ॥
 
 
::::तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टँ सन्दधाति ॥ ४ ॥
 
 
::::स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टँ सन्दधाति ॥ ५ ॥
 
 
::::अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टं सन्दधाति ॥ ६ ॥
 
 
::::तद्यथा लवणेन सुवर्णँ सन्दध्यात्सुवर्णेन रजतँ रजतेन त्रपु त्रपुणा सीसँ सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ७ ॥
 
 
::::एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टँ सन्दधाति भेषजकृतो ह वा एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ८ ॥
 
 
::::एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदँ ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद्गच्छति ॥ ९ ॥
 
 
::::मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानँ सर्वाँश्चर्त्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ १० ॥
 
॥छान्दोग्योपनिषद्॥ तृतीयोऽध्यायः, चतुर्थोऽध्यायः<br>
<br>
==॥तृतीयोऽध्यायः॥==
<br>
॥प्रथमः खण्डः॥<br>
<br>
असौ वा आदित्यो देवमधु तस्य द्यौरेव<br>
तिरश्चीनवँशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥३.१.१॥<br>
<br>
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः।<br>
ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता<br>
आपस्ता वा एता ऋचः ॥३.१.२॥<br>
<br>
एतमृग्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज<br>
इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत ॥३.१.३॥<br>
<br>
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा<br>
एतद्यदेतदादित्यस्य रोहितँरूपम्॥३.१.४॥<br>
<br>
॥इति प्रथमः खण्डः॥<br>
<br>
॥द्वितीयः खण्डः॥<br>
<br>
अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा<br>
मधुनाड्यो यजूँष्येव मधुकृतो यजुर्वेद एव पुष्पं<br>
ता अमृत आपः ॥३.२.१॥<br>
<br>
तानि वा एतानि यजूँष्येतं<br>
यजुर्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं<br>
वीर्यमन्नाद्यँरसोजायत ॥३.२.२॥<br>
<br>
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा<br>
एतद्यदेतदादित्यस्य शुक्लँ रूपम्॥३.२.३॥<br>
<br>
॥इति द्वितीयः खण्डः॥<br>
<br>
॥तृतीयः खण्डः॥<br>
<br>
अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो<br>
मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं<br>
ता अमृता आपः॥३.३.१॥<br>
<br>
तानि वा एतानि सामान्येतँ<br>
सामवेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं<br>
वीर्यमन्नाद्यँरसोऽजायत ॥३.३.२॥<br>
<br>
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा<br>
एतद्यदेतदादित्यस्य कृष्णँरूपम्॥३.३.३॥<br>
<br>
॥इति तृतीयः खण्डः॥<br>
<br>
॥चतुर्थः खण्डः॥<br>
<br>
अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो<br>
मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत<br>
इतिहासपुराणं पुष्पं ता अमृता आपः॥३.४.१॥<br>
<br>
ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपँ<br>
स्तस्याभितप्तस्य यशस्तेज इन्द्रियां<br>
वीर्यमन्नाद्यँरसोऽजायत ॥३.४.२॥<br>
<br>
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा<br>
एतद्यदेतदादित्यस्य परं कृष्णँरूपम्॥३.४.३॥<br>
<br>
॥इति चतुर्थः खण्डः॥<br>
<br>
॥पञ्चमः खण्डः॥<br>
<br>
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा<br>
मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव<br>
पुष्पं ता अमृता आपः ॥३.५.१॥<br>
<br>
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपँ<br>
स्तस्याभितप्तस्य यशस्तेज इन्द्रियं<br>
वीर्यमन्नाद्यँरसोऽजायत ॥३.५.२॥<br>
<br>
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा<br>
एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥३.५.३॥<br>
<br>
ते वा एते रसानाँरसा वेदा हि रसास्तेषामेते<br>
रसास्तानि वा एतान्यमृतानाममृतानि वेदा<br>
ह्यमृतास्तेषामेतान्यमृतानि॥३.५.४॥<br>
<br>
॥इति पञ्चमः खण्डः॥<br>
<br>
॥षष्ठः खण्डः॥<br>
<br>
तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै<br>
देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा<br>
तृप्यन्ति॥३.६.१॥<br>
<br>
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति॥३.६.२॥<br>
<br>
स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव<br>
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव<br>
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.६.३॥<br>
<br>
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता<br>
वसूनामेव तावदाधिपत्यँस्वाराज्यं पर्येता ॥३.६.४॥<br>
<br>
॥इति षष्ठः खण्डः॥<br>
<br>
॥सप्तमः खण्डः॥<br>
<br>
अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण<br>
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं<br>
दृष्ट्वा तृप्यन्ति॥३.७.१॥<br>
<br>
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥३.७.२॥<br>
<br>
स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव<br>
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव<br>
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.७.३॥<br>
<br>
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता<br>
द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव<br>
तावदाधिपत्यँस्वाराज्यं पर्येता॥३.७.४॥<br>
<br>
॥इति सप्तमः खण्डः॥<br>
<br>
॥अष्टमः खण्डः॥<br>
<br>
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन<br>
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं<br>
दृष्ट्वा तृप्यन्ति ॥३.८.१॥<br>
<br>
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥३.८.२॥<br>
<br>
स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव<br>
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव<br>
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.८.३॥<br>
<br>
स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता<br>
द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव<br>
तावदाधिपत्यँस्वाराज्यं पर्येता ॥३.८.४॥<br>
<br>
॥इति अष्टमः खण्डः॥<br>
<br>
॥नवमः खण्डः॥<br>
<br>
अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन<br>
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं<br>
दृष्ट्वा तृप्यन्ति ॥३.९.१॥<br>
<br>
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥३.९.२॥<br>
<br>
स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव<br>
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव<br>
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.९.३॥<br>
<br>
स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता<br>
द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव<br>
तावदाधिपत्य्ँस्वाराज्यं पर्येता ॥३.९.४॥<br>
<br>
॥इति नवमः खण्डः॥<br>
<br>
॥दशमः खण्डः॥<br>
<br>
अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा<br>
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं<br>
दृष्ट्वा तृप्यन्ति ॥३.१०.१॥<br>
<br>
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥३.१०.२॥<br>
<br>
स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा<br>
ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव<br>
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३.१०.३॥<br>
<br>
स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता<br>
द्विस्तावदूर्ध्वं उदेतार्वागस्तमेता साध्यानामेव<br>
तावदाधिपत्यँस्वाराज्यं पर्येता ॥३.१०.४॥<br>
<br>
॥इति दशमः खण्डः॥<br>
<br>
॥एकादशः खण्डः॥<br>
<br>
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव<br>
मध्ये स्थाता तदेष श्लोकः ॥३.११.१॥<br>
<br>
न वै तत्र न निम्लोच नोदियाय कदाचन।<br>
देवास्तेनाहँसत्येन मा विराधिषि ब्रह्मणेति॥३.११.२॥<br>
<br>
न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै<br>
भवति य एतामेवं ब्रह्मोपनिषदं वेद॥३.११.३॥<br>
<br>
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे<br>
मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय<br>
पिता ब्रह्म प्रोवाच॥३.११.४॥<br>
<br>
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म<br>
प्रब्रूयात्प्रणाय्याय वान्तेवासिने॥३.११.५॥<br>
<br>
नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां<br>
धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव<br>
ततो भूय इति॥३.११.६॥<br>
<br>
॥इति एकादशः खण्डः॥<br>
<br>
॥द्वादशः खण्डः॥<br>
<br>
गायत्री वा ईदँ सर्वं भूतं यदिदं किं च वाग्वै गायत्री<br>
वाग्वा इदँ सर्वं भूतं गायति च त्रायते च॥३.१२.१॥<br>
<br>
या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याँ हीदँ<br>
सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते॥३.१२.२॥<br>
<br>
या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे<br>
शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव<br>
नातिशीयन्ते॥३.१२.३॥<br>
<br>
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः<br>
पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव<br>
नातिशीयन्ते॥३.१२.४॥<br>
<br>
सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम्<br>
॥३.१२.५॥<br>
<br>
तावानस्य महिमा ततो ज्यायाँश्च पूरुषः।<br>
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति॥३.१२.६॥<br>
<br>
यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा<br>
पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः॥३.१२.७॥<br>
<br>
अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः<br>
पुरुष आकाशः ॥३.१२.८॥<br>
<br>
अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति<br>
पूर्णमप्रवर्तिनीँश्रियं लभते य एवं वेद॥३.१२.९॥<br>
<br>
॥इति द्वादशः खण्डः॥<br>
<br>
॥त्रयोदशः खण्डः॥<br>
<br>
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः<br>
स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः<br>
स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत<br>
तेजस्व्यन्नादो भवति य एवं वेद॥३.१३.१॥<br>
<br>
अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रँ<br>
स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत<br>
श्रीमान्यशस्वी भवति य एवं वेद॥३.१३.२॥<br>
<br>
अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः<br>
सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत<br>
ब्रह्मवर्चस्यन्नादो भवति य एवं वेद॥३.१३.३॥<br>
<br>
अथ योऽस्योदङ्सुषिः स समानस्तन्मनः<br>
स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत<br>
कीर्तिमान्व्युष्टिमान्भवति य एवं वेद॥३.१३.४॥<br>
<br>
अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः<br>
स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी<br>
महस्वान्भवति य एवं वेद॥३.१३.५॥<br>
<br>
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य<br>
द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य<br>
लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते<br>
स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य<br>
लोकस्य द्वारपान्वेद॥३.१३.६॥<br>
<br>
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु<br>
सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव<br>
तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः॥३.१३.७॥<br>
<br>
तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे सँस्पर्शेनोष्णिमानं<br>
विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव<br>
नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च<br>
श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद<br>
य एवं वेद ॥३.१३.८॥<br>
<br>
॥इति त्रयोदशः खण्डः॥<br>
<br>
॥चतुर्दशः खण्डः॥<br>
<br>
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत।<br>
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके<br>
पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत<br>
॥३.१४.१॥<br>
<br>
मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प<br>
आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः<br>
सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥३.१४.२॥<br>
<br>
एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा<br>
सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष<br>
म आत्मान्तर्हृदये ज्यायान्पृथिव्या<br>
ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो<br>
लोकेभ्यः ॥३.१४.३॥<br>
<br>
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः<br>
सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय<br>
एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा<br>
न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः<br>
॥३.१४.४॥<br>
<br>
॥इति चतुर्दशः खण्डः॥<br>
<br>
॥पञ्चदशः खण्डः॥<br>
<br>
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो<br>
ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलँ स एष कोशो<br>
वसुधानस्तस्मिन्विश्वमिदँ श्रितम् ॥३.१५.१॥<br>
<br>
तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा<br>
राज्ञी नाम प्रतीची सुभूता नामोदीची तासां<br>
वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न<br>
पुत्ररोदँ रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं<br>
वेद मा पुत्ररोदँरुदम्॥३.१५.२॥<br>
<br>
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना<br>
प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना<br>
भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना<br>
॥३.१५.३॥<br>
<br>
स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदँ सर्वं<br>
भूतं यदिदं किंच तमेव तत्प्रापत्सि ॥३.१५.४॥<br>
<br>
अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं<br>
प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम्॥३.१५.५॥<br>
<br>
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं<br>
प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम्॥३.१५.६॥<br>
<br>
अथ यदवोचँस्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये<br>
सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम्॥३.१५.७॥<br>
<br>
॥इति पञ्चदशः खण्डः॥<br>
<br>
॥षोडशः खण्डः॥<br>
<br>
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विँशति वर्षाणि<br>
तत्प्रातःसवनं चतुर्विँशत्यक्षरा गायत्री गायत्रं<br>
प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव<br>
एते हीदँसर्वं वासयन्ति ॥३.१६.१॥<br>
<br>
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा<br>
वसव इदं मे प्रातःसवनं माध्यंदिनँसवनमनुसंतनुतेति<br>
माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव<br>
तत एत्यगदो ह भवति ॥३.१६.२॥<br>
<br>
अथ यानि चतुश्चत्वारिँशद्वर्षाणि तन्माध्यंदिनँ<br>
सवनं चतुश्चत्वारिँशदक्षरा त्रिष्टुप्त्रैष्टुभं<br>
माध्यंदिनँसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा<br>
वाव रुद्रा एते हीदँसर्वँरोदयन्ति ॥३.१६.३॥<br>
<br>
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा<br>
इदं मे माध्यंदिनँसवनं तृतीयसवनमनुसंतनुतेति<br>
माहं प्राणानाँरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव<br>
तत एत्यगदो ह भवति ॥३.१६.४॥<br>
<br>
अथ यान्यष्टाचत्वारिँशद्वर्षाणि<br>
तत्तृतीयसवनमष्टाचत्वारिँशदक्षरा<br>
जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः<br>
प्राणा वावादित्या एते हीदँसर्वमाददते ॥३.१६.५॥<br>
<br>
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा<br>
अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं<br>
प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव<br>
तत एत्यगदो हैव भवति ॥३.१६.६॥<br>
<br>
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः<br>
स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति<br>
स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं<br>
वर्षशतं जीवति य एवं वेद ॥३.१६.७॥<br>
<br>
॥इति षोडशः खण्डः॥<br>
<br>
॥सप्तदशः खण्डः॥<br>
<br>
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य<br>
दीक्षाः ॥३.१७.१॥<br>
<br>
अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥३.१७.२॥<br>
<br>
अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव<br>
तदेति ॥३.१७.३॥<br>
<br>
अथ यत्तपो दानमार्जवमहिँसा सत्यवचनमिति<br>
ता अस्य दक्षिणाः ॥३.१७.४॥<br>
<br>
तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य<br>
तन्मरणमेवावभृथः ॥३.१७.५॥<br>
<br>
तद्धैतद्घोर् आङ्गिरसः कृष्णाय<br>
देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव<br>
सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि<br>
प्राणसँशितमसीति तत्रैते द्वे ऋचौ भवतः ॥३.१७.६॥<br>
<br>
आदित्प्रत्नस्य रेतसः।<br>
उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरँस्वः<br>
पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म<br>
ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥३.१७.७॥<br>
<br>
॥इति सप्तदशः खण्डः॥<br>
<br>
॥अष्टादशः खण्डः॥<br>
<br>
मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो<br>
ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च<br>
॥३.१८.१॥<br>
<br>
तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः<br>
पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः<br>
पादो वायुः पादा अदित्यः पादो दिशः पाद<br>
इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च<br>
॥३.१८.२॥<br>
<br>
वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा<br>
भाति च तपति च भाति च तपति च कीर्त्या यशसा<br>
ब्रह्मवर्चसेन य एवं वेद ॥३.१८.३॥<br>
<br>
प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा<br>
भाति च तपति च् भाति च तपति च कीर्त्या यशसा<br>
ब्रह्मवर्चसेन य एवं वेद ॥३.१८.४॥<br>
<br>
चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा<br>
भाति च तपति च भाति च तपति च कीर्त्या यशसा<br>
ब्रह्मवर्चसेन य एवं वेद ॥३.१८.५॥<br>
<br>
श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा<br>
भाति च तपति च भाति च तपति च कीर्त्या यशसा<br>
ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥३.१८.६॥<br>
<br>
॥इति अष्टादशः खण्डः॥<br>
<br>
॥एकोनविंशः खण्डः॥<br>
<br>
आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र<br>
आसीत्। तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत<br>
तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले<br>
रजतं च सुवर्णं चाभवताम्॥३.१९.१॥<br>
<br>
तद्यद्रजतँ सेयं पृथिवी यत्सुवर्णँ सा द्यौर्यज्जरायु<br>
ते पर्वता यदुल्बँ समेघो नीहारो या धमनयस्ता<br>
नद्यो यद्वास्तेयमुदकँ स समुद्रः ॥३.१९.२॥<br>
<br>
अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा<br>
उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च<br>
कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा<br>
उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः<br>
॥३.१९.३॥<br>
<br>
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह<br>
यदेनँ साधवो घोषा आ च गच्छेयुरुप च<br>
निम्रेडेरन्निम्रेडेरन्॥३.१९.४॥<br>
<br>
॥इति एकोनविंशः खण्डः॥<br>
<br>
॥इति तृतीयोऽध्यायः॥<br>
==॥चतुर्थोऽध्यायः॥==
<br>
॥प्रथमः खण्डः॥<br>
<br>
जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस<br>
स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव<br>
मेऽन्नमत्स्यन्तीति॥४.१.१॥<br>
<br>
अथ हँसा निशायामतिपेतुस्तद्धैवँ हँ सोहँ समभ्युवाद<br>
हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य<br>
समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा<br>
मा प्रधाक्षीरिति॥४.१.२॥<br>
<br>
तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तँ सयुग्वानमिव<br>
रैक्वमात्थेति यो नु कथँ सयुग्वा रैक्व इति॥४.१.३॥<br>
<br>
यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँ सर्वं<br>
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद<br>
यत्स वेद स मयैतदुक्त इति॥४.१.४॥<br>
<br>
तदु ह जानश्रुतिः पौत्रायण उपशुश्राव<br>
स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव<br>
रैक्वमात्थेति यो नु कथँ सयुग्वा रैक्व इति॥४.१.५॥<br>
<br>
यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँ सर्वं<br>
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद<br>
यत्स वेद स मयैतदुक्त इति॥४.१.६॥<br>
<br>
स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तँ होवाच<br>
यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति॥४.१.७॥<br>
<br>
सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश<br>
तँ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व<br>
इत्यहँ ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति<br>
प्रत्येयाय॥४.१.८॥<br>
<br>
॥इति प्रथमः खण्डः॥<br>
<br>
॥द्वितीयः खण्डः॥<br>
<br>
तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां<br>
निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तँ हाभ्युवाद<br>
॥४.२.१॥<br>
<br>
रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु<br>
म एतां भगवो देवताँ शाधि यां देवतामुपास्स इति<br>
॥४.२.२॥<br>
<br>
तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह<br>
गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः<br>
सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय<br>
प्रतिचक्रमे॥४.२.३॥<br>
<br>
तँ हाभ्युवाद रैक्वेदँ सहस्रं गवामयं<br>
निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो<br>
यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति॥४.२.४॥<br>
<br>
तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव<br>
मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम<br>
महावृषेषु यत्रास्मा उवास स तस्मै होवाच॥४.२.५॥<br>
<br>
॥इति द्वितीयः खण्डः॥<br>
<br>
॥तृतीयः खण्डः॥<br>
<br>
वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति<br>
यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति<br>
वायुमेवाप्येति॥४.३.१॥<br>
<br>
यदाप उच्छुष्यन्ति वायुमेवापियन्ति<br>
वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम्॥४.३.२॥<br>
<br>
अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव<br>
वागप्येति प्राणं चक्षुः प्राणँ श्रोत्रं प्राणं मनः प्राणो<br>
ह्येवैतान्सर्वान्संवृङ्क्त इति॥४.३.३॥<br>
<br>
तौ वा एतौ द्वौ सम्वर्गौ वायुरेव देवेषु प्राणः प्राणेषु<br>
॥४.३.४॥<br>
<br>
अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं<br>
परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः<br>
॥४.३.५॥<br>
<br>
स होवाच महात्मनश्चतुरो देव एकः कः स जगार<br>
भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या<br>
अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा<br>
एतन्न दत्तमिति॥४.३.६॥<br>
<br>
तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां<br>
जनिता प्रजानाँ हिरण्यदँष्ट्रो बभसोऽनसूरिर्महान्तमस्य<br>
महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं<br>
ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति॥४.३.७॥<br>
<br>
तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश<br>
सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतँ सैषा<br>
विराडन्नादी तयेदँ सर्वं दृष्टँ सर्वमस्येदं दृष्टं<br>
भवत्यन्नादो भवति य एवं वेद य एवं वेद॥४.३.८॥<br>
<br>
॥इति तृतीयः खण्डः॥<br>
<br>
॥चतुर्थः खण्डः॥<br>
<br>
सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे<br>
ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति<br>
॥४.४.१॥<br>
<br>
सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि<br>
बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे<br>
साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि<br>
सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो<br>
ब्रवीथा इति॥४.४.२॥<br>
<br>
स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति<br>
वत्स्याम्युपेयां भगवन्तमिति॥४.४.३॥<br>
<br>
तँ होवाच किंगोत्रो नु सोम्यासीति स होवाच<br>
नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरँ<br>
सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने<br>
त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु<br>
नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहँ<br>
सत्यकामो जाबालोऽस्मि भो इति॥४.४.४॥<br>
<br>
तँ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधँ<br>
सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय<br>
कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः<br>
सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच<br>
नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा<br>
सहस्रँ संपेदुः॥४.४.५॥<br>
<br>
॥इति चतुर्थः खण्डः॥<br>
<br>
॥पञ्चमः खण्डः॥<br>
<br>
अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति<br>
भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रँ स्मः<br>
प्रापय न आचार्यकुलम्॥४.५.१॥<br>
<br>
ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति<br>
तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला<br>
दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः<br>
पादो ब्रह्मणः प्रकाशवान्नाम॥४.५.२॥<br>
<br>
स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणः<br>
प्रकाशवानित्युपास्ते प्रकाशवानस्मिँल्लोके भवति<br>
प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं<br>
पादं ब्रह्मणः प्रकाशवानित्युपास्ते॥४.५.३॥<br>
<br>
॥इति पञ्चमः खण्डः॥<br>
<br>
॥षष्ठः खण्डः॥<br>
<br>
अग्निष्टे पादं वक्तेति स ह श्वोभूते ग<br>
आभिप्रस्थापयांचकार ता यत्राभि सायं<br>
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय<br>
पश्चादग्नेः प्राङुपोपविवेश ॥४.६.१॥<br>
<br>
तमग्निरभ्युवाद सत्यकाम३ इति भगव इति<br>
ह प्रतिशुश्राव ॥४.६.२॥<br>
<br>
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति<br>
तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला<br>
समुद्रः कलैष वै सोम्य चतुष्कलः पादो<br>
ब्रह्मणोऽनन्तवान्नाम ॥४.६.३॥<br>
<br>
स य एतमेवं विद्वाँश्चतुष्कलं पादं<br>
ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिँल्लोके<br>
भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं<br>
पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥४.६.४॥<br>
<br>
॥इति षष्ठः खण्डः॥<br>
<br>
॥सप्तमः खण्डः॥<br>
<br>
हँसस्ते पादं वक्तेति स ह श्वोभूते गा<br>
अभिप्रस्थापयांचकार ता यत्राभि सायं<br>
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय<br>
पश्चादग्नेः प्राङुपोपविवेश॥४.७.१॥<br>
<br>
तँहँस उपनिपत्याभ्युवाद सत्यकाम३ इति भगव<br>
इति ह प्रतिशुश्राव॥४.७.२॥<br>
<br>
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति<br>
तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला<br>
विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो<br>
ज्योतिष्मान्नाम॥४.७.३॥<br>
<br>
स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणो<br>
ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिँल्लोके भवति<br>
ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं<br>
पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते॥४.७.४॥<br>
<br>
॥इति सप्तमः खण्डः॥<br>
<br>
॥अष्टमः खण्डः॥<br>
<br>
मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार<br>
ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा<br>
उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश॥४.८.१॥<br>
<br>
तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति<br>
ह प्रतिशुश्राव॥४.८.२॥<br>
<br>
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति<br>
तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः<br>
कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम<br>
॥४.८.३॥<br>
<br>
स यै एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मण<br>
आयतनवानित्युपास्त आयतनवानस्मिँल्लोके<br>
भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं<br>
विद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते<br>
॥४.८.४॥<br>
<br>
॥इति अष्टमः खण्डः॥<br>
<br>
॥नवमः खण्डः॥<br>
<br>
प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति<br>
भगव इति ह प्रतिशुश्राव॥४.९.१॥<br>
<br>
ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये<br>
मनुष्येभ्य इति ह प्रतिजज्ञे भगवाँस्त्वेव मे कामे ब्रूयात्<br>
॥४.९.२॥<br>
<br>
श्रुतँह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता<br>
साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन<br>
वीयायेति वीयायेति॥४.९.३॥<br>
<br>
॥इति नवमः खण्डः॥<br>
<br>
॥दशमः खण्डः॥<br>
<br>
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले<br>
ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार<br>
स ह स्मान्यानन्तेवासिनः समावर्तयँस्तं ह स्मैव न<br>
समावर्तयति॥४.१०.१॥<br>
<br>
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा<br>
त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव<br>
प्रवासांचक्रे॥४.१०.२॥<br>
<br>
स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच<br>
ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच<br>
बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधीभिः<br>
प्रतिपूर्णोऽस्मि नाशिष्यामीति॥४.१०.३॥<br>
<br>
अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः<br>
पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म<br>
कं ब्रह्म खं ब्रह्मेति॥४.१०.४॥<br>
<br>
स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न<br>
विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव<br>
कमिति प्राणं च हास्मै तदाकाशं चोचुः॥४.१०.५॥<br>
<br>
॥इति दशमः खण्डः॥<br>
<br>
॥एकादशः खण्डः॥<br>
<br>
अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य<br>
इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स<br>
एवाहमस्मीति॥४.११.१॥<br>
<br>
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति<br>
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप<br>
वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं<br>
विद्वानुपास्ते॥४.११.२॥<br>
<br>
॥इति एकादशः खण्डः॥<br>
<br>
॥द्वादशः खण्डः॥<br>
<br>
अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि<br>
चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि<br>
स एवाहमस्मीति॥४.१२.१॥<br>
<br>
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति<br>
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप<br>
वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं<br>
विद्वानुपास्ते॥४.१२.२॥<br>
<br>
॥इति द्वादशः खण्डः॥<br>
<br>
॥त्रयोदशः खण्डः॥<br>
<br>
अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति<br>
य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स<br>
एवाहमस्मीति॥४.१३.१॥<br>
<br>
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति<br>
सर्वमयुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप<br>
वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं<br>
विद्वानुपास्ते॥४.१३.२॥<br>
<br>
॥इति त्रयोदशः खण्डः॥<br>
<br>
॥चतुर्दशः खण्डः॥<br>
<br>
ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या<br>
चाचार्यस्तु ते गतिं वक्तेत्याजगाम<br>
हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति<br>
॥४.१४.१॥<br>
<br>
भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति<br>
को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव<br>
निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे<br>
किं नु सोम्य किल तेऽवोचन्निति॥४.१४.२॥<br>
<br>
इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं<br>
तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त<br>
एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे<br>
भगवानिति तस्मै होवाच॥४.१४.३॥<br>
<br>
॥इति चतुर्दशः खण्डः॥<br>
<br>
॥पञ्जदशः खण्डः॥<br>
<br>
य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति<br>
होवाचैतदमृतमभयमेतद्ब्रह्मेति<br>
तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव<br>
गच्छति॥४.१५.१॥<br>
<br>
एतँ संयद्वाम इत्याचक्षत एतँ हि सर्वाणि<br>
वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति<br>
य एवं वेद॥४.१५.२॥<br>
<br>
एष उ एव वामनीरेष हि सर्वाणि वामानि नयति<br>
सर्वाणि वामानि नयति य एवं वेद॥४.१५.३॥<br>
<br>
एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति<br>
सर्वेषु लोकेषु भाति य एवं वेद॥४.१५.४॥<br>
<br>
अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च<br>
नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न<br>
आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति<br>
मासाँस्तान्मासेभ्यः संवत्सरँ<br>
संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं<br>
तत् पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो<br>
ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते<br>
नावर्तन्ते॥४.१५.५॥<br>
<br>
॥इति पञ्चदशः खण्डः॥<br>
<br>
॥षोडशः खण्डः॥<br>
<br>
एष ह वै यज्ञो योऽयं पवते एष ह यन्निदँ सर्वं पुनाति<br>
यदेष यन्निदँ सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य<br>
मनश्च वाक्च वर्तनी॥४.१६.१॥<br>
<br>
तयोरन्यतरां मनसा सँस्करोति ब्रह्मा वाचा<br>
होताध्वर्युरुद्गातान्यतराँस यत्रौपाकृते प्रातरनुवाके<br>
पुरा परिधानीयाया ब्रह्मा व्यवदति॥४.१६.२॥<br>
<br>
अन्यतरामेव वर्तनीँ सँस्करोति हीयतेऽन्यतरा<br>
स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो<br>
रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञँ रिष्यन्तं<br>
यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति॥४.१६.३॥<br>
<br>
अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा<br>
व्यवदत्युभे एव वर्तनी सँस्कुर्वन्ति न हीयतेऽन्यतरा<br>
॥४.१६.४॥<br>
<br>
स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः<br>
प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं<br>
यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति॥४.१६.५॥<br>
<br>
॥इति षोडशः खण्डः॥<br>
<br>
॥सप्तदशः खण्डः॥<br>
<br>
प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाँ<br>
रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः<br>
॥४.१७.१॥<br>
<br>
स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाँ<br>
रसान्प्रावृहदग्नेरृचो वायोर्यजूँषि सामान्यादित्यात्<br>
॥४.१७.२॥<br>
<br>
स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया<br>
रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति<br>
सामभ्यः॥४.१७.३॥<br>
<br>
तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव<br>
तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टँ संदधाति<br>
॥४.१७.४॥<br>
<br>
स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ<br>
जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य<br>
विरिष्टँ संदधाति॥४.१७.५॥<br>
<br>
अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये<br>
जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य<br>
विरिष्टं संदधाति॥४.१७.६॥<br>
<br>
तद्यथा लवणेन सुवर्णँ संदध्यात्सुवर्णेन रजतँ<br>
रजतेन त्रपु त्रपुणा सीसँ सीसेन लोहं लोहेन दारु<br>
दारु चर्मणा॥४.१७.७॥<br>
<br>
एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया<br>
वीर्येण यज्ञस्य विरिष्टँ संदधाति भेषजकृतो ह वा<br>
एष यज्ञो यत्रैवंविद्ब्रह्मा भवति॥४.१७.८॥<br>
<br>
एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदँ<br>
ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते<br>
तत्तद्गच्छति॥४.१७.९॥<br>
<br>
मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध<br>
वै ब्रह्मा यज्ञं यजमानँ सर्वाँश्चर्त्विजोऽभिरक्षति<br>
तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम्<br>
॥४.१७.१०॥<br>
<br>
॥इति चतुर्थोऽध्यायः॥<br>
==संबंधित कड़ियाँ==
#[[उपनिषद्]]
बेनामी उपयोगकर्ता
"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/13123" इत्यस्माद् प्रतिप्राप्तम्