"आश्वलायन श्रौतसूत्रम्/अध्यायः १२" इत्यस्य संस्करणे भेदः

><span style="font-size: 14pt; line-height: 200%">गवामयनेनादित्यानामयनं व्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
><span style="font-size: 14pt; line-height: 200%">गवामयनेनादित्यानामयनं व्याख्यातं १ सर्वे त्वभिप्लवास्त्रिवृत्पञ्चदशाः २ मासाश्च पृष्ठ्यमध्यमा नव । षष्ठसप्तमोत्तमान् वर्जयित्वा ३ बृहस्पति-सवेन्द्र स्तुतौ चाभिजिद्विश्वजितोः स्थाने ४ सप्तमस्य च मासस्योत्तमयो-रभिप्लवयोःमासस्योत्तमयोरभिप्लवयोः स्थाने त्रिवृद्व्यल्हो दशरात्र उद्भिद्बलभिदौ च ५ उत्तमस्य च मासस्यादौ येऽभिप्लवास्त्रय उद्धृत्य तेषां मध्यममथ स्युः पृष्ठ्यमध्यमाः ६ समूढो दशरात्रः ७ १ 12.1
 
आदित्यानामयनेनाङ्गिरसामयनं व्याख्यातं १ त्रिवृतस्त्वभिप्लवाः सर्वे २ पृष्ठ्यादयश्चाद्या मासाः पञ्च पूर्वस्य पक्षसः ३ चत्वारस्तूत्तरस्य पृष्ठ्यान्ता अष्टमादयः ४ उत्तमस्य च मासस्यादौ ये षडहास्त्रयः पृष्ठ्यान्ता एवं तेऽपि स्युः ५ पूर्वौ स्यातामभिप्लवौ ६ २ 12.2
पङ्क्तिः ४९:
 
</span>
 
श्रौतसूत्रपरिशिष्टभागः
भृगूणां न विवाहोऽस्ति चतुर्णामादितो मिथः
श्यैतादयस्त्रयस्तेषां विवाहो मिथ इष्यते
षण्णां वै गौतमादीनां विवाहो नेष्यते मिथः
दीर्घतमा औचथ्यः कक्षीवांश्चैकगोत्रजाः
भरद्वाजाग्निवेश्यर्क्षाः शुङ्गाः शैशिरयः कताः
एते समानगोत्राः स्युर्गर्गानेके वदन्ति वै
पृषदश्वा मुद्गला विष्णुवृद्वाः
कण्वोऽगस्त्यो हरितः सङ्कृतिः कपिः
यस्कश्चैषां मिथ इष्टो विवाहः
सर्वैरन्यैर्जामदग्नादिभिश्च
यावत् समानगोत्राः स्युर्विश्वामित्रोऽनवर्त्तते
तावद्वसिष्ठश्चात्रिश्च कश्यपश्च पृथक् पृथक्
द्व्यार्षेयाणां त्र्! यार्षेयसन्निपाते अविवाहः
त्र्यार्षेयाणां पञ्चार्षेयसन्निपाते अविवाहः
विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गोतमः
अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः
सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्याचक्षते
एक एव ऋषिर्यावत् प्रवरेष्वनुवर्त्तते
तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गिरसाङ्गणादित्यसमानप्रवरैर्विवाहो विवाहः