"हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः २२" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ६:
| previous = [[../अध्यायः २१|अध्यायः २१]]
| next = [[../अध्यायः २३|अध्यायः २३]]
| notes = पितृकल्पः, शुचिवाक् पक्षिणा का स्वतन्त्रादिभ्यः पक्षित्रयेभ्यः शापदानम्, सुमनया पक्षिणा अनुग्रहपूर्वकं तेषां शापनिर्मोककरणम्
| notes =
 
}}
द्वाविंशोऽध्यायः
 
<poem><span style="font-size: 14pt; line-height:200%">मार्कण्डेय उवाच
ततस्तं चक्रवाकौ द्वावूचतुः सहचारिणौ ।
आवां ते सचिवौ स्यावस्तव प्रियहितैषिणौ ।। १ ।।
तथेत्युक्त्वा च तस्यासीत्तदा योगात्मिका मतिः ।
एवं ते समयं चक्रुः शुचिवाक् तमुवाच ह ।। २ ।।
यस्मात् कामप्रधानस्त्वं योगधर्ममपास्य वै ।
एवं वरं प्रार्थयसे तस्माद् वाक्यं निबोध मे ।। ३ ।।
राजा त्वं भविता तात काम्पिल्ये नात्र संशयः ।
भविष्यतः सखायौ च द्वाविमौ सचिवौ तव ।। ४ ।।
शप्त्वा चानभिभाष्यांस्तांश्चत्वारश्चक्रुरण्डजाः ।
तांस्त्रीनभीप्सतो राज्यं व्यभिचारप्रदर्शितान् ।। ५ ।।
शप्ताः खगास्त्रयस्ते तु योगभ्रष्टा विचेतसः ।
तानयाचन्त चतुरस्त्रयस्ते सहचारिणः ।। ६ ।।
तेषां प्रसादं ते चक्रुरथैतान्सुमनाऽब्रवीत् ।
सर्वेषामेव वचनात्प्रसादानुगतं वचः ।। ७ ।।
अन्तवान् भविता शापो युष्माकं नात्र संशयः ।
इतश्च्युताश्च मानुष्यं प्राप्य योगमवाप्स्यथ ।। ८ ।।
सर्वसत्त्वरुतज्ञश्च स्वतन्त्रोऽयं भविष्यति ।
पितृप्रसादो ह्यस्माभिरस्य प्राप्तः कृतेन वै ।। ९ ।।
गां प्रोक्षयित्वा धर्मेण पितृभ्य उपकल्प्यताम् ।
अस्माकं ज्ञानसंयोगः सर्वेषां योगसाधनः ।। 1.22.१० ।।
इमं च वाक्यसंदर्भश्लोकमेकमुदाहृतम् ।
पुरुषान्तरितं श्रुत्वा ततो योगमवाप्स्यथ।। ११ ।।
 
इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे द्वाविंशोऽध्यायः । । २२ । ।
 
<poem><span style="font-size: 14pt; line-height:200%">
</span></poem>