"ऋग्वेदः सूक्तं १०.८३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
== ==
[https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%ae%e0%a4%a5-%e0%a4%ae%e0%a4%af/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%af%e0%a5%81/ मन्योरुपरि टिप्पणी]
 
{{भाष्यम्|सायणभाष्यम्॥
 
१. हे मन्यो क्रोधाभिमानिन् देव । मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा ( निरु. १०.२९) इति निरुक्तम् । यः यजमानः ते तुभ्यम् अविधत् परिचरति हे वज्र वज्रवत्सारभूत -सायक सायकवच्छत्रूणां हिंसक स मनुप्यः सहः बलं बाह्यम् ओजः शारीरं बलं च आनुषक् अनुषक्तं पुष्यति त्वदनुग्रहात्संग्रामे । यस्मादेवं तस्माद्वयं दासम् उपक्षयकर्तारम् आर्यम् अस्मत्तोऽधिकं चोभयविधं शत्रुं साह्याम अभिभवेम । केन साधनेनेति तदुच्यते । त्वया युजा त्वया सहायेन । सहायो विशेष्यते । सहस्कृतेन बलोत्पादितेन सहसा सहमानेन परान् सहस्वता बलवता । ईदृशेन त्वया सहायेनेत्यर्थः ।।
 
२. अथ मन्युरिन्द्रः मन्युरेव देवः सर्वोऽपि मन्युरेव आस अभवत् । मन्युः एव होता होमनिष्पादकोऽग्निः । तथा मन्युः वरुणः अपि जातवेदाः जातप्रज्ञो वरुणश्च । सर्वेष्वपि तेजस्विषु मन्युसद्भावात्। याः मानुषी मनुषोऽपत्यभूताः विशः प्रजाः सन्ति ताः मन्युं एव देवम् ईळते स्तुवन्ति । हे मन्यो तपसा एतन्नामकेनास्मत्पित्रा सजोषाः समानप्रीतिस्त्वं पाहि रक्ष ।।
 
३. हे मन्यो त्वम् अभीहि अभिगच्छास्मद्यज्ञम् । कीदृशस्त्वम् । तवसः बलवतोऽपि तवीयान् अत्यन्तं बलवान् । स त्वं तपसा अस्मत्पित्रा युजा सहायेन शत्रून् वि जहि । किंच अमित्रहा अमित्राणां हन्ता । अमित्रोऽस्निग्धः । तथा वृत्रहा आवरकाणां शत्रूणां हन्ता तथा दस्युहा च । दस्युरुपक्षपणकारी शत्रुः । तादृश मन्युदेव त्वं विश्वा सर्वाणि वसूनि धनानि नः अस्मभ्यम् आ भर आहर ।।
 
४. हे मन्यो एवम् अभिभूत्योजाः परेषामभिभावुकबलः स्वयम्भूः स्वयमेवोत्पन्नः भामः क्रुद्धः अभिमातिषाहः । अभितो हिंसन्तीत्यभिमातयः शत्रवः । तेषामभिभविता । विश्वचर्षणिः सर्वेषां द्रष्टा सहुरिः सहनशीलः सहावान् सहनवान् ईदृशस्त्वम् अस्मासु पृतनासु संग्रामेषु ओजः बलं धेहि देहि ।।
 
५. हे प्रचेतः प्रकृष्टज्ञान मन्यो तविषस्य महतः तव क्रत्वा कर्मणा अभागः भागरहितः सन् । त्वां यज्ञेऽयाजकः सन्नित्यर्थः । त्वदनुकूलरहितोऽहम् अप परेतोऽस्मि युद्धे शत्रुभिरभिभूतः सन् दूरं गतोऽस्मि । तं तादृशं भागरहितं त्वा त्वां हे मन्यो अक्रतुः कर्मरहितः अहं जिहीळ क्रुद्धं कृतवानित्यर्थः । यद्वा अहमेव त्वत्सहायमेव क्रोधितवान् । अथेदानीं स्वा तनूः मम शरीरभूतस्त्वं बलदेयाय बलदानाय मेहि मां प्राप्नुहि ।।
 
६. हे सहुरे शत्रूणां सहनशील विश्वधायः विश्वस्य धर्तर्मन्यो अयं जनोऽहं ते तव अस्मि कर्मकृत् । यत एवमतः प्रतीचीनः प्रतिगन्ता अर्वाङ् अस्मदभिमुखं मा मां उप इहि उपागच्छ । हे मन्यो वज्रिन् माम् अभि आ ववृत्स्व अभ्यावर्तस्व । किमर्थमभ्यागमनमिति चेदुच्यते । हनाव आवां दस्यून् शत्रून् । उत अपि च आपेः बन्धुं बोधि बुध्यस्व ।।
 
७. हे मन्यो अभि प्रेहि अभिगच्छ । मम युद्धं गत्वा च मे मम दक्षिणतो भव । अध अथ आवां वृत्राणि शत्रून् भूरि प्रभूतं जङ्घनाव हनाव । ते तुभ्यम् अग्रं श्रेष्ठं मध्वः मधु सोमरसं जुहोमि । उभौ त्वं चाहं च उपांशु अप्रकाशं प्रथमा प्रथमौ सन्तौ पिबाव ।।
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८३" इत्यस्माद् प्रतिप्राप्तम्