"ऋग्वेदः सूक्तं १.१०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४६:
</pre>
</div>
 
== ==
{{भाष्यम्|सायणभाष्यम्॥
२. यः इन्द्र जहृषाणेन प्रवृद्धेन मन्युना क्रोधेन व्यंसं विगतभुजं वृत्रम् अहन् अवधीत् ।
अपि च यः इन्द्रः शम्बरम् एतत्संज्ञमसुरं चावधीत् । तथा अव्रतं व्रतस्य यागादेः कर्मणो
विरोधिनं पिप्रुम् एतत्संज्ञमसुरं च यः इन्द्रोऽवधीत् । किंच यः इन्द्रः अशुषं शोषकरहितं शुष्णं
सर्वस्य जगतः शोषकमेतत्संज्ञमसुरं नि अवृणक् न्यवर्जयत् । समूलं हतवानित्यर्थः । तं मरुत्वन्तम्
इन्द्रं सख्याय आह्वयामहे । । व्यंसम् । विगतः अंसो यस्मात् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणः
उदात्तस्वरितयोर्यणः इति परस्यानुदात्तस्य स्वरितत्वम् । जहृषाणेन । हृष तुष्टौ । अत्र वृद्ध्यर्थः ।
छन्दसि लिट्, लिटः कानज्वा इति तस्य कानजादेशः । अन्येषामपि दृश्यते इति संहिताया-
मभ्यासस्य दीर्घत्वम् । चित्त्वादन्तोदात्तत्वम् । अशुषम् । शुष शोषणे । इगुपधलक्षणः कः ।
शुषाः शोषका न सन्त्यस्येति अशुषः । परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम् । अवृणक् ।
वृजी वर्जने । रौधादिकः ।।
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०१" इत्यस्माद् प्रतिप्राप्तम्