"ऋग्वेदः सूक्तं १०.६१" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १०.६१ पृष्ठं ऋग्वेदः सूक्तं १०.६१ प्रति स्थान...
No edit summary
पङ्क्तिः ११४:
|}
</poem>
{{ऋग्वेदः मण्डल १०}}
 
==सायणभाष्यम् ==
पञ्चमेऽनुवाकेऽष्टौ सूक्तानि । तत्र ' इदमित्था ' इति सप्तविंशत्यृचं प्रथमं सूक्तं मानवस्य नाभानेदिष्ठस्यार्षं त्रैष्टुभम् । इदमादीनि षट् सूक्तानि वैश्वदेवानि । तथा चानुक्रान्तम्--' इदमित्था सप्ताधिका नाभानेदिष्ठो मानवो वैश्वदेवं तत् ' इति । पृष्ठ्यस्य षष्ठेऽहनि वैश्वदेवशस्त्र आभिप्लविकातिदेशप्राप्तस्य उषासानक्ता इत्यस्य स्थाने इदं सूक्तम् । सूत्रितं च-'उद्धृत्य' चोत्तमं सूक्तं त्रीणीदमित्था रौद्रमिति ' ( आ. श्रौ. ८.१) इति । अत्रैतरेयब्राह्मणं-' नाभानेदिष्ठं वै मानवं ब्रह्मचर्यं वसन्तं भ्रातरो निरभजन्त्सोऽब्रवीदेत्य किं मह्यमभाक्तेत्येतमेव निष्ठावमववदितारमित्यब्रुवन् ' ( ऐ. ब्रा. ५.१४) इत्यादि । तत्र नाभानेदिष्ठो भ्रातृभिर्भागे निराकृतः पितृसामीप्यमागत्य किं मह्यं भागं च कल्पितवानसीत्यपृच्छत् । स च किमनेन भागेन । अङ्गिरसः स्वर्गार्थं सत्रमासीनाः षष्ठाहःपर्यन्तमनुष्ठाय मुह्यन्ति । तान् ' इदमित्था ' इति सूक्ते शंसय ते स्वर्गं यन्तो वसिष्ठा गाः सहस्रसंख्याकान्
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६१" इत्यस्माद् प्रतिप्राप्तम्