"रामायणम्/अरण्यकाण्डम्/सर्गः ७५" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
{{Ramayana|अरण्यकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥३-७५॥'''
<div class="verse">
<pre>
दिवम् तु तस्याम् यातायाम् शबर्याम् स्वेन तेजसा ।
लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥३-७५-१॥
चिंतयित्वा तु धर्मात्मा प्रभावम् तम् महात्मनाम् ।
हित कारिणम् एक अग्रम् लक्ष्मणम् राघवो अब्रवीत् ॥३-७५-२॥
दृष्टो मया आश्रमः सौम्य बहु आश्चर्यः कृत
आत्मनाम् ।
विश्वस्त मृग शार्दूलो नाना विहग सेवितः ॥३-७५-३॥
सप्तानाम् च समुद्राणाम् तेषाम् तीर्थेषु लक्ष्मण ।
उपस्पृष्टम् च विधिवत् पितरः च अपि तर्पिताः ॥३-७५-४॥
प्रणष्टम् अशुभम् यत् नः कल्याणम् समुपस्थितम् ।
तेन तु एतत् प्रहृष्टम् मे मनो लक्ष्मण संप्रति ॥३-७५-५॥
हृदये हि नर व्याघ्र शुभम् आविर्भविष्यति ।
तत् आगच्छ गमिष्यावः पंपाम् ताम् प्रिय दर्शनाम् ॥३-७५-६॥
ऋष्यमूको गिरिः यत्र न अति दूरे प्रकाशते ।
यस्मिन् वसति धर्मात्मा सुग्रीवो अंशुमतः सुतः ॥३-७५-७॥
नित्यम् वालि भयात् त्रस्तः चतुर्भिः सह वानरैः ।
अहम् त्वरे च तम् द्रष्टुम् सुग्रीवम् वानरर्षभम् ॥३-७५-८॥
तत् अधीनम् हि मे कार्यम् सीतायाः परिमार्गणम् ।
इति ब्रुवाणम् तम् वीरम् सौमित्रिः इदम् अब्रवीत् ॥३-७५-९॥
गच्छावः त्वरितम् तत्र मम अपि त्वरते मनः ।
आश्रमात् तु ततः तस्मात् निष्क्रम्य स विशाम् पतिः ॥३-७५-१०॥
आजगाम ततः पंपाम् लक्ष्मणेन सहप्रभुः ।
समीक्षमाणः पुष्प आढ्यम् सर्वतो विपुल द्रुमम् ॥३-७५-११॥
कोयष्टिभिः च अर्जुनकैः शत पत्रैः च कीरकैः ।
एतैः च अन्यैः च बहुभिः नादितम् तत् वनम् महत् ॥३-७५-१२॥
स रामो विविधान् वृक्षान् सरांसि विविधानि च ।
पश्यन् काम अभिसंतप्तो जगाम परमम् ह्रदम् ॥३-७५-१३॥
स ताम् आसाद्य वै रामो दूरात् पानीय वाहिनीम् ।
मतंग सरसम् नाम ह्रदम् समवगाहत ॥३-७५-१४॥
तत्र जग्मतुः अव्यग्रौ राघवौ हि समाहितौ ।
स तु शोक समाविष्टो रामो दशरथात्मजः ॥३-७५-१५॥
विवेश नलिनीम् रम्याम् पंकजैः च समावृताम् ।
तिलकाशोकपुंनागबकुलोद्दालकाशिनीम् - यद्वा -
तिलक अशोक पुन्नाग बकुल उद्दाल काशिनीम् ॥३-७५-१६॥
रम्य उपवन संबाधाम् पद्म संपीडित उदकाम् ।
स्फटिक उपम तोय आढ्याम् श्लक्ष्ण वालुक संतताम् ॥३-७५-१७॥
सखीभिः इव संयुक्ताम् लताभिः अनुवेष्टिताम् ॥३-७५-१८॥
किंनरोरगगन्धर्वयक्षराक्षससेविताम् -यद्वा - ।
किन्नर उरग गन्धर्व यक्ष राक्षस सेविताम् ।
नाना द्रुम लता आकीर्णाम् शीत वारि निधिम् शुभाम् ॥३-७५-१९॥
पद्म सौगन्धिकैः ताम्राम् शुक्लाम् कुमुद मण्डलैः ।
नीलाम् कुवलय उद् घाटैः बहु वर्णाम् कुथाम् इव ॥३-७५-२०॥
अरविन्द उत्पलवतीम् पद्म सौगन्धिक आयुताम् ।
पुष्पित आम्र वणोपेताम् बर्हिण उद् घुष्ट नादिताम् ॥३-७५-२१॥
स ताम् दृष्ट्वा ततः पंपाम् रामः सौमित्रिणा सह ।
विललाप च तेजस्वी कामात् दशरथात्मजः ॥३-७५-२२॥
तिलकैः बीज पूरैः च वटैः शुक्ल द्रुमैः तथा ।
पुष्पितैः करवीरैः च पुन्नागैः च सु पुष्पितैः ॥३-७५-२३॥
मालती कुंद गुल्मैः च भण्डीरैः निचुलैः तथा ।
अशोकैः सप्त पर्णैः च केतकैः अतिमुक्तकैः ॥३-७५-२४॥
अन्यैः च विविधैः वृक्षैः प्रमदा इव उपशोभिताम् ।
अस्याः तीरे तु पूर्व उक्तः पर्वतो धातु मण्डितः ॥३-७५-२५॥
ऋश्यमूक इति ख्यातः चित्र पुष्पित पादपः ।
हरेः ऋक्षरजो नाम्नः पुत्रः तस्य महात्मनः ॥३-७५-२६॥
अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः ।
सुग्रीवम् अभिगच्छ त्वम् वानरेन्द्रम् नरर्षभ ॥३-७५-२७॥
इति उवाच पुनः वाक्यम् लक्ष्मणम् सत्य विक्रमम् ।
कथम् मया विना सीताम् शक्यम् लक्ष्मण जीवितुम् ॥३-७५-२८॥
इति एवम् उक्त्वा मदन अभिपीडितः
स लक्ष्मणम् वाक्यम् अनन्य चेतनः ।
विवेश पंपाम् नलिनी मनो रमाम्
तम् उत्तमम् शोकम् उदीरयाणः ॥३-७५-२९॥
क्रमेण गत्वा प्रविलोकयन् वनम्
ददर्श पंपाम् शुभ दर्श काननाम् ।
अनेक नाना विध पक्षि संकुलाम्
विवेश रामः सह लक्ष्मणेन ॥३-७५-३०॥
</pre>
</div>
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥३-७५॥'''
|