"ऋग्वेदः सूक्तं १०.९६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७६:
 
{{भाष्यम्|सायणभाष्यम्॥
प्र ते मह इति त्रयोदशर्चं षष्ठं सूक्तं वरुर्नामांगिरसऋषिः इन्द्रस्य पुत्रः सर्वहरिर्वा नाम द्वा- दशीत्रयोदश्यौद्वादशीत्रयोदश्यौ त्रिष्टुभौ शिष्टा एकादश जगत्यः इन्द्रस्याश्वौ हरी तयोरत्र स्तूयमानत्वात्तद्देव- ताकमिदं तथा चानुक्रान्तं - प्र ते सप्तोना वरुः सर्वहरिर्वेन्द्रो हरिस्तुतिर्द्वित्रिष्टुबन्तं । अतिरात्रे तृतीये पर्याये ब्राह्मणाच्छंसिन एतत्सूक्तं सूत्रितं च – प्र ते मह ऊती शचीवस्तव वीर्येणेति याज्येति । षोडशिशस्त्रेप्याद्यस्तृचः शंसनीयः । सूत्रितं च- प्र ते महे विदथे शंसिषं हरी इति तिसो जगत्य इति ।
 
१ हे इन्द्र ते तव हरी अश्वौ महे महति विदथे यज्ञे प्रशंसिषं अशंसिषं अस्ताविषं । तथा वनुषः वनु हिंसायां हिंसकस्य ते तव हर्यतं हर्य गतिकान्त्योः तस्यौणादिकः अतच् चित्स्वरेणा- न्तोदात्तःचित्स्वरेणान्तोदात्तः कमनीयं मदं प्रवन्वे प्रयाचे अस्मदभिमतं । वनु याचने य इन्द्रो हरिभिः हरितवर्णैः अश्वैर्मद्यागं गत्वा चारु चरणीयं घृतं न घृतमिव सुपूतं उदकं सेचते वर्षति तं तादृशं हरिव- र्पसंहरिवर्पसं वर्प इति रूपनाम हरितरूपं त्वा त्वां आविशन्तु गिरोस्मदीयाः स्तुतिवाचस्तव मदाय।। १
२ ये पूर्वे स्तोतारऋषयोयोनिं इन्द्रस्य स्थानभूतं हरिं अश्वं अभिसमस्वरन् स्वृशब्दोपता- पयोः अधिसंस्तुवन्ति किं कुर्वन्तः दिव्यं देवसंबन्धि सदोयागगृहं यथा प्रेरयन्तीन्द्रं तथा हरी अश्वौ हिन्वन्तः प्रेरयन्तः सोमेभिषुते सति स्वयमेवेन्द्रो रथेश्वौ प्रेरयति अतः स्तोतॄणां हरि- प्रेरणत्वं । यद्वा दिव्यं सदः इन्द्रः प्राप्नुयात्तथा हरिं रथाय स्तुतिभिर्हिन्वन्तः प्रेरयन्तः यमिन्द्रं धेनवः नवप्रसूतागावो यथा पृणन्ति क्षीरादिभिः । अत्र पुरस्तादुपचारोपि नकारउपमार्थीयः । हरिभिः हरितवर्णैः सोमैरापृणन्ति पूरयन्ति तथा यूयमपीन्द्रायेन्द्रस्य हरिवन्त शूषं बलं अर्चत पूजयत हे स्तोतारः स्तुतिभिः ।। २ ।।
पङ्क्तिः ९०:
६ ता तौ प्रसिद्धौ हर्यता हर्यतौ गन्तारौ कान्तौ वा हरी हरितवर्णौ अश्वौ मन्दिनं मोद- मानं स्तोम्यं स्तुत्यर्हं वज्रिणमिन्द्रं मदे निमित्ते रथे वहतः धारयतः यज्ञमस्मदीयं प्रापयतः अस्मै हर्यते कान्तायेन्द्राय पुरूणि बहूनि सवनानि प्रातरादीनि इरयो हरितवर्णाः सोमाद- धन्विरे निधीयन्ते ।। ६ ।।
 
७ अरमलं पर्याप्तं कामायेन्द्रकामनाय हरयो हरितवर्णाः सोमा दधन्विरे ते च हरयः स्थिराय युद्धे अपालितायेन्द्राय तुरा तुरौ त्वरमाणौ हरी अश्वौ हिन्वन् प्रेरयन्ति यः अर्वद्भिररणकुशलै र्हरिभिरश्वैर्जोषंअर्वद्भिररणकुशलैर्हरिभिरश्वैर्जोषं शरैः सेव्यं संग्राममीयते गच्छति सरथोस्येन्द्रस्य स्वभूतं कामं कमनीयं हरि वन्तंहरिवन्तं सोमवन्तं यज्ञं आनशे व्याप्नोति ।। ७ ।।
 
८ हरिश्मशारुर्हरितवर्णश्मश्रुः हरिकेशः हरितवर्णकेशः आयसः अयोमयहृदयोस्य शत्रू णांशत्रूणां घातक इत्यर्थः एतादृशो य इन्द्रः तुरस्पेये तूर्णं पातव्ये सोमे हरिपाः हरितवर्णसोमपाः अव र्धतअवर्धत वर्धते यश्चार्वद्भिगन्तृभिहरिभिरश्वैः सोमैर्वा वाजिनीवसुः वाजिनमन्नं हविर्लक्षणं तद स्यास्तीति वाजिनी क्रिया सैव वसु धनं यस्य स तथोक्तः यज्ञधन इत्यर्थः । यद्वा वाजिनमेव वा जिनोवाजिनो तदेव धनं यस्य स एवमुक्तलक्षणइन्द्रो हरी रथे योजयित्वा विश्वा विश्वानि सर्वाणि दुरिता अस्माकं दुरितानि पारिषत् पारयतु पारयतेर्लेटि सिप्यडागमः ।। ८ ।।
 
९ यस्येन्द्रस्य हरिणी हरितवर्णावश्वौ विपेततुः रथे इन्द्रमारोप्य विपततो यज्ञमस्मदीयं । यद्वा यस्य हरिणी हरितवर्णे कनीनिके विपेततुः सोमं प्रति विपततः तत्र दृष्टान्तः-स्रुवेव यथा स्रुवा स्रुवौ हविषा पूर्णौ पात्रविशेषौ होमार्थं विपततः तद्वत् । तथा यस्य च हरिणी हरितवर्णे शिप्रे हनू वाजाय सोमलक्षणायान्नाय दविध्वतः कंपयतः पुरतः प्रत्तस्य सोमस्य प्रीत्या चलतः तथा यद्यदा कृते संस्कृते चमसे वर्तमानं मदस्य मदकरं हर्यतस्य कान्तं अन्धसोन्नं सोमं पीत्वा हरी अश्वौ प्रमर्मृजत् प्रमार्ष्टि तदानीं स्तुत इत्यर्थः ।। ९ ।।
पङ्क्तिः १०२:
१२ हे इन्द्र हरिशिप्रं हरितवर्णशिप्रं त्वा त्वां हर्यतं यज्ञं कामयमानं प्रयुजो रथे प्रयुक्ताअश्वा रथे स्थापयित्वा जनानां ऋत्विग्यजमानानां अन्तिकं प्रति वहन्तु प्रापयन्तु यथा येन प्रकारेण प्रतिभृतस्य गृहादिषु संवृतं मध्वो मधु सोमरसं यज्ञं यागसाधनं दशोणिं ओणयोंगुलयः दशभिरंगुलीभिः संपादितं सोमं हर्यन् कामयमानः सन्पिब पिबसि सधमादे संग्रामे ज- यार्थं तथा वहन्त्वित्यर्थः ।। १२ ।।
 
१३ हे इन्द्र त्वं सुतानामभिषुतानां पूर्वेषां प्रातःसवने संपादितानां कर्मणि षष्ठ्यावेते अभि- षुतान्प्रातःसवनिकान्सोमानित्यर्थःअभिषुतान्प्रातःसवनिकान्सोमानित्यर्थः तानपाः अपिबः हे हरिव इतीन्द्रसंबोधनं हरिभ्यामश्वा- भ्यां तद्वन्यद्वा ऋक्सामात्मकाभ्यां हरिभ्यां युक्त । कक्सामे वा इन्द्रस्य हरी ।ताभ्यामेष हरतीति ब्राह्मणं अथो अपि चेदं माध्यंदिनसवनं केवलं ते तवैवासाधारणं । माध्यंदिनं सवनं केवलं त इति हि मंत्रान्तरं । तस्मिन्हे इन्द्र मधुमन्तं माधुर्योपेतं सोमं ममद्धि पिब आस्वादयेत्यर्थः मदिरत्रा- स्वादनकर्मा पिबन्तु मदन्तु वियंत्विति च मंत्रः । सत्रावृषन् सत्रा शब्दो भूयिष्ठवचनः हे भूयिष्ठं वर्षितरिन्द्र जठरे आवृषस्व आसिंचस्व ।। १३ ।।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९६" इत्यस्माद् प्रतिप्राप्तम्