"ऋग्वेदः सूक्तं १०.१३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७०:
 
गायत्रं प्रउगं कुर्यादित्याहुस्तेजो वै ब्रह्मवर्चसं गायत्री तेजस्वी ब्रह्मवर्चसी भवतीति । औष्णिह प्रउगं कुर्यादित्याहुरायुर्वा उष्णिगायुष्मान्भवतीति । आनुष्टुभं प्रउगं कुर्यादित्याहुः क्षत्त्रं वा अनुष्टुप्क्षत्त्रस्याऽऽप्त्या इति बार्हतं प्रउगं कुर्यादित्याहुः श्रीर्वै बृहती श्रीमान्भवतीति पाङ्क्तं प्रउगं कुयादित्याहुरन्नं वै पङ्क्तिरन्नवान्भवतीति त्रैष्टुभं प्रउगं कुर्यादित्याहुर्वीर्यं वै त्रिष्टुब्वीर्यवान्भवतीति जागतं प्रउगं कुर्यादित्याहुर्जागता वै पशवः पशुमान्भवतीति, इति । तदु गायत्रमेव कुर्याद्ब्रह्म वै गायत्री ब्रह्मे तदहर्ब्रह्मणैव तद्ब्रह्म प्रतिपद्यते, इति । तदु माधुच्छन्दसम्, इति । मधु ह स्म वा ऋषिभ्यो मधुच्छन्दाश्छन्दति तन्मधुच्छन्दसो मधुच्छन्दस्त्वम्, इति । - ऐ.आ. [[ऐतरेय आरण्यकम्/आरण्यक १|१.१.३]]
 
प्रउग- सा-) १. शकटे नीडस्य बहिर्भागः प्रउगपदवाच्यः । श्रौ ० प० नि० पृ० २५६ द्र० २. प्रउगंनाम शकटस्य वंशद्वयम् । यत् एकतः चक्रद्वयवच्छिद्रगतकाष्ठमयलोहमयान्यतरदण्डमध्ये बद्ध्यते, अपरतश्च युगमध्ये बध्यते । द्र० मी ० को ० पृ० २६५२ ।
प्रउगचित्- सोमयज्ञेषु साग्निचित्येषु अग्निचयन विकृतौ प्रउगः शकटस्याङ्गं शकटस्य त्र्यस्रि अग्रभागः । तदाकारा चितिः स्थण्डिलं प्रउगचिदुच्यते । प्रउगसदृशाकारं चयनं प्रउगचितमुच्यते । तच्च द्विविधं एकतः प्रउगचितं उभयतः प्रउगचितं चेति । द्र० मी ० को ० पृ० २६५३ ।
 
प्रउगशस्त्र- हौ०) सोमयज्ञेषु प्रकृतिभूतज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु १. प्रातःसवने प्रउगं नाम शस्त्रं होत्रा शंसनीयम् । प्रातःसवने बहिष्पवमानोत्तरं ऋतुयाजोत्तरं आज्यशस्त्रं भक्षान्तमनुष्ठाय ततः परं प्रउगं शस्यते । द्र० मी ० को० पृ० २६५२ ।
२. वैश्वदेवग्रहणादूर्ध्वं होत्रा शंसनीयं प्रउगनामकं शस्त्रम् (तु०-ऐ० आ० सा० १ । १ । ३) । ३ आज्यस्तोत्रान्तरं होत्रा प्रउगशस्त्रं शस्यते । द्र० अग्निष्टोमे होतुः प्रउगशस्त्र- ।
 
प्रउगशस्त्रतृच- (हौ०) सोमयज्ञेषु प्रकृतिभूत- ज्योति-तद्विकृतिषु चैकाहाहीनसत्रेषु विशेषवर्जं प्रातःसवने होतुः प्रउगशस्त्रस्य 'वायवा याहि दर्शतं (ऋ० १ । २ । १- ३) इति वायव्यः प्रथमस्तृचः । 'इन्द्रवायू इमे सुताः' (ऋ० १ । २ ।४६ । इति ऐन्द्रवा- यवो द्वितीयस्तृचः । 'मित्रं हुवे पूतदक्षम् (ऋ० १ । २ ।६-८ इति मैत्रावरुणस्तृतीय- स्तृचः । ' आश्विना यज्वरीरिषः' (ऋ० १ । ३ । १-३) इति आश्विनश्चतुर्थस्तृचः । 'इन्द्राऽऽयाहि चित्रभानो' (ऋ० १ । ३ ।४- ६) इति ऐन्द्रः पञ्चमस्तृचः । ' ओमासश्चर्षणीधृतः' ऋ० १ । ३।७-९) इति वैश्वदेवः षष्ठस्तृचः । 'पावका नः सरस्वती' (ऋ० १ । ३ । १०- १२) इति सारस्वतः सप्तमस्तृचः । इति तत्तद्देवत्याः सप्ततृचा भवन्ति । तृचानां पुरस्तात् यथासंख्येन शोंसावोम्' इत्याहावहिताः 'वायुरग्रेगाः' इत्याद्याः सप्त पुरोरुचः (ऋ०खि० ५ ।६ । १ -७) पठितव्याः । शंसनप्रकारः-द्र० अग्निष्टोमे होतुः प्रउगशस्त्र-, का० श्रौ० १ । ३ ।८ टि० विद्याधरः । श्रौतयज्ञप्रक्रिया - पदार्थानुक्रमकोषः। प्रणेता पण्डित पीताम्बरदत्त शास्त्री
 
 
There is प्रउग, "yoke". It also occurs in Rk-saMhita. It is generally
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३०" इत्यस्माद् प्रतिप्राप्तम्