"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५९:
इत्यादयस्तृचाः प्रउगशस्त्रे विनियुक्ताः । तत्रेदं चिन्त्यते, शस्त्रं किं देवतास्मरणरूपसंस्कारकर्म किं वा
अदृष्टफलं प्रधानकर्मेति । तत्र पूर्वपक्षं जैमिनिः ( जै. सू. २. १. १३-२९) सूत्रयामास-
 
' स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् ' इति ।। ' आज्यैः स्तुवते पृष्ठैः
स्तुवते प्रउगं शंसति निष्केवल्यं शंसति ' इति श्रूयते । तत्र स्तुतिः शंसनं च गुणिनिष्ठ-
गुणाभिधानम् ' इन्द्रस्य नु वीर्याणि प्र वोचम् ( ऋ सं. १. ३२. १) इत्यत्र दृष्टत्वात् । एवं
सति याज्यान्यायेन गुणिन्या देवताया अभिधायकत्वेन स्तुतशस्त्रयोः संस्काररूपत्वमभ्युपेयम् ।
याज्यायास्तद्रूपत्व दशमाध्यायस्य चतुर्थपादे ( जै. सू. १०. ४ ३९-४१) दृष्टार्थलाभेन निर्णीतम् ।
तद्वदत्रापि । तुशब्दः प्रधानकर्मत्वं व्यावर्तयति ।। सिद्धान्ती तं पक्षं दूषयति-
 
' अर्थेन त्वपकृष्येत देवतानाम्नश्चोदनार्थस्य गुणभूतत्वात् ' इति । तुशब्देन संस्कारत्वं वारयति
संस्कारपक्षे प्रयोजनवशेन मन्त्रः स्वस्थानादपकृष्येत । कुतः । मन्त्रगतं देवतावाचकं यदिन्द्रादिनामास्ति
तच्चोदनया मन्त्ररूपया प्रतिपाद्य देवतारूपभ्यार्थस्य गुणभूतम् । तस्मात् यत्र प्रधानभूतदेवतास्ति तत्र
गुणभूतो मन्त्रो नेतव्यः । तद्यथा माहेन्द्रग्रहसंनिधौ ' अभि त्वा शूर ' ( ऋ. सं. ७. ३२. २२) इत्ययं
प्रगाथ आम्नातः । स चेन्द्रं प्रकाशयति न तु महेन्द्रम् । ततो यत्रैन्द्रं कर्म तत्रायं प्रगाथोऽपकर्षणीयः ।
तथा सति क्रमसंनिधी वाध्येयाताम् ।। तदेतत् सिद्धान्तिनाभिहितं दूषणं पूर्वपक्षी समाधत्ते--
 
वशावद्वा गुणार्थं स्यात् ' इति । वाशब्दः प्रगाथस्यान्यत्रनयनं वारयति । मन्त्रे यदेतदिन्द्र-
शब्दाभिधानं तदेतन्महत्वगुणोपलक्षणार्थं स्यात् । यथा ' सा वा एषा सर्वदेवत्या यदजा वशा
वायव्यामा लभेत ' ( तै. सं. ३. ४. ३. २) इत्यत्र अजावशाशब्देन चोदिते कर्मणि छागशब्देन
केवलेन युक्ता निगमा वशात्वगुणमप्युपलक्षयन्ति तद्वत् । तस्मात् महत्त्वगुणयुक्ते चोदिते कर्मणि
निर्गुणेनेन्द्रशब्देनाभिधानमविरुद्धम् । लोकेऽपि महाराजे केवलराजशब्दप्रयोगमपि पश्यामः । तदेतत्
समाधानं सिद्धान्ती दूषयति-
 
' न श्रुतिसमवायित्वात् ' इति । यदुक्तं वशान्यायेन राजन्यायेन वास्य ग्रहस्यैन्द्रो देवता
युज्यते इति तन्न । देवतात्वस्य तद्धितश्रुतिसमवायित्वात् । माहेन्द्रग्रह इत्यत्र सास्य देवतेत्यस्मिन्नर्थे
' महेन्द्राद्धाणौ च ' ( पा. सू. ४. २. २९) इति महेन्द्र्शब्दात् अण्प्रत्ययो विहितः । तस्मात् महेन्द्र
एव देवता न त्विन्द्रः ।। विपक्षे बाधमाह-
 
' गुणश्चानर्थकः ' डति । यदीन्द्रो देवता स्यात् तदानीम् ऐन्द्रग्रह इत्येतावतैव अर्थावगतौ माहेन्द्र
इति महत्त्वगुणोऽनर्थकः स्यात । चकारः पूर्वहेतुना समुच्चयार्थः ।। हेत्वन्तरमाह-
' तथा याज्यापुरोरुचोः ' इति । इन्द्रमहेन्द्रयोर्देवतयोर्भेदे यथा महत्वगुणः सार्थकस्तथा याज्या-
पुरोनुवाक्ययोर्भेदोऽप्यस्मिन्नेव पक्षे उपपद्यते । ' एन्द्र सानसिम् ' ( ऋ. सं. १. ८. १) इत्यादिके
इन्द्रस्य याज्यापुरोनुवाक्ये । ' महाँ इन्द्रो य ओजसा ' ( ऋ सं. ८. ६. १) इत्यादिके महेन्द्रस्य ।।
पूर्वपक्षिणोक्ते वशादृष्टान्ते वैषम्यमाह-
 
' वशायामर्थसमवायात् ' इति । या वशा विधिवाक्ये श्रुता तस्या एव निगमेषु छागशब्देन
व्यवहारो न विरुद्धः । छागत्वलक्षणस्यार्थस्य वशायां समवेतत्वात् । तच्च प्रत्यक्षेणोपलभ्यते । इन्द्र-
महेन्द्रयोस्तु भेद उपपादितः । तस्मात् विषमो दृष्टान्तः । एवं संस्कारपक्षे प्रगाथस्यैन्द्रकर्मण्यपकर्ष-
प्रसङ्गात् तद्वारयितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमिति सिद्धान्तिनो मतम् ।। पुनरपि पूर्वपक्षी तदेतन्मतं
निराचष्टे--
 
-- - - - - -
 
- - - - -
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२" इत्यस्माद् प्रतिप्राप्तम्