"ऋग्वेदः सूक्तं १.१३९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७९:
 
== ==
{{सायणभाष्यम्|
' अस्तु श्रौषट् ' इति एकादशर्चं षष्ठं सूक्तम् । अत्रानुक्रमणिका- 'अस्तु श्रौषळेकादश वैश्वदेवी मैत्रावरुण्याश्विन्यस्तिस्र। ऐन्द्र्याग्नेयो मारत्यैन्द्राग्नी बार्हस्पत्या वैश्वदेव्यन्त्या त्रिष्टुप्पञ्चमी बृहती वैश्वदेवमेतदेवमन्यासामपि सूक्तप्रयोगे वैश्वदेवत्वं सूक्तभेदप्रयोगे यल्लिङ्गं सा देवता ' इति । परुच्छेप ऋषिः । अन्त्या त्रिष्टुप् पञ्चमी बृहती । अन्या अत्यष्टयो विशेषाभावात् । कृत्स्नं सूक्तं वैश्वदेवम् । तत्र आद्याया विश्वे देवा देवता । द्वितीयाया मित्रावरुणौ । अथ तिस्रोऽश्विदेवताकाः । ऐन्द्री षष्ठी । सप्तम्याग्नेयी ।
अष्टमी मारुती । नवम्यैन्द्राग्नी । दशमी बार्हस्पत्या । एकादशी वैश्वदेवी । सूक्तविनियोगो लैङ्गिकः । दशरात्रस्य षष्ठेऽहनि प्रउगशस्त्रे आद्या वैश्वदेवतृचे प्रथमा । ' षष्ठस्य ' इति खण्डे सूत्रितम्-' अस्तु श्रौषळो षु णो अग्ने ' ( आश्व. श्रौ. ८. १) इति ।।
 
}}
 
 
{{टिप्पणी|
१.१३९.१ यत् यस्मात् कारणात् विवस्वति दीप्तिमति नाभा नाभौ भूम्या नाभिस्थाने देवयजने वेदिरूपे। यद्वा। नाभौ सर्वफलस्य संबन्धके यज्ञे। यज्ञमाहुर्भुवनस्य नाभिम्(तै.सं. ७.४.१८.२) इति श्रुतेः। क्राणा कुर्वाणा स्वार्थप्रकाशनं नव्यसी नवतरा स्तुतिरूपा वाक् संदायि संबध्यते।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३९" इत्यस्माद् प्रतिप्राप्तम्