"ऋग्वेदः सूक्तं १.२०" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
 
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
{|
|
अयं देवाय जन्मने स्तोमो विप्रेभिरासया ।
अकारि रत्नधातमः ॥१॥
अधारयन्त वह्नयोऽभजन्त सुकृत्यया ।
भागं देवेषु यज्ञियम् ॥८॥
 
|
</span></poem>
 
== ==
 
{{सायणभाष्यम्|
।। श्रीगणेशाय नमः ।।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।
अथ प्रथमाष्टके द्वितीयोऽध्याय आरभ्यते । तत्र ' अयं देवाय ' इत्यष्टर्चं सूक्तम् । तस्य ऋषि-
च्छन्दसी पूर्ववत् । ऋभुदेवताकत्वमनुक्रम्यते' अयमष्टावार्भवम् ' इति । विनियोगस्तु सूक्तस्य लैङ्गिकः
स्मार्तो वा द्रष्टव्यः । व्यूढस्य प्रथमे छन्दोमे वैश्वदेवशस्त्रे ' अयं देवाय जन्मने ' इति आर्भवस्तृचः ।
' अथ च्छन्दोमाः ' इति खण्डे सूत्रितम्-' अभित्वा देव सवितः प्रेतां यज्ञस्य शंभुवायं देवाय जन्मन
इति तृचाः ' ( आश्व. श्रौ. ८. ९) इति ।।
 
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या ।
 
अका॑रि रत्न॒धात॑मः ॥
 
य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ ।
 
शमी॑भिर्य॒ज्ञमा॑शत ॥
 
तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् ।
 
तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म् ॥
 
युवा॑ना पि॒तरा॒ पुन॑ः स॒त्यम॑न्त्रा ऋजू॒यव॑ः ।
 
ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥
 
सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता ।
 
आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥
 
उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् ।
 
अक॑र्त च॒तुर॒ः पुन॑ः ॥
 
ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते ।
 
एक॑मेकं सुश॒स्तिभि॑ः ॥
 
अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑ ।
 
भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म् ॥
 
|}
 
</poem>
|}}
३६,७२८

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/138385" इत्यस्माद् प्रतिप्राप्तम्