"ऋग्वेदः सूक्तं १.३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
{|
|
आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् ।
मंहिष्ठं सिञ्च इन्दुभिः ॥१॥
Line ५७ ⟶ ५५:
त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः ।
अस्मे रयिं नि धारय ॥२२॥
</span></poem>
|
 
== ==
{{सायणभाष्यम्|
' आ व इन्द्रम् ' इति द्वाविंशत्यृचं सप्तमं सूक्तं शुनःशेपस्यार्षं गायत्रम् । ' अस्माकम् '
इत्येषा पादनिचृद्गायत्री । ' त्रयः सप्तकाः पादनिचृत्। ' ( अनु. ४.४) इति उक्तत्वात्। । ' शश्वदिन्द्रः '
इत्येषा त्रिष्टुप् । आदितः षोडशर्च ऐन्द्र्यः । ' आश्विनावश्वावत्या ' इत्याद्यास्तिस्र आश्विन्यः ।
' कस्त उषः ' इत्याद्यास्तिस्र उषोदेवताकाः । तथा च अनुक्रमणिका- आ वो द्व्यधिकास्माकं पाद-
निचृच्छश्वत्त्रिष्टुप्पपरौ तृचावाश्विनोषस्यौ ' इति ।।
 
आ व॒ इन्द्रं॒ क्रिविं॑ यथा वाज॒यन्त॑ः श॒तक्र॑तुम् ।
 
मंहि॑ष्ठं सिञ्च॒ इन्दु॑भिः ॥
 
श॒तं वा॒ यः शुची॑नां स॒हस्रं॑ वा॒ समा॑शिराम् ।
 
एदु॑ नि॒म्नं न री॑यते ॥
 
सं यन्मदा॑य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे॑ ।
 
स॒मु॒द्रो न व्यचो॑ द॒धे ॥
 
अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिम् ।
 
वच॒स्तच्चि॑न्न ओहसे ॥
 
स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते ।
 
विभू॑तिरस्तु सू॒नृता॑ ॥
 
ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो ।
 
सम॒न्येषु॑ ब्रवावहै ॥
 
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे ।
 
सखा॑य॒ इन्द्र॑मू॒तये॑ ॥
 
आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभि॑ः ।
 
वाजे॑भि॒रुप॑ नो॒ हव॑म् ॥
 
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म् ।
 
यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥
 
तं त्वा॑ व॒यं वि॑श्ववा॒रा शा॑स्महे पुरुहूत ।
 
सखे॑ वसो जरि॒तृभ्य॑ः ॥
 
अ॒स्माकं॑ शि॒प्रिणी॑नां॒ सोम॑पाः सोम॒पाव्ना॑म् ।
 
सखे॑ वज्रि॒न्सखी॑नाम् ॥
 
तथा॒ तद॑स्तु सोमपा॒ः सखे॑ वज्रि॒न्तथा॑ कृणु ।
 
यथा॑ त उ॒श्मसी॒ष्टये॑ ॥
 
रे॒वती॑र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः ।
 
क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥
 
आ घ॒ त्वावा॒न्त्मना॒प्तः स्तो॒तृभ्यो॑ धृष्णविया॒नः ।
 
ऋ॒णोरक्षं॒ न च॒क्र्यो॑ः ॥
 
आ यद्दुव॑ः शतक्रत॒वा कामं॑ जरितॄ॒णाम् ।
 
ऋ॒णोरक्षं॒ न शची॑भिः ॥
 
शश्व॒दिन्द्र॒ः पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भि॒ः शाश्व॑सद्भि॒र्धना॑नि ।
 
स नो॑ हिरण्यर॒थं दं॒सना॑वा॒न्स न॑ः सनि॒ता स॒नये॒ स नो॑ऽदात् ॥
 
आश्वि॑ना॒वश्वा॑वत्ये॒षा या॑तं॒ शवी॑रया ।
 
गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥
 
स॒मा॒नयो॑जनो॒ हि वां॒ रथो॑ दस्रा॒वम॑र्त्यः ।
 
स॒मु॒द्रे अ॑श्वि॒नेय॑ते ॥
 
न्य१॒॑घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः ।
 
परि॒ द्याम॒न्यदी॑यते ॥
 
कस्त॑ उषः कधप्रिये भु॒जे मर्तो॑ अमर्त्ये ।
 
कं न॑क्षसे विभावरि ॥
 
व॒यं हि ते॒ अम॑न्म॒ह्यान्ता॒दा प॑रा॒कात् ।
 
अश्वे॒ न चि॑त्रे अरुषि ॥
 
त्वं त्येभि॒रा ग॑हि॒ वाजे॑भिर्दुहितर्दिवः ।
अ॒स्मे र॒यिं नि धा॑रय ॥
|}
</poem>
 
अ॒स्मे र॒यिं नि धा॑रय ॥
 
|}}
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३०" इत्यस्माद् प्रतिप्राप्तम्