"ऋग्वेदः सूक्तं १०.१३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
१०.१३०.३
प्रउग
 
{{टिप्पणी|
सोमयागे प्रातःसवने पंच स्तोत्राणि एवं पंच शस्त्राणि भवन्ति। स्तोत्रेषु एकं बहिष्पवमान स्तोत्रं एवं चत्वारि आज्यस्तोत्राणि भवन्ति। पंच शस्त्रेषु एकं प्रउगं शस्त्रं एवं चत्वारि आज्य शस्त्राणि भवन्ति। प्रउगशस्त्रस्य कर्ता होता ऋत्विक् भवति। चत्वारि आज्यशस्त्रेषु प्रथमस्य कर्ता होता, द्वितीयस्य मैत्रावरुणः, तृतीयस्य ब्राह्मणाच्छंसी एवं चतुर्थस्य अच्छावाकः भवति। - [https://books.google.co.in/books?id=utjPTLBVkNQC&pg=PT60&lpg=PT60&dq=%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%89%E0%A4%97&source=bl&ots=IeRRQoTcFZ&sig=bkVde1bZ9naILQQQRgbhfEXaaP8&hl=hi&sa=X&ved=0ahUKEwjGhJT229DYAhUIP48KHYZzB6wQ6AEINzAF#v=onepage&q=%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%89%E0%A4%97&f=false यज्ञतत्त्वप्रकाश] (पृष्ठ ७६)
 
पङ्क्तिः ७७:
प्रउगशस्त्र- हौ०) सोमयज्ञेषु प्रकृतिभूतज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु १. प्रातःसवने प्रउगं नाम शस्त्रं होत्रा शंसनीयम् । प्रातःसवने बहिष्पवमानोत्तरं ऋतुयाजोत्तरं आज्यशस्त्रं भक्षान्तमनुष्ठाय ततः परं प्रउगं शस्यते । द्र० मी ० को० पृ० २६५२ ।
२. वैश्वदेवग्रहणादूर्ध्वं होत्रा शंसनीयं प्रउगनामकं शस्त्रम् (तु०-ऐ० आ० सा० १ । १ । ३) । ३ आज्यस्तोत्रान्तरं होत्रा प्रउगशस्त्रं शस्यते । द्र० अग्निष्टोमे होतुः प्रउगशस्त्र- ।
}}
 
प्रउगशस्त्रतृच- (हौ०) सोमयज्ञेषु प्रकृतिभूत- ज्योति-तद्विकृतिषु चैकाहाहीनसत्रेषु विशेषवर्जं प्रातःसवने होतुः प्रउगशस्त्रस्य 'वायवा याहि दर्शतं (ऋ० १ । २ । १- ३) इति वायव्यः प्रथमस्तृचः । 'इन्द्रवायू इमे सुताः' (ऋ० १ । २ ।४६ । इति ऐन्द्रवा- यवो द्वितीयस्तृचः । 'मित्रं हुवे पूतदक्षम् (ऋ० १ । २ ।६-८ इति मैत्रावरुणस्तृतीय- स्तृचः । ' आश्विना यज्वरीरिषः' (ऋ० १ । ३ । १-३) इति आश्विनश्चतुर्थस्तृचः । 'इन्द्राऽऽयाहि चित्रभानो' (ऋ० १ । ३ ।४- ६) इति ऐन्द्रः पञ्चमस्तृचः । ' ओमासश्चर्षणीधृतः' ऋ० १ । ३।७-९) इति वैश्वदेवः षष्ठस्तृचः । 'पावका नः सरस्वती' (ऋ० १ । ३ । १०- १२) इति सारस्वतः सप्तमस्तृचः । इति तत्तद्देवत्याः सप्ततृचा भवन्ति । तृचानां पुरस्तात् यथासंख्येन शोंसावोम्' इत्याहावहिताः 'वायुरग्रेगाः' इत्याद्याः सप्त पुरोरुचः (ऋ०खि० ५ ।६ । १ -७) पठितव्याः । शंसनप्रकारः-द्र० अग्निष्टोमे होतुः प्रउगशस्त्र-, का० श्रौ० १ । ३ ।८ टि० विद्याधरः । श्रौतयज्ञप्रक्रिया - पदार्थानुक्रमकोषः। प्रणेता पण्डित पीताम्बरदत्त शास्त्री
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३०" इत्यस्माद् प्रतिप्राप्तम्