"हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०२१" इत्यस्य संस्करणे भेदः

{{header | title = हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) | aut... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ६:
| previous = [[हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०२०|अध्यायः ०२०]]
| next = [[हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०२२|अध्यायः ०२२]]
| notes = क्षत्रयुगस्य प्रसंगे ज्ञानसिद्धानां ब्राह्मणानां वर्णनं, दक्षेण प्रजापतिना प्राणिनां चत्वारि वर्णानां च सृष्टिः, तेन स्वपुत्रेभ्यः धात्र्याः अन्तं ज्ञातुं आदेशः
| notes =
}}
एकविंशोऽध्यायः
 
<poem><span style="font-size: 14pt; line-height: 200%">जनमेजय उवाच
श्रुतं ब्रह्मयुगं ब्रह्मन् युगानां प्रथमं युगम।
क्षत्रस्यापि युगं ब्रह्मञ्छ्रोतुमिच्छाम्यहं प्रभो ।। १ ।।
ससंक्षेपं सविस्तारं नियमैर्बहुभिश्चितम् ।
उपायज्ञैश्च कथितं क्रतुभिश्चैव शोभितम् ।। २।।
वैशम्पायन उवाच
एतत्ते कथयिष्यामि यह्यकर्मभिरर्चितम् ।
दानधर्मैश्च विविधैः प्रजाभिरुपशोभितम् ।। ३ ।
तेऽङ्गुष्ठमात्रा मुनय आदत्ताः सूर्यरश्मिभिः ।
मोक्षप्राप्तेन विधिना निराबाधेन कर्मणा ।। ४ ।।
प्रवृत्ते चाप्रवृत्ते च नित्यं ब्रह्मपरायणाः ।
परायणस्य संगम्य ब्रह्मणस्तु महीपते ।। ५ ।
श्रीवृताः पावनाश्चैव ब्राह्मणाश्च महीपते ।
चरितब्रह्मचर्याश्च ब्रह्मज्ञानावबोधिताः ।। ६ ।
पूर्णे युगसहस्रान्ते प्रभावे प्रलयं गताः ।
ब्राह्मणा वृतसम्पन्ना ज्ञानसिद्धाः समाहिताः ।। ७ ।
व्यतिरिक्तेन्द्रियो विष्णुर्योगात्मा ब्रह्मस्रम्भवः ।
दक्षः प्रजापतिर्भूत्वा सृजते विपुलाः प्रजाः ।। ८ ।।
अक्षराद्ब्राह्मणाः सौम्याः क्षरात्क्षत्रियबान्धवाः।
वैश्या विकारतश्चैव शूद्रा धूमविकारतः ।। ९ ।।
श्वेतलोहितकैर्वर्णैः पीतैर्नीलैश्च ब्राह्मणाः ।
अभिनिर्वर्तिता वर्णाश्चिन्तयानेन विष्णुना ।। 3.21.१० ।।
ततो वर्णत्वमापन्नाः प्रजा लोके चतुर्विधाः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महीपते ।। ११ ।।
एकलिङ्गाः पृथग्धर्मा द्विपदाः परमाद्भुताः ।
यातनायाभिसम्पन्ना गतिज्ञाः सर्वकर्मसु ।। १२ ।।
त्रयाणां वर्णजातानां वेदप्रोक्ताः क्रियाः स्मृताः।
तेन वो ब्रह्मयोगेन वैष्णवेन महीपते ।। १३ ।।
प्रज्ञया तेजसा योगात्तस्मात् प्राचेतसः प्रभुः ।
विष्णुरेव महायोगी कर्मणामन्तरं गतः ।। १४ ।।
ततो निर्माणसम्भूताः शूद्राः कर्मविवर्जिताः ।
तस्मान्नार्हन्ति संस्कारं न ह्यत्र ब्रह्म विद्यते ।। १५ ।।
यथाग्नौ धूमसंघातो ह्यरण्या मथ्यमानया ।
प्रादुर्भूतो विसर्पन् वै नोपयुञ्जन्ति कर्मणि ।। १६
एवं शूद्रा विसर्पन्तो भुवि कार्त्स्न्येन जन्मना ।
नासंस्कृतेन धर्मेण वेदप्रोक्तेन कर्मणा ।। १७ ।।
ततोऽन्ये दक्षपुत्राश्च सम्भूता ब्रह्मयोनयः ।
बलवन्तो महोत्साहा महावीर्या महौजसः ।। १८ ।।
पित्रा प्रोक्ता महात्मानो दक्षिणा यज्ञकर्मणा ।
अन्तमिच्छाम्यहं श्रोतुं धात्र्याः पुत्रा बलो ह्यहम्।। १९ ।।
ततो विधास्ये तत्त्वज्ञाः प्रजानां विपुलं बलम् ।
विपुलत्वाद्धि क्षेत्राणां ममापि विपुलाः प्रजाः।। 3.21.२० ।।
न तेषां दर्शयद् देवी चक्षुषा रूपमात्मनः ।
प्रजापतिसुतानां वै विपुलासारमिच्छताम् ।। २१ ।
आत्मनो भावनिर्वृत्ते भावे कृतयुगे तदा ।
जनित्री सर्वभूतानामण्डजानुद्भिजांस्तथा ।। २२ ।।
संवेदजननी धात्री चेति मात्रा प्रचोदिता ।
अणुतां तनुतां चैव जन्तूनां कर्मभोगिनाम् ।। २३
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे एकविंशोऽध्यायः ।। २१ ।।
 
<poem><span style="font-size: 14pt; line-height: 200%">
</span></poem>