"आश्वलायन श्रौतसूत्रम्/अध्यायः ६" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः ६ पृष्ठं [...
No edit summary
पङ्क्तिः ४२:
 
</span>
== ==
<poem><span style="font-size: 14pt; line-height: 200%">
; सोमहवनातिक्रमे स्तुतशस्त्रवृद्धिविधानम्
सोमातिरेके स्तुतशस्त्रोपजनः १ (उपजनो वृद्धिः उपचयः)
; प्रातःसवने सोमातिरेके विधानम्
प्रातःसवनेऽस्ति सोमो अयं सुतो गौर्धयति मरुतामिति स्तोत्रियानुरूपौ । महाँ इन्द्रो य ओजसाऽतो देवा अवन्तु न इत्यैन्द्री भिर्वैष्णवीभिश्च स्तोममतिशस्यैन्द्र्या यजेत् २
; वैष्णव्यर्चा यजनविकल्पः
वैष्णव्या वा ३
; गाणगारिमते ऐन्द्रावैष्णव्यर्चा यजनविधानम्
ऐन्द्रावैष्णव्येति गाणगारिर्देवतप्रधानत्वात् ४
; ऐन्द्रावैष्णव्या ऋचः कथनम्
सं वां कर्मणा समिषा हिनोमीति ५
; माध्यन्दिने सवने सोमातिरेके शस्त्रकथनम्
माध्यन्दिने बण्महाँ असि सूर्योदु त्यद्दर्शतं वपुरिति प्रगाथौ स्तोत्रियानुरूपौ । महाँ इन्द्रो नृवद्विष्णोर्नुकं या विश्वासां जनितारा मतीनामिति याज्या ६
; तृतीयसवने सोमातिरेके इतिकर्तव्यताविधानम्
तृतीयसवन उत्तरोत्तरां संस्थामुपेयुराऽतिरात्रात् ७
; अतिरात्रे सोमातिरेके विधिकथनम्
अतिरात्राच्चेत् प्र तत्ते अद्य शिपिविष्ट नाम प्र तद्विष्णुस्तव ते वीर्येणेति स्तोत्रियानुरूपौ । माध्यन्दिनेन शेषः ८
; अतिरात्रे सोमातिरेके याज्याकथनम्
त्वेषमित्थास मरणं शिमीवतोरिति वा याज्या ९ ७ 6.7
 
</span></poem>