"ऋग्वेदः सूक्तं १०.८८" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १६३:
कवयः। यः सूक्ष्मस्तरेषु घटितानां क्रियाणां स्थूलस्तरे प्रतिबिंबस्य निर्माणं कर्तुं शक्तः सः कविः। यज्ञसंपादकैः देवैः वैश्वानरस्य अग्नेः जननं अकुर्वन्। सः अग्निः अजुर्यम्, जरारहितमस्ति। तेनाग्निना प्रत्नस्य नक्षत्रस्य हननमभवत्। सः अग्निः यक्षस्य अध्यक्षमस्ति। सः अग्निः त्वेषयुक्तः, बृहदस्ति।
यथा ऋग्वेद [[ऋग्वेदः सूक्तं २.५|२.५.१]] ऋचायाः टिप्पण्यां उल्लिखितमस्ति, वेदभाष्येषु यक्षस्यार्थं पूजायां गृहीतमस्ति। पुराणेषु - येन कृत्येन तन्त्रस्य धनात्मकतायाः संरक्षणं संभवमस्ति, तस्य संज्ञा यक्षः अस्ति। पुराणेषु सार्वत्रिकं कथनमस्ति ( द्र. [http://puranastudy.freeoda.com/pur_index6/pva39.htm कुबेरोपरि] पौराणिकाः संदर्भाः) यत् कुबेरेण तपसा यक्षाणां आधिपत्यं गृहीतवान्। अत्र स्वयं कुबेरः एकवचनस्य यक्षः अस्ति, तस्य आधिपत्यं बहुवचनसंज्ञकानां यक्षाणामुपरि अस्ति। प्रस्तुतायां ऋचायां वैश्वानरः अग्निः एकवचनस्य यक्षस्य अधिपतिः भवति। किमयं यक्षः स्वयं कुबेरः अस्ति, अथवा कोपि अन्या चेतना अस्ति, अयं अन्वेषणीयः। यदा यक्षः बहुवचने अस्ति (यक्षाः), तदा तेषां कृत्येषु का वैशिष्ट्यं भवति। कथनमस्ति यत् पुष्पकविमानोपरि कुबेरस्य आधिपत्यं अस्ति। पुष्पके चतुःषष्टि स्तम्भाः भवन्ति। एते चतुःषष्टि स्तम्भाः [[श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४५|चतुःषष्टिकलानां]] प्रतीकाः सन्ति, अयं अनुमानम्।
कला अर्थात् क्षययुक्तं तन्त्रम्। चतुःषष्टिषु तन्त्रेषु क्षयस्य निरोधं कुबेरस्य कर्तव्यमस्ति।
|