"ऐतरेय ब्राह्मणम्/पञ्चिका ४ (चतुर्थ पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
 
696
अश्वतरीरथेनाग्निराजिमधावत्तासाम्प्राजमानो योनिमकूळयत्तस्मात्ता न विजा-यन्तेविजायन्ते गोभिररुणैरुषा आजिमधावत्तस्मादुषस्यागतायामरुणमिवैव प्रभात्युषसो रूपमश्वरथेनेन्द्र आजिमधावत्तस्मात्स उच्चैर्घोष उपब्दिमान्क्षत्रस्य रूपमैन्द्रो हि स गर्दभरथेनाश्विना उदजयतामश्विनावाश्नुवातां यदश्विना उदजयता-मश्विनावाश्नुवातांउदजयतामश्विनावाश्नुवातां तस्मात्स सृतजवो दुग्धदोहः सर्वेषामेतर्हि वाहना-नामनाशिष्ठोवाहनानामनाशिष्ठो रेतसस्त्वस्य वीर्यं नाहरतां तस्मात्स द्विरेता वाजी तदाहुः सप्त सौर्याणि छन्दांसि शंसेद्यथैवाग्नेयं यथोषस्यं यथाश्विनं सप्त व देवलोकाः सर्वेषु देवलोकेषु राध्नोतीति तत्तन्नादृत्यं त्रीण्येव शंसेत्त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै तदाहुरुदु त्यं जातवेदसमिति सौर्याणि प्रति-पद्येतेति तत्तन्नादृत्यं यथैव गत्वा काष्ठामपराध्नुयात्तादृक्तत्सूर्यो नो दिव-स्पात्वित्येतेनैव प्रतिपद्येत यथैव गत्वा काष्ठामभिपद्येत तादृक्तदुदु त्यं जात-वेदसमितिजातवेदसमिति द्वितीयं शंसति चित्रं देवानामुदगादनीकमिति त्रैष्टुभमसौ वाव चित्रं देवानामुदेति तस्मादेतच्छंसति नमो मित्रस्य वरुणस्य चक्षस इति जागतं तद्वाशीःपदमाशिषमेवैतेना शास्त आत्मने च यजमानाय च॥4.9॥
 
 
पङ्क्तिः ४०:
 
706
ब्राह्मणस्पत्यया परिदधाति ब्रह्म वै बृहस्पतिर्ब्रह्मण्येवैनं तदन्ततः प्रतिष्ठा-पयत्येवाप्रतिष्ठापयत्येवा पित्रे विश्वदेवाय वृष्ण इत्येतया परिदध्यात्प्रजाकामः पशुकामो बृहस्पते सुप्रजा वीरवन्त इति प्रजया वै सुप्रजा वीरवान्वयं स्याम पतयो रयीणामिति प्रजावान्पशुमान्रयिमान्वीरवान्भवति यत्रैवं विद्वानेतया परिद-धातिपरिदधाति बृहस्पते अति यदर्यो अर्हादित्येतया परिदध्यात्तेजस्कामो ब्रह्मवर्च-सकामोऽतीव वान्यान्ब्रह्मवर्चसमर्हति द्युमदिति द्युमदिव वै ब्रह्मवर्चसं विभातीति वीव वै ब्रह्मवर्चसम्भाति यद्दीदयच्छवस ऋतप्रजातेति दीदायेव वै ब्रह्मवर्चसं तदस्मासु द्र विणंद्रविणं धेहि चित्रमिति चित्रमिव वै ब्रह्म-वर्चसम्ब्रह्मवर्चसीब्रह्मवर्चसम्ब्रह्मवर्चसी ब्रह्मयशसी भवति यत्रैवं विद्वानेतया परिदधाति तस्मादेवं विद्वानेतयैव परिदध्याद्ब्राह्मणस्पत्या तेन सूर्यं नातिसंसति यदु त्रिष्टुभं त्रिः शंसति सा सर्वाणि छन्दांस्यभ्याप्ता तेन बृहतीं नातिशंसति गाय त्र्?यागायत्र्या च त्रिष्टुभा च वषट्कुर्याद्ब्रह्म वै गायत्री वीर्यम्त्रिष्टुब्ब्रह्मणैव तद्वीर्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी वीर्यवान्भवति यत्रैवं विद्वान्गाय त्र्?याविद्वान्गायत्र्या च त्रिष्टुभा च वषट्करोत्यश्विना वायुना युवं सुदक्षो भा पिबतमश्विनेति गाय त्र्?यागायत्र्या च विराजा च वषट्कुर्याद्ब्रह्म वै गाय त्र्?यन्नंगायत्र्यन्नं विराद्ब्रह्मणैव तदन्नाद्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी भवति ब्रह्माद्यमन्नमत्ति यत्रैवं विद्वान्गाय त्र्?याविद्वान्गायत्र्या च विराजा च वषट्करोति तस्मादेवं विद्वान्गाय त्र्?याविद्वान्गायत्र्या चैव विराजा च वषट्कुर्यात्प्र वामन्धांसि मद्यान्यस्थुरुभा पिबतमश्विनेत्येताभ्याम्॥4.11॥
 
 
पङ्क्तिः ५१:
721
 
यद्वै चतुर्विंशं तन्महाव्रतम्बृहद्दिवेनात्र होता रेतः सिञ्चति तददो महाव्रतीयेनाह्ना प्रजनयति संवत्सरेसंवत्सरे वै रेतः सिक्तं जायते तस्मात्समानम्बृहद्दिवो निष्केवल्यम्भवत्येष ह वा एनम्परस्तात्कर्मभिराप्त्वावस्तादुपैति य एवं विद्वानेतदहरुपैति स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्स-रस्यावारंसंवत्सरस्यावारं च पारं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवारमुदयनीयः पारं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्यावरोधनं चोद्र ?ोधनंचोद्रोधनं च वेद स वै स्वस्ति सम्वत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवरोधनमुदयनीय उद्र ?ोधनंउद्रोधनं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्य प्राणोदानौ वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयः प्राण उदान उदयनीयः। स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद य एवं वेद॥4.14॥
 
 
728
ज्योतिर्गौरायुरिति स्तोमेभिर्यन्त्ययं वै लोको ज्योतिरन्तरिक्षं गौरसौ लोक आयुः स एवैष उत्तर स्त्र्?यहोउत्तरस्त्र्यहो ज्योतिर्गौरायुरिति त्रीण्यहानि गौरायुर्ज्योतिरिति त्रीण्ययं वै लोको ज्योतिरसौ लोको ज्योतिस्ते एते ज्योतिषी उभयतः संलोकेते तेनैतेनोभयतोज्योतिषा षळहेन यन्ति तद्यदेतेनोभयतोज्योतिषा षळहेन यन्त्यनयोरेव तल्लोकयोरुभयतः प्रतितिष्ठन्तो यन्त्यस्मिंश्च लोकेऽमुष्मिंश्चोभयोः परियद्वा एतद्देवचक्रं यदभिप्लवः षळहस्तस्य यावभितोऽग्निष्टोमौ तौ प्रधी ये चत्वारो मध्य उक्थ्यास्तन्नभ्यं गच्छति वै वर्तमानेन यत्र कामयते तत्स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै तद्वेद यत्प्रथमः षळहः स वै स्वस्ति संवत्सरस्य पारमश्नुते यस्तद्वेद यद्द्वितीयो यस्तद्वेद यत्तृतीयो यस्तद्वेद यच्चतुर्थो यस्तद्वेद यत्पञ्चमः॥4.15॥
 
 
पङ्क्तिः ६३:
 
738
गवामयनेन यन्ति गावो वा आदित्या आदित्यानामेव तदयनेन यन्ति गावो वै सत्रमासत शफाञ्छृङ्गाणि सिषासन्त्यस्तासां दशमे मासि शफाः शृङ्गाण्यजायन्त ता अब्रुवन्यस्मै कामायादीक्षामह्यापाम तमुत्तिष्ठामेति ता या उदतिष्ठंस्ता एताः शृङ्गिण्योऽथ याः समापयिष्यामः संवत्सरमित्यासत तासा-मश्रद्धया शृङ्गाणि प्रावर्तन्त ता एतास्तूपरा ऊर्जं त्वसुन्वंस्तस्मादु ताः सर्वा-नृतून्प्राप्त्वोत्तरमुत्तिष्ठन्त्यूर्जं ह्यसुन्वन्सर्वस्य वै गावः प्रेमाणं सर्वस्य चारुतां गताः सर्वस्य प्रेमाणं सर्वस्य चारुतां गच्छति य एवं वेदादित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयम्पूर्व एष्यामो वयमिति ते हादित्याः पूर्वे स्वर्गं लोकं जग्मुः पश्चेवाङ्गिरसः षष्ट्यां वा वर्षेषु यथा वा प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वेऽभिप्लवाः षळहा आक्ष्यन्त्यन्या-न्यहानिआक्ष्यन्त्यन्यान्यहानि तदादित्यानामयनम्प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वे पृष्ठ्याः षळहा आक्ष्यन्त्यन्यान्यहानि तदङ्गिरसामयनं सा यथा स्रुतिरञ्जसाय-न्येवमभिप्लवः षळहः स्वर्गस्य लोकस्याथ यथा महापथः पर्याण एवम्पृष्ठ्यः षळहः स्वर्गस्य लोकस्य तद्यदुभाभ्यां यन्त्युभाभ्यां वै यन्न रिष्यत्युभयोः कामयोरुपाप्त्यै यश्चाभिप्लवे षळहे यश्च पृष्ठ्ये॥4.17॥
 
 
पङ्क्तिः ८८:
 
769
प्रजापतिरकामयत प्रजायेय भूयान्स्यामिति स तपोऽतप्यत स तपस्तप्त्वेमं द्वादशाहमप्श्यदात्मन एवाङ्गेषु च प्राणेषु च तमात्मन एवाङ्गेभ्यश्च प्राणेभ्यश्च द्वादशधा निरमिमीत तमाहरत्तेनायजत ततो वै सोऽभवदात्मना प्र प्रजया पशुभिरजायत भवत्यात्मना प्र प्रजया पशुभिर्जायते य एवं वेद सोऽकामयत कथं नु गाय त्र्?यागायत्र्या सर्वतो द्वादशाहम्परिभूय सर्वामृद्धिमृध्नुयामिति तं वै तेजसैव पुरस्तात्पर्यभवच्छन्दोभिर्मध्यतोऽक्षरैरुपरिष्टाद्गाय त्र्?यापुरस्तात्पर्यभवच्छन्दोभिर्मध्यतोऽक्षरैरुपरिष्टाद्गायत्र्या सर्वतो द्वादशाहम्परिभूय सर्वामृद्धिमार्ध्नोत्सर्वामृद्धिमृध्नोति य एवं वेद यो वै गायत्रीं पक्षिणीं चक्षुष्मतीं ज्योतिष्मतीम्भास्वतीं वेद गाय त्र्?यागायत्र्या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेत्येषा वै गायत्री पक्षिणी चक्षुष्मती ज्योतिष्मती भास्वती यद्द्वादशाहस्तस्य यावभितोऽतिरात्रौ तौ पक्षौ यावन्तराग्निष्टोमौ ते चक्षुषी येऽष्टौ मध्य उक्थ्याः स आत्मा गाय त्र्?या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेति य एवं वेद॥4.23॥
 
 
पङ्क्तिः ९६:
 
779
प्राजापतियज्ञो वा एष यद्द्वादशाहः प्रजापतिर्वा एतेनाग्रेऽयजत द्वादशाहेन सोऽब्रवीदृतूंश्च मासांश्च याजयत मा द्वादशाहेनेति तं दीक्षयित्वानपक्रमं गमयित्वाब्रुवन्देहि नु नोऽथ त्वा याजयिष्याम इति तेभ्य इषमूर्जम्प्राय-छत्सैषोर्गृतुषुइषमूर्जम्प्रायछत्सैषोर्गृतुषु च मासेषु च निहिता ददतं वै ते तमयाजयंस्तस्माद्ददद्याज्यः प्रतिगृह्णन्तो वै ते तमयाजयंस्तस्मात्प्रतिगृह्णता याज्यमुभये राध्नुवन्ति य एवं विद्वांसो यजन्ते च याजयन्ति च ते वा इम ऋतवश्च मासाश्च गुरव इवामन्यन्त द्वादशाहे प्रतिगृह्य तेऽब्रुवन्प्रजापतिं याजय नो द्वादशाहेनेति स तथेत्यब्रवीत्ते वै दीक्षध्वमिति ते पूर्वपक्षाः पूर्वे दीक्षन्त ते पाप्मानमपाहत तस्मात्ते दिवेव दिवेव ह्यपहतपाप्मानोऽपरपक्षा अपरेऽदीक्षन्त ते नतराम्पाप्मानमपाहत तस्मात्ते तम इव तम इव ह्यनपहतपाप्मानस्तस्मादेवं विद्वान्दीक्षमाणेषु पूर्वः-पूर्व एव दिदीक्षिषेता प पाप्मानं हते य एवं वेद स वा अयम्प्रजापतिः संवत्सर ऋतुषु च मासेषु च प्रत्यतिष्ठत्ते वा इम ऋतवश्च मासाश्च प्रजापतावेव संवत्सरे प्रत्यतिष्ठंस्त एतेऽन्योन्यस्मिन्प्रतिष्ठिता एवं ह वाव स ऋत्विजि प्रतितिष्ठति यो द्वादशाहेन यजते तस्मादाहुर्न पापः पुरुषो याज्यो द्वादशाहेन नेदयम्मयि प्रतितिष्ठादिति ज्येष्वहयज्ञो वा एष यद्द्वादशाहः स वै देवानां ज्येष्ठो य एतेनाग्रेऽयजत श्रेष्ठयज्ञो वा एष यद्द्वादशाहः स वै देवानां श्रेष्ठो य एतेनाग्रेऽयजत ज्येष्ठः श्रेष्ठो यजेत कल्याणीह समा भवति न पापः पुरुषो याज्यो द्वादशाहेन नेदयम्मयि प्रतितिष्ठदितीन्द्राय वै देव ज्यैष्ठ्याय श्रैष्ठ्याय नातिष्ठन्त सोऽब्रवीद्बृहस्पतिं याजय मा द्वादशाहेनेति तमयाजयत्तलो वै तस्मै देवा ज्यैष्ठ्याय श्रैष्ठ्यायातिष्ठन्त तिष्ठन्तेऽस्मै स्वा ज्यैष्ठ्याय श्रैष्ठ्याय समस्मिन्स्वाः श्रेष्ठतायां जानते य एवं वेदोर्ध्वो वै प्रथम स्त्र्?यहस्तिर्यङ्मध्यमोऽर्वाङुत्तमः स यदूर्ध्वः प्रथम स्त्र्?यहस्तस्मादयमग्निरूर्ध्व उद्दीप्यत ऊर्ध्वा ह्येतस्य दिग् यत्तिर्यङ्मध्यमस्तस्मादयं वायुस्तिर्यङ्पवते तिरश्चीरापो वहन्ति तिरश्ची ह्येतस्य दिग् यदर्वाङुत्तमस्तस्मादसावर्वाङ्तपत्यर्वाङ्वर्षत्यर्वाञ्चि नक्षत्राण्यार्वाचि ह्येतस्य दिक् सम्यञ्चो वा इमे लोकाः सम्यञ्च एते त्र्?यहाः सम्यञ्चोऽस्मा इमे लोकाः श्रियै दीद्यति य एवं वेद॥4.25॥
 
 
पङ्क्तिः ११२:
 
801
अग्निर्वै देवता प्रथममहर्वहति त्रिवृत्स्तोमो रथंतरं साम गायत्री छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं यद्युक्तवद्यद्र थवद्यदाशुमद्यत्पिबवद्यत्प्रथमेयद्युक्तवद्यद्रथवद्यदाशुमद्यत्पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यद्र ?ाथंतरंयद्राथंतरं यद्गायत्रं यत्करिष्यदेतानि वै प्रथमस्याह्नो रूपाण्युपप्रयन्तो अध्वरमिति प्रथमस्याह्न आज्यम्भवति प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं वायवा याहि दर्शतेति प्रउगमेति प्रथमेऽहनि प्रथमस्याह्नो रूपमा त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ रथवच्च पिबवच्च प्रथमेऽहनि प्रथमस्याह्नो रूपमिन्द्र नेदीय एदिहीतीन्द्र निहवः प्रगाथः प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपम्प्रैतु ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः प्रथमेषु पदेषु देवता निरुच्यन्ते प्रथमेऽहनि प्रथमस्याह्नो रूपम्प्र वा इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमा यात्विन्द्रोऽवस उप न इति सूक्तमेति प्रथमेऽहनि प्रथमस्याह्नो रूपमभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथंतरम्पृष्ठम्भवति राथंतरेऽहनि प्रथमेऽहनि प्रथमस्याह्नो रूपं यद्वावान पुरुतमम्पुराषाळ् इति धाय्या वृत्रहेन्द्रो नामान्यप्रा इत्येति प्रथमेऽहनि प्रथमस्याह्नो रूपम्पिबा सुतस्य रसिन इति सामप्रगाथः पिबवान्प्रथमेऽहनि प्रथमस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यम्पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै तार्क्ष्यः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद॥4.29॥
 
 
806
आ न इन्द्रो दूरादा न आसादिति सूक्तमेति प्रथमेऽहनि प्रथमस्याह्नो रूपं सम्पातौ भवतो निष्केवल्यमरुत्वतीययोर्निविद्धाने वामदेवो वा इमाँ ल्लोकान-पश्यत्तान्सम्पातैःल्लोकानपश्यत्तान्सम्पातैः समपतद्यत्सम्पातैः समपतत्तत्सम्पातानां सम्पातत्वं तद्य-त्सम्पातौ प्रथमेऽहनि शंसति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्यै तत्स-वितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि प्रथमेऽहनि प्रथमस्याह्नो रूपं युञ्जते मन उत युञ्जते धिय इति सावित्रं युक्तवत्प्रथमेऽहनि प्रथमस्याह्नो रूपम्प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति द्यावापृथिवीयम्प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमिहेह वो मनसा बन्धुता नर इत्यार्भवं यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं तद्यत्प्रेति सर्वमभ-विष्यत्प्रैष्यन्नेवास्माल्लोकाद्यजमाना इति तद्यदिहेह वो मनसा बन्धुता नर इत्यार्भवम्प्रथमेऽहनि शंसत्ययं वै लोक इहेहास्मिन्नेवैनांस्तल्लोके रमयति देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवम्प्रथमे पदे देवता निरुच्यन्ते प्रथमेऽहनि प्रथमस्याह्नो रूपम्महान्तं वा एतेऽध्वानमेष्यन्तो भवन्ति ये संवत्सरं वा द्वादशाहं वासते तद्यद्देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेव-म्प्रथमेऽहनिवैश्वदेवम्प्रथमेऽहनि शंसति स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद येषां चैवं विद्वानेतद्धोता देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवम्प्रथमेऽहनि शंसति वैश्वानराय पृथुपाजसे विप इत्याग्निमारुतस्य प्रतिपत्प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपम्प्रत्वक्षसो प्रतवसो विरप्शिन इति मारुतम्प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्याम्पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै जातवेदस्याः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पार-मश्नुते य एवं वेद प्र तव्यसीं नव्यसीं धीतिमग्नय इति जातवेदस्यम्प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं समानमाग्निमारुतम्भवति यच्चाग्निष्टोमे यद्वै यज्ञे समानं क्रियते तत्प्रजा अनु समनन्ति तस्मात्सानमाग्निमारुतं भवति॥4.30॥