"ऋग्वेदः सूक्तं ३.४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
{{ऋग्वेदः मण्डल ३}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
 
<div class="verse">
<pre>
समित्समित्सुमना बोध्यस्मे शुचाशुचा सुमतिं रासि वस्वः ।
आ देव देवान्यजथाय वक्षि सखा सखीन्सुमना यक्ष्यग्ने ॥१॥
Line ३६ ⟶ ३४:
बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥११॥
 
</span></poem>
*[[ऋग्वेद:]]
{{सायणभाष्यम्|
</pre>
' समित्समित् ' इत्येकादशर्चं चतुर्थं सूक्तं वैश्वामित्रं त्रैष्टुभम् । अत्रानुक्रमणिका- समित्समिदाप्रियः ' इति । इध्मादिस्वाहाकृत्यन्ताः पूर्वोक्ताः प्रत्यृचं देवताः । पशौ वैश्वामित्राणामाप्रीसूक्तम् । दर्शपूर्णमासयोः पत्नीसंयाजेषु त्वष्टुर्याज्या ' तन्नः ' इत्येषा । सूत्रितं च-'इह त्वष्टारमग्रियं तन्नस्तुरीपमध पोषयित्नु ' (आश्व. श्रौ. १. १०) इति । त्वाष्ट्रे पशौ पुरोडाशस्यानुवाक्या । सूत्रितं च-' तन्नस्तुरीपमध पोषयित्नु देवस्त्वष्टा सविता विश्वरूपः ' ( आश्व. श्रौ. ३.८) इति ।।
</div>
 
{{ऋग्वेदः मण्डल ३}}
 
स॒मित्स॑मित्सु॒मना॑ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा॑सि॒ वस्वः॑ ।
 
आ दे॑व दे॒वान्य॒जथा॑य वक्षि॒ सखा॒ सखी॑न्सु॒मना॑ यक्ष्यग्ने ॥
 
समित्ऽसमित्। सुऽमनाः। बोधि। अस्मे इति। शुचाऽशुचा। सुऽमतिं । रासि। वस्वः।
 
आ। देव। देवान्। यजथाय। वृक्षि । सखा। सखीन्। सुऽमनाः। यक्षि । अग्ने ॥१॥
 
समित्समित् अत्यर्थं समिद्धस्त्वं सुमना बोधि । बुध्यस्व । शुचा शुचात्यर्थं प्रसर्पकेण ज्योतिषा युक्तस्त्वं वस्वो वसुनो धनस्य तद्विषयां सुमतिं शोभनां बुद्धिमस्मे अस्मभ्यं रासि । देहि । हे देव द्योतमान देवान्यजनीयान्यजथाय यज्ञाय तदर्थमावक्षि । आवहसि । हे अग्ने सखा देवानां सखा त्वं सुमनाः सन् सखीन्देवान्यक्षि । यजस्व ।।
 
 
यं दे॒वास॒स्त्रिरह॑न्ना॒यज॑न्ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
 
सेमं य॒ज्ञं मधु॑मन्तं कृधी न॒स्तनू॑नपाद्घृ॒तयो॑निं वि॒धन्त॑म् ॥
 
यं । देवासः। त्रिः। अहन् । आऽयजंते । दिवेऽदिवे । वरुणः। मित्रः। अग्निः ।।
 
सः । इमं यज्ञं । मधुऽमंतं । कृधि । नः। तनूऽनपात् । घृतऽयोनिं । विधंतं ॥२॥
वरुणो मित्रोऽग्निः एते त्रयो देवा यमग्निं दिवेदिवे प्रतिदिवसं अहन् अहनि त्रिः प्रातर्मध्याह्नसायंतनेषु सवनेषु त्रिवारमायजंते हे तनूनपात् तनूनां शरीराणां न पातयितः स त्वं घृतयोनिं घृतस्योदकस्य कारणं विधंतं विधीयमानं क्रियमाणं नोऽस्मदीयमिमं यज्ञं मधुमंतं । मध्वित्युदकनाम। वृष्ट्यादिफलयुक्तं कृधि। कुरु ॥
 
 
प्र दीधि॑तिर्वि॒श्ववा॑रा जिगाति॒ होता॑रमि॒ळः प्र॑थ॒मं यज॑ध्यै ।
 
अच्छा॒ नमो॑भिर्वृष॒भं व॒न्दध्यै॒ स दे॒वान्य॑क्षदिषि॒तो यजी॑यान् ॥
 
प्र। दीधितिः। विश्वऽवारा। जिगाति । होतारं। इळः। प्रथमं । यजध्यै।
 
अच्छ। नमःऽभिः । वृषभं । वंदध्यै। सः । देवान्। यक्षत्। इषितः । यजीयान् ॥३॥
 
विश्ववारा विश्वैजनैर्वरणीया दीधितिः स्तुतिर्दीप्तिर्वा होतारं देवानामाह्वातारमग्निं प्रजिगाति । जिगातु । प्रकर्षेण गच्छतु । प्रथमं मुख्यमच्छाभिमुख्येन वृषभं संपदां वर्षितारं वंदध्यै वंदितुं योग्यमिति शेषः । अग्निं नमोभिर्नमस्कारैः सहेळः इषो हवीरूपाण्यन्नानि यजध्यै यष्टुं प्रीणयितुं प्रजिगातु । इषितोऽस्माभिः प्रेरितो यजीयान् यष्टृतमः सोऽग्निर्देवान् यक्षत् । यजतु ॥
 
 
ऊ॒र्ध्वो वां॑ गा॒तुर॑ध्व॒रे अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां॑सि ।
 
दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता॑ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ॥
 
ऊर्ध्वः । वां। गातुः । अध्वरे। अकारि । ऊर्ध्वा । शोचींषि । प्रऽस्थिता। रजांसि ।
 
दिवः । वा। नाभा। नि। असादि। होता। स्तृणीमहि। देवऽव्यचाः। वि। बर्हिः ॥४॥
 
वां युवयोः । अग्निश्च बर्हिश्चोभौ वामित्युच्येते । समिदादिभिः सहितस्यैवाग्नेर्देवतात्वात् । ऊर्ध्व उन्नतो गातुर्यज्ञमार्गोऽध्वरे यज्ञेऽकारि । आश्रयः क्रियते । शोचींष्यर्चिष्मंति रजांसि हवींष्यूर्ध्वोर्ध्वं प्रस्थिता । होताग्निर्दिवो दीप्यमानस्य यागगृहस्य नाभा नाभौ मध्यप्रदेशे न्यसादि । निषीदति । देवव्यचा देवैर्व्याप्तं बर्हिश्च ।। चार्थे वाशब्दः । विस्तृणीमहि । विशेषेण स्तृणीमः ॥
 
 
स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्व॑न्तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ ।
 
नृ॒पेश॑सो वि॒दथे॑षु॒ प्र जा॒ता अ॒भी॒३॒॑मं य॒ज्ञं वि च॑रन्त पू॒र्वीः ॥
 
सप्त। होत्राणि । मनसा । वृणानाः । इन्वंतः। विश्वं । प्रति । यन्। ऋतेन ।।
 
नृऽपेशसः । विदथेषु । प्र। जाताः । अभि। इमं । यज्ञं। वि। चरंत। पूर्वीः ॥५॥
 
मनसा वृणानाः प्रार्थ्यमाना ऋतेनोदकेन विश्वमिन्वंतः प्रीणयंतो देवाः सप्त होत्राणि होतॄणां वषट्कर्तॄणां कर्माणि प्रतियन् । प्रतिगच्छंति । अतः परं द्वारां स्तुतिः । नृपेशसो नररूपा विदथेषु यागेषु जाता उत्पन्नाः पूर्वोर्बह्व्यो विग्रहवत्यो यज्ञद्वाराभिमानिदेवता इममस्मदीयं यज्ञं प्र विचरंत । प्रविचरंतु ॥ ॥२२॥
 
 
आ भन्द॑माने उ॒षसा॒ उपा॑के उ॒त स्म॑येते त॒न्वा॒३॒॑ विरू॑पे ।
 
यथा॑ नो मि॒त्रो वरु॑णो॒ जुजो॑ष॒दिन्द्रो॑ म॒रुत्वाँ॑ उ॒त वा॒ महो॑भिः ॥
 
आ।भंदमाने इति।उषसौ। उपाके इति। उत।स्मयेते इति। तन्वा।विरूपे इति विऽरूपे।
 
यथा। नः। मित्रः। वरुणः । जुजोषत् । इंद्रः। मरुत्वान्। उत। वा। महःऽभिः ॥६॥
 
आ भंदमाने स्तूयमाने उपाके परस्परं संगते ॥ उषसानक्तापेक्षया द्विवचनं ॥ नक्तोषसौ रात्र्यहनी आगच्छतां । उत अपि च विरूपे पृथग्रूपे तन्वा प्रकाशरूपेण शरीरेण स्मयेते । प्रकाशेते । मित्रो वरुण उत वा अपि चेंद्रो मरुत्वांश नोऽस्मान्यथा जुजोषत् यथा सेवेत तथा महोभिस्तेजोभिर्युक्ते इमे द्यावापृथिव्यौ कुरुतां ॥
 
 
दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदन्ति ।
 
ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥
 
दैव्या। होतारा। प्रथमा । नि। ऋंजे। सप्त । पृक्षासः । स्वधया। मदंति।
 
ऋतं । शंसंतः । ऋतं । इत् । ते। आहुः । अनु । व्रतं । व्रतऽपाः । दीध्यानाः ॥७॥
 
दैव्या दिव्यौ प्रथमा प्रथमौ मुख्यौ होताराह्वातारावग्नी न्यृंजे । प्रसाधयामि । ऋतमुदकं शंसंत आशंसमानाः सप्त पृक्षासः । पृक्षमन्नं । तद्वंत ऋत्विजस्तमग्निं स्वधया सोमेन हविषा मदंति । मादयंति । व्रतपा व्रतानां कर्मणां रक्षितारो दीध्याना दीप्यमानाः अथवा स्वकर्मभिरग्निं दीपयंत ऋत्विजोऽनु व्रतं व्रतेषु । ऋतमित् अग्निमेवाहुः । अग्निमेव ऋतभूतमाहुरित्यर्थः । एवकारार्थे इच्छब्दः ॥
 
 
आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः ।
 
सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ॥
 
आ। भारती। भारतीभिः । सऽजोषाः । इळा । देवैः । मनुष्येभिः । अग्निः ।।
 
सरस्वती । सारस्वतेभिः । अर्वाक् । तिस्रः । देवीः । बर्हिः । आ । इदं । सदंतु ॥८॥
 
भारतीभिर्भरतस्य सूर्यस्य संबंधिनीभिः सजोषाः संगता भारती वाक् आगच्छतु । देवैर्मनुष्येभिर्मनुष्यैश्च संगत्येळा च भूमिश्चागच्छतु अग्निश्च । सारस्वतेभिः सरस्वतीसंबंधिभिर्मध्यमस्थानैः सह सरस्वती माध्यमिका वागागच्छतु । तिस्रो देव्यो वागिळाभारत्य आगच्छंतु । अर्वागाभिमुखमेतद्बर्हिरा सदंतु । आसीदंतु ॥
 
 
तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व ।
 
यतो॑ वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥
 
तत्। नः। तुरीपं । अध। पोषयित्नु । देव । त्वष्टः। वि। रराणः । स्यस्वेति स्यस्व ।
 
यतः। वीरः। कर्मण्यः। सुऽदक्षः । युक्तऽग्रावा। जायते । देवऽकामः ॥९॥
 
हे देव त्वष्टः सृष्टिकर्तः रराणो रममाणस्त्वमध अनंतरं नोऽस्मान् तुरीपं तारकं पोषयित्नु पोषकं तत्प्रसिद्धं रेतो विष्यस्व । मोचय । यतो विमोचनाद्वीरः सत्त्ववान् कर्मण्यः कर्मसु कुशलः सुदक्षः सुबलो युक्तग्रावाभिषवार्थग्रावयुक्तः । सोमसुदित्यर्थः । देवकामो देवान् कामयमानः पुत्रो जायते । जायेत ।।
 
 
वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति ।
 
सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥
 
वनस्पते । अव । सृज। उप । देवान्। अग्निः। हविः। शमिता। सूदयाति ।
सः। इत्।ऊं इति। होता। सत्यऽतरः। यजाति। यथा। देवानां। जनिमानि। वेद ॥१०॥
 
हे वनस्पते देवानुपावसृज। समीपे कुरु । शमिता पशोः संस्कर्ताग्निर्वनस्पतिश्च हविः सूदयाति । देवान्प्रति प्रेरयतु । सत्यतरोऽत्यर्थं सत्यः सत्यस्वरूपः स इत् स एव होता यजाति । यजतु । यथा यतः कारणात्स एवाग्निर्देवानां जनिमानि जन्मानि वेद वेत्ति अतः स एव यजत्वित्यर्थः ॥
 
 
आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑ ।
 
ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥
 
आ। याहि । अग्ने। संऽइधानः। अर्वाङ्। इंद्रेण । देवैः। सऽरथं । तुरेभिः ।
 
बर्हिः। नः। आस्तां। अदितिः। सुऽपुत्रा। स्वाहा। देवाः। अमृताः। मादयंतां ॥११॥
 
हे अग्ने अर्वाक् अस्मदभिमुखं समिधानः समिध्यमानो ज्वालारूपेण दीप्यमानस्त्वमायाहि । देवतारूपेणागच्छ । कथमिति उच्यते । नोऽस्माकं यज्ञमिंद्रेण देवैश्च तुरेभिस्त्वरमाणैर्देवैः सरथं समानरथं यथा तथायाहि । किंच सुपुत्रादितिरपि नो बर्हिरास्तां । अध्यास्तां । स्वाहाकारेण युक्ता अमृता नित्या देवा मादयंतां । तृप्यंतु ॥ ॥ २३ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४" इत्यस्माद् प्रतिप्राप्तम्