"जैमिनीयं ब्राह्मणम्/काण्डम् ३/०४१-०५०" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य जैमिनीयं ब्राह्मणम्/काण्डम् ३/४१-५० पृष्ठं [[जैमिनीयं ब्राह्म...
No edit summary
पङ्क्तिः २०:
इति यद् वै शतवत् सहस्रवत् तज् जगत्यै रूपम्। जागतम् एतद् अहः। न जातम् अष्ट रोदसी इतीमे ह वाव रोदसी। एते एवैतद् अभिवदति। आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसेति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। अस्मे अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिर् ऊतिभिर् इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। पशवो ह्य् एतद् अहः। तासु वैरूपम्। संवत्सरो वै विरूपो, विरूपा ऋतवो, विरूपा अर्धमासाः। तद् यत् पञ्चनिधनं पञ्च ह्य् ऋतवो, यद् द्वादशनिधनं द्वादश हि मासा, यद् दिग्वद् आक्रमणवत् तेन, यद् विश्ववद् वैश्वदेवं ह्य् एतद् अहः। प्रजननं वा एतद् वैरूपम्। तद् यत् तृतीये ऽहन् क्रियते चतुर्थस्याह्नः प्रजात्यै। यद् देवा अभवंस् तद् असुरा अभवन्। ते देवा अश्वा अभवंस्, तद् असुरा नान्ववायन्। ततो वै देवा अभवन्, परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥3.48॥
 
तद् यद् अश्ववद् भवति भ्रातृव्यस्यैवापनुत्त्यै। अध्यर्धेळा तृतीयस्याह्नो ऽध्यर्धेळा पञ्चमस्य। स यथा मण्डूक इट्कुर्याद् एवम् अत्रेट्कुर्यात्। तेनैव पचमम्पञ्चमम् अहर् अयातयाम क्रियते। सर्वा वै वाक् तृतीये ऽहन्न् आप्यते। तद् यद् एते वृकणावा भवन्त्य् उभय्या एव वाच उपाप्त्यै, या च ग्राम्या या चारण्या। पञ्चनिधनं तु कार्यतरम्। भूयः प्रजननं, प्रजननस् संवत्सरः, प्रजनना ऋतवः, प्रजनना। अर्धमासा, अथेतरद् एकप्रजननं मासा एव। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। वयं घ त्वा सुतावन्त इति सतोबृहतीर् आक्रमन्ते ऽनपभ्रंशाय॥3.49॥
 
तासु वैष्टम्भम्। वैष्टम्भेन वै देवा असुरान् एभ्यो लोकेभ्यो निष्टभ्य स्व आयतने सत्रम् आसत। वैष्टम्भेनैव द्विषन्तं भ्रातृव्यम् एभ्यो लोकेभ्यो निष्टभ्य स्व आयतने सत्रम् आस्ते य एवं वेद। नैष्टम्भं ह वै नामैतत्। तद् वैष्टम्भम् इत्य् आख्यायते। उदरं वा एतद् अहः। अन्नम् एतद् यद् वैष्टम्भम्। तद् यद् अत्र वैष्टम्भं क्रियते मध्यत एवैतद् आत्मनो ऽन्नाद्यं दधते। तस्माद् उ हेदं पुरुषो ऽन्नेन विष्टब्ध इव। तरणिर् इत् सिषासतीति प्रज्ञाता स्तोत्रिया भवन्ति। तासु रौरवं त्रिरूपं त्रिपरिष्टोभं तृतीयस्याह्नो रूपम्। अग्निर् वै रुरू, रुद्रो ऽग्निः। यस्मात् पशवो ऽपक्रामन्त्य् अग्निर् एव तस्मात् पशून् अपक्रमयति। अथ यं पशव उपनमन्त्य् अग्निर् एव तस्मै पशून् उपनमयति। आग्नेयास् सत्रिण स्वैवैभ्यो देवता पशून् अवरुन्द्धे। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.50॥