"जैमिनीयं ब्राह्मणम्/काण्डम् १/०४१-०५०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
चतुर्थं हाजगाम। द्वे स्त्रियौ महद् वित्तं जुगुपतुः। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥
 
पञ्चमं हाजगाम। लोहितकुल्यां च घृतकुल्यां च प्रबाहुक् स्यन्दमाने । सा या लोहितकुल्यास् तां कृण्णोकृष्णो नग्नः पुरुषो मुसली जुगोप। अथ या घृतकुल्या तस्यै हिरण्मयाः पुरुषा हिरण्मयैश् चमसैस् सर्वान् कामान् उदचिरे। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥
 
षष्ठं हाजगाम। पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर् मधूदकास् स्यन्दमानाः. तासु नृत्तगीतं वीणाघोषो ऽप्सरसां गणास् सुरभिर् गन्धो महान् घोषो बभूव। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥1.42॥
 
स ह तत एवाववृते। स ह वरुणम् एवाजगाम। तं होवाचागस् ताता इति। आगां ततेति। अदर्शस् ताता इति। अदर्शं ततेति। किं ततेति। पुरुष एव पुरुषं संवृश्च्याथैनम् अघद् इति। ओम् इति होवाच। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो वनस्पतीन् संवृश्च्याभ्यादधति तान् वा अमुष्मिन् लोके वनस्पतयः पुरुषरूपं कृत्वा प्रत्यदन्ति। तस्य का निष्कृतिर् इति। यद् एवैतत् समिधम् अभ्यादधाति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति॥
किं द्वितीयम् इति। पुरुष एव पुरुषम् आक्रन्दयन्तम् अघद् इति। ओम् इति होवाच। ये वा अस्मिन् लोक ऽग्निहोत्रम् अजुहुह्वतो नैवंविदः पशून् आक्रन्दयतः पचन्ते तान् वा अमुष्मिन् लोके पशवः पुरुषरूपं कृत्वा प्रत्यदन्ति। तस्य का निष्कृतिर् इति। यद् एवैतद् वाचा पूर्वाम् आहुतिं जुहोति सा तस्य निषकृतिस्निष्कृतिस् तया तद् अतिमुच्यत इति॥
 
किं तृतीयम् इति। पुरुष एव पुरुषं तूष्णीम् अव्याहरन्तम् अघद् इति। ओम् इति होवाच। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो व्रीहियवांस् तूष्णीम् अव्याहरतः पचन्ते तान् वा अमुष्मिन् लोके व्रीहियवाः पुरुषरूपं कृत्वा प्रत्यदन्ति। तस्य का निष्कृतिर् इति। यद् एवैतन् मनसोत्तराम् आहुतिं जुहोति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति॥