"ऋग्वेदः सूक्तं १०.६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११२:
 
कृ॒शानु॒मस्तॄ॑न्ति॒ष्यं॑ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ॥
 
त्रिः सप्त एकविंशतिसंख्याकाः सस्राः सरन्तीः नद्यः नदीः । सरस्वती सरयुः सिन्धुरिति त्रयाणां गणानां प्रधानभूताः । तदाद्या नदीः महीः महान्ति अपः तासामुदकानि सोमाभिषेकार्थं वनस्पतीन् दारुमयांश्चमसादीन् पर्वतान् सोमाभिषवार्थं ग्राव्णः अग्निं होमनिष्पादकं कृशानु सोमपालमेतन्नामानं गन्धर्वम् अस्तॄन् इषूणां क्षेप्तॄंस्तदनुचरान् गन्धर्वान् ऊतये सोमरक्षणाय तिष्यं नक्षत्रं च रुद्रियं रुद्रस्तोमार्हं रुद्रं हविर्भागिनं रुद्रमेतन्नामानं यद्वा यज्ञपरिशिष्टस्वामिनं रुद्रं च एतान् सर्वान् सधस्थे । सह तिष्ठन्त्यत्रेति सधस्थो यज्ञः । तस्मिन् रुद्रेषु स्तोत्रकारिषु तदर्थं
हवामहे स्तुत्यत्वेनाह्वयामहे ।।
 
 
सर॑स्वती स॒रयु॒ः सिन्धु॑रू॒र्मिभि॑र्म॒हो म॒हीरव॒सा य॑न्तु॒ वक्ष॑णीः ।
 
दे॒वीरापो॑ मा॒तरः॑ सूदयि॒त्न्वो॑ घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ॥
 
महः महतोऽपि महीः महत्योऽत्यन्तं महत्यः ऊर्मिभिः सहिताः सरस्वती सरयुः
सिन्धुः एतदाद्या एकविंशतिसंख्याकाः वक्षणीः इमा नद्यः अवसा रक्षणेन हेतुना आ यन्तु अस्मदीयं यज्ञं प्रत्यागच्छन्तु । ततः देवीः देवनशीलाः मातरः मातृभूताः सूदयित्न्वः प्रेरयित्र्यः तासाम् आपः घृतवत् घृतयुक्तं मधुमत् मधुसहितमात्मीयं पयः नः अस्मभ्यम् अर्चत प्रयच्छन्तु ।।
 
 
उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ ।
 
ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो॑ र॒ण्वः शंसः॑ शशमा॒नस्य॑ पातु नः ॥
 
उत अपि च बृहद्दिवा । ' महद्दिवा ' (निरु ११. ४९) इति यास्कः । महती दिवा दीप्तिर्यस्याः सा माता देवमाता नः अस्माकमाह्वानं शृणोतु । तथा देवेभिः देवैरिन्द्रादिभिः जनिभिः देवपत्नीभिश्च पिता सर्वेषां त्वष्टा एतन्नामकोऽस्मदीयं वचः शृणोतु । तथा ऋभुक्षाः इन्द्रः वाजः तत्सहायो वाजो नाम सौधन्वनः कनीयान् रथस्पतिः रथस्थ पतिः भगः च तथा रण्वः रमणीयः शंसः स्तुत्यो मरुद्गणश्च ततः शशमानस्य शंसमानस्य स्तोतुः नः अस्मान् पातु रक्षतु ।। ।। ७ ।।
 
 
र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः ।
 
गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥
 
हे मरुतः हे इन्द्र देवाः हे वरुण हे मित्र यूयं यां धियं यत्कर्म मे मह्यम्
अददात दत्तवन्तः स्थ । मरुत इत्यत्र वाक्यभेदादनिघातः । पूर्वपूर्वस्याविद्यमानत्वेनाद्युदात्तत्वम् । तां धियं पीपयत फलेनाप्याययत । तत्र दृष्टान्तः । पयसेव धेनुम् । नवप्रसूतिकां गां क्षीरेण यथाप्याययन्ति तद्वत् । किंच गिरः अस्मदीयाः स्तुतीः अधि रथे आत्मीये रथे कुवित् बहुवारं वहाथ प्राप्ताः स्थ । स्तुतेषु सत्सु यज्ञं प्रत्यागमनाय रथारूढा भवथ ।।
 
 
यां मे॒ धियं॒ मरु॑त॒ इन्द्र॒ देवा॒ अद॑दात वरुण मित्र यू॒यम् ।
 
तां पी॑पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ॥
 
हे मरुतः हे इन्द्र देवाः हे वरुण हे मित्र यूयं यां धियं यत्कर्म मे मह्यम्
अददात दत्तवन्तः स्थ । मरुत इत्यत्र वाक्यभेदादनिघातः । पूर्वपूर्वस्याविद्यमानत्वेनाद्युदात्तत्वम् । तां धियं पीपयत फलेनाप्याययत । तत्र दृष्टान्तः । पयसेव धेनुम् । नवप्रसूतिकां गां क्षीरेण यथाप्याययन्ति तद्वत् । किंच गिरः अस्मदीयाः स्तुतीः अधि रथे आत्मीये रथे कुवित् बहुवारं वहाथ प्राप्ताः स्थ । स्तुतेषु सत्सु यज्ञं प्रत्यागमनाय रथारूढा भवथ ।।
 
 
कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ ।
 
नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ॥
 
अङ्ग इति संबुद्धौ । हे मरुतः यूयं नोऽस्मान् कुवित् बहुवारं प्रति बुबोधथ तथा प्रतिबुध्यध्वम् । कुविच्छब्दयोगादनिघातः । यथा नः अस्मान् सजात्यस्य अस्य बान्धवस्य विषयभूतान् कुरुथ तथा जानीथ । ततः नाभा पृथिव्या नाभिस्थाने यत्र यस्मिन्नुत्तरवेदिलक्षणे देशे प्रथमम् एव संनसामहे हविषा यत्र संगच्छेमहि पतत्र एव देशे अदितिः देवानां माता नः अस्माकं जामित्वं मनुष्यैः सह बान्धवं दधातु विदधातु ।।
 
 
ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः ।
 
उ॒भे बि॑भृत उ॒भयं॒ भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ॥
 
मातरा सर्वस्य जगतो निर्मात्र्यौ अत एव मही महत्यौ देवी देवनशीले यज्ञिये यज्ञार्हे
ते द्यावापृथिवी द्यावापृथिव्यौ देवान् इन्द्रादीन् जन्मना एव इतः हि प्राप्नुतः खलु ।
' इण गतौ ' । लटि रूपम् । किंच उभे द्यावापृथिव्यौ भरीमभिः भरणैर्नानाविधैः उभयं जनं देवान्मनुष्यांश्च बिभृतः धारयतः पोषयतः । तथा पितृभिः पालकैर्देवैः संगते ते पुरु पुरूण्यात्मीयानि रेतांसि उदकानि सिञ्चतः क्षरतः । प्रत्यक्षेण धारयतः ।।
 
 
वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑ति॒ः पनी॑यसी ।
 
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदवी॑वशन्त म॒तिभि॑र्मनी॒षिणः॑ ॥
 
होत्रा । वाङ्नामैतत् । आहूयन्तेऽनया देवा इति । सा वाक् वार्यं वरणीयं विश्वं सर्वं पश्वादिसहितं धनं वि अश्नोति विविधं व्याप्नुते । कीदृशी । बृहस्पतिः बृहतां महतां पालयित्री अरमतिः पर्याप्तस्तुतिः यद्वा कुत्राप्यनुपरता पनीयसी अत्यन्तं देवानां स्तोत्रकारिणी । यत्र यस्यां होत्रायां मधुषुत् सोममभिषुण्वन् बृहत् महान् ग्रावा उष्यते अभिधीयते । स्तूयत इत्यर्थः । तं स्तुतिमन्तं यज्ञं मनीषिणः देवाः मतिभिः स्तुतिभिः सह अवीवशन्त कामयन्ते । वष्टेर्ण्यन्तस्य लुङि रूपम् । यद्वा । मनीषिणः स्तोतारः स्तुतिभिर्देवान्यज्ञं कामयमानान् कुर्वन्ति ।।
 
 
ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः ।
 
उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ॥
 
कविः क्रान्तप्रज्ञः तुवीरवान् । मत्वर्थीयप्रत्ययावृत्तिः । बहुस्तुतियुक्तः ऋतज्ञाः यज्ञस्य वेदिता द्रविणस्युः धनकामः । ' सर्वप्रातिपदिकेभ्यो लालसायाम्' इति सुगागमः । तस्यैव विशदवचनं द्रविणसश्चकानः इति । पश्वादिधनं कामयमान इत्यर्थः । विप्रः मेधावी गयः नामर्षिः एवमुक्तप्रकारेण अत्र सूक्ते उक्थेभिः शस्त्रैः मतिभिः स्तुतिभिः च दिव्यानि दिवि जातानि जन्म जननानि देवान् अपीपयत् अवर्धयत् । अस्तावीदित्यर्थः ।।
 
 
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।
 
ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥
 
इयं व्याख्याता ।। ।। ८ ।।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६४" इत्यस्माद् प्रतिप्राप्तम्