"ऋग्वेदः सूक्तं ३.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
}}
 
{{ऋग्वेदः मण्डल ३}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
त्वामग्ने मनीषिणः सम्राजं चर्षणीनाम् ।
देवं मर्तास इन्धते समध्वरे ॥१॥
पङ्क्तिः ३३:
 
 
</span></poem>
*[[ऋग्वेद:]]
 
</pre>
{{सायणभाष्यम्|
</div>
त्वामग्न इति नवर्चं दशमं सूक्तं वैश्वामित्रमौष्णिहमाग्नेयं । त्वामग्न औष्णिहमित्यनुक्रांतत्वात् ॥ प्रातरनुवाकाश्विनशस्त्रयोरौष्णिहे छंदस्यस्य सूक्तस्य विनियोगः । अथैतस्या इति खंडे सूचितं । पुरु त्वा त्वामग्ने । आ° ४. १३.। इति ॥
{{ऋग्वेदः मण्डल ३}}
 
 
त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं॑ चर्षणी॒नाम् ।
 
दे॒वं मर्ता॑स इन्धते॒ सम॑ध्व॒रे ॥
 
त्वां। अग्ने। मनीषिणः। संऽराजं। चर्षणीनां ।
 
देवं। मर्तासः । इंधते। सं। अध्वरे॥१॥
 
हे अग्ने मनीषिणो धीमंतोऽध्वर्युप्रभृतयो मर्तासो मनुष्याश्चर्षणीनां प्रजानां सम्राजमधिपतिं देवं द्योतमानं त्वामध्वरे यज्ञे समिंधते । सोमाज्यपयःप्रभृतिभिराहुतिभिः सम्यग्दीपयंति ॥ मनीषिणः । मनीषैषामस्तीति व्रीह्यादिभ्यश्चेति इनिः । यस्येति चेत्यवर्णलोपः । प्रत्ययस्वरः। सम्राजं । राजृ दीप्तौ। संपूर्वादस्माद्धातोः सत्सूद्विषेति क्विप् । क्विलोपः । समो मकारस्य मोऽनुस्वार इत्यनुस्वारे प्राप्ते मो राजि समः क्वाविति समो मकारः । कृदुत्तरपदप्रकृतिस्वरत्वं । चर्षणीनां। नामन्यतरस्यामिति विभक्तेरुदात्तत्वं । इंधते । ञिइंधी दीप्तौ। अस्माद्धातोर्हेतुमति चेति णिच् । लटि झस्यात्मनेपदेष्वनत इत्यदादेशः । छंदस्युभयथेति झस्यार्धधातुकत्वात् णेरनिटीति णिलोपः । निघातः ॥
 
 
त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता॑रमीळते ।
 
गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे॑ ॥
 
त्वां। यज्ञेषु । ऋत्विजं। अग्ने। होतारं। ईळते।
 
गोपाः। ऋतस्य। दीदिहि। स्वे ।दमे॥२॥
 
हे अग्नेऽध्वर्ध्वादयो यज्ञेष्वग्निष्टोमादिषु त्वां होतारमृत्विजं होतृनामकमृत्विजमीळते । स्तुवंति। तादृशस्त्वमृतस्य सत्यस्य यज्ञस्य गोपा गोपायिता सन् स्वे दमे स्वकीये गृहे यज्ञशालायां दीदिहि । दीप्यस्व ॥ दीदिहि । दिवु क्रीडादौ। यङलुक । लोट् । तुजादित्वादभ्यासदीर्घत्वं । संज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुणाभावे लोपो व्योर्वलीति वलोपः ॥
 
 
स घा॒ यस्ते॒ ददा॑शति स॒मिधा॑ जा॒तवे॑दसे ।
 
सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ॥
 
सः। घ। यः । ते । ददाशति । संऽइधा। जातऽवेदसे।
 
सः। अग्ने। धत्ते । सुऽवीर्यं। सः । पुष्यति ॥३॥
 
हे अग्ने यो यजमानो जातवेदसे जातप्रज्ञाय ते तुभ्यं समिधा समिंधनकारीण्याज्यपुरोडाशादिहवींषि ददाशति ददाति स घ स खलु सुवीर्यं शोभनसामर्थ्योपेतं पुत्रं धत्ते । धारयति । अपि च सः स एव पुष्यति । पशुपुत्रादिभिः समृद्धो भवति ॥ घ । चादयोऽनुदात्ता इत्यनुदात्तः । ददाशति । दाशृ दान इत्यस्माद्धातोः कर्तरि शप् । तिप् । द्विवचनं छांदसं । यद्वृत्तयोगादनिघातः । अभ्यस्तानामादिरित्युदात्तः । समिधा। ञिइंधी दीप्तौ । अस्मात् क्विप चेति क्विप् । उपधालोपः । सुपां सुलुगिति शसो डादेशः । कृदुत्तरपदं प्रकृतिस्वरत्वं । जातवेदसे । बहुव्रीहौ प्रकृत्या पूर्वपदमिति प्रकृतिस्वरत्वं । सुवीर्यं । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वं । पुष्यति । पुष पुष्टौ । अस्मात् श्यन् । ङित्त्वाद्गुणाभावः । निघातः ॥
 
 
स के॒तुर॑ध्व॒राणा॑म॒ग्निर्दे॒वेभि॒रा ग॑मत् ।
 
अ॒ञ्जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ॥
 
सः । केतुः। अध्वराणां। अग्निः । देवेभिः । आ। गमत् ।
 
अंजानः । सप्त। होतृऽभिः । हविष्मते ॥४॥
 
अध्वराणां यज्ञानां केतुः प्रज्ञापकः सोऽग्निः सप्त सप्तभिर्होतृभिर्वषट्कर्तृभिरंजानः सोमाज्याहुतिभिरज्यमानः सन् हविष्मते यजमानार्थं देवेभिर्यष्टव्यदेवैः सहागमत् । आगच्छतु ॥ गमत् । लोडर्थे छंदसि लुङ्लिङ्लिट इति लुङ् । लृदित्त्वादङ्। बहुलं छंदस्यमाङ्योग इत्यडभावः । निघातः । अंजानः । अंजू व्यक्तिम्रक्षणगतिषु । व्यत्ययेन कर्मणि शानच्। चित्त्वादंतोदात्तत्वं । हविष्मते । जुहोतेरर्चिशुचीत्यादिना इसिप्रत्ययांतो हविःशब्दोंऽतोदात्तः । स्वरविधौ व्यंजनमविद्यमानवदिति परिभाषानाश्रयणान्मतुप उदात्तत्वाभावः । इसिप्रत्ययस्वरः ॥
 
 
प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् ।
 
वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ॥
 
प्र। होत्रे। पूर्व्यं। वचः। अग्नये। भरत।बृहत्।
 
विपां। ज्योतींषि। बिभ्रते।न।वेधसे॥५॥
 
यजमानो होत्रादीन्प्रति ब्रूते । हे होत्रादयो विपां विप्राणां मेधाविनामध्वर्य्वादीनां ज्योतींषि सत्कर्मानुष्ठानसंपाद्यानि तेजांसि बिभ्रते निमित्ततया कुर्वाणाय वेधसे जगतो विधात्रे होत्रे देवानामाह्वात्रेऽग्नये बृहन्महत्पूर्व्यं पूर्वः कृतं पुरातनं वचः स्तोत्रशस्त्रादिकं वाक्यं प्रभरत । संपादयत । नेत्ययं पादपूरणोऽन्वयाभावात् । यद्वा वेधसे न। यथा वेधा जगद्विधाता परमेश्वर आदित्यादीनि ज्योतींषि करोति तद्वदिति ॥ प्रशब्दस्य छंदसि व्यवहिताश्चेति भरतेत्यनेन संबंधः । पूर्व्यं पूर्वैः कृतमित्यर्थः । पूर्वैः कृतमिनियौ चेति य प्रत्ययः ।। मसंज्ञकत्वादवर्णलोपः । प्रत्ययस्वरः । भरत । भृञ् भरणे भौवादिकः । निघातः । बृहत् । वर्तमाने पृषद्बृहदिति निपातनादंतोदात्तः । बिभ्रते । भृञ् भरणे । जुहोत्यादिभ्यः श्लुः । भृञामिदितीत्वं । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ॥ ७॥
 
 
अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑ ।
 
म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः ॥
 
अग्निं। वर्धंतु।नः। गिरः। यतः। जायते।उक्थ्यः ।
 
महे। वाजाय। द्रविणाय। दर्शतः॥६॥
 
योऽयमग्निर्यतो याभिः स्तुतिरूपाभिर्गीर्भिरुक्थ्यो जायते । उक्थ्यशब्दः प्रशस्यवाची । अनभिशस्त्य उक्थ्य इति तन्नामसु पाठात् । अतिशयेन स्तुत्यो भवतीत्यर्थः । यश्चायमग्निर्महे महते वाजायान्नाय द्रविणाय धनाय च दर्शतो दर्शनीयो भवति तमिमग्निं नो गिरोऽस्माकं स्तुतिरूपास्ता वाचो वर्धंतु। वर्धयंतु । पूजयंत्वित्यर्थः ॥ वर्धंतु । वृधु वर्धने । अस्माण्णिच् । लघूपधगुणः । छंदस्युभयथेत्यार्धधातुकत्वाण्णिलोपः । झेरंतादेशः । एरुः । पा°३. ४.८६.। इत्युकारः । निघातः । उक्थ्यः । वच परिभाषणे । अस्मात्पातॄतुदिवचिरिचीत्यादिना थक् । कित्वाद्वचिस्वपीत्यादिना संप्रसारणं । उक्थं शस्त्रं । तेन स्तुत्यत्वेन तत्र भव उक्थ्यः । भवे छंदसीति यत् । यस्येति लोपः । तित्स्वरितमिति स्वरितः । दर्शतः । भृमृदृशियजीत्यतच्प्रत्ययः । चित्त्वादंतोदात्तः ॥
 
 
अग्ने॒ यजि॑ष्ठो अध्व॒रे दे॒वान्दे॑वय॒ते य॑ज ।
 
होता॑ म॒न्द्रो वि रा॑ज॒स्यति॒ स्रिधः॑ ॥
 
अग्ने । यजिष्ठः । अध्वरे । देवान्। देवऽयते । यज ।
 
होता। मंद्रः । वि। राजसि। अति । स्रिधः ॥७॥
 
हे अग्ने यजिष्ठो यष्टृतमस्त्वमध्वरे यज्ञे देवयते देवानात्मन इच्छते यजमानाय देवान्यज । तदर्थं यष्टव्याग्न्यादीन्देवान्पूजय। किंच। होता देवानामाह्वाता मंद्रो यजमानस्य मादयिता स त्वं स्रिधः क्षपयितॄञ्छत्रूनति अतिक्रम्य वि राजसि । विशेषेण शोभसे ॥ यजिष्ठः । तुश्छंदसीतीष्ठन् । तुरिष्ठेमेयःस्विति तृचो लोपः ।। नित्त्वादावुदात्तः । देवयते । क्यचश्चित्वादंतोदात्तत्वं । शपः पित्त्वादनुदात्तत्वं । शतुश्च लसार्वधातुकस्वरेण तयोः क्यचा सहैकादेश एकादेश उदात्तेनोदात्त इत्यंतोदात्तो देवयच्छब्दः । ततः शतुरनुम इति विभक्तेः दात्तत्वं । यज । यज देवपूजासंगतिकरणदानेषु । अस्मालोट् । सिप् । सिपो हिरादेशः । अतो हेरिति हेर्लुक् । निघातः । राजसि । राजृ दीप्तौ । निघातः ॥
 
 
स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य॑म् ।
 
भवा॑ स्तो॒तृभ्यो॒ अन्त॑मः स्व॒स्तये॑ ॥
 
सः । नः । पावक । दीदिहि। द्युऽमत् । अस्मे इति । सुऽवीर्यं ।
 
भव । स्तोतृऽभ्यः । अंतमः । स्वस्तये ॥८॥
 
नः पावकास्मत्संबंधिनः पापस्य शोधक हे अग्ने स पूर्वमंत्रे प्रतिपादितस्त्वं द्युमत्कांतियुक्तं सुवीर्यं शोभन सामर्थ्योपेतं दानभोगार्हं धनमस्मे अस्मभ्यं दीदिहि । यद्वा द्युमत्तेजोयुक्तं सुवीर्यं शोभनवीयपेतं च यथा भवति तथास्मे अस्मदर्थं त्वं दीदिहि । दीप्यस्व । किंच स्तोतृभ्यः । षष्ट्यर्थे चतुर्थी । त्वद्विषयस्तुतिकारिणां होत्रादीनां स्वस्तयेऽविनाशनाय क्षेमायांतमोंऽतिकतमस्तेषामतिशयेन समीपवर्ती भव ॥ पावक । पूञ् पवने। अस्माद्धातोर्ण्वुच् । णित्त्वाद्वृद्धिः । वोरकादेशः । आमंत्रितत्वादाष्टमिकमनुदात्तत्वं । दीदिहि। दिवु क्रीडादौ। अस्माद्यङ् । तुजादीनामित्यभ्यासस्य दीर्घत्वं । संज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुणाभावः । बहुलं छंदसीति यङो लुक् । लोटि सिप् । चर्करीतं परस्मैपदमदादिवच्चेति वचनाच्छपो लुक् । सिपो हिरादेशः । लोपो व्योर्वलीति वलोपः । हेरपित्त्वादगुणः । निघातः । द्युमत् । दिव उदित्युकारः । ह्रस्वनुड्भ्यामिति मतुप उदात्तत्वं । सुवीर्यं । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वं । अंतमः । अंतोऽस्यास्तीत्यंतिकः । अत इनिठनाविति ठन्। अतिशयेनांतिक इत्यतिशायने तमबिति तमप्। तमे तादेश्चेति तादिलोपः। नित्त्वादाद्युदात्तः । स्वस्तये। प्रातिपदिकस्वरः ॥
 
 
तं त्वा॒ विप्रा॑ विप॒न्यवो॑ जागृ॒वांस॒ः समि॑न्धते ।
 
ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध॑म् ॥
 
तं। त्वा । विप्राः । विपन्यवः । जागृऽवांसः । सं। इंधते ।
 
हव्यवाहं। अमर्त्यं।सहःऽवृधं ॥ ९॥
 
हे अग्ने विप्राः स्तुतीनां प्रेरका जागृवांसोऽग्निहोत्रादिकर्मण्यप्रमत्ततया प्रबुद्धा विपन्यवः । विपन्युशब्दो मेधाविनमाचष्टे । विपश्चिद्विपन्युरिति तन्नामसु पाठात् । विपन्यवो मेधाविनः स्तोतारो हव्यवाहं हव्यानां वोढारममर्त्यं मरणधर्मरहितं सहोवृधं सहसा मथनरूपेण बलेन वर्धमानं तादृशं त्वा त्वां समिंधते । सोमाद्याहुतिभिः सम्यग्दीपयंति ॥ विप्राः । टुवप बीजसंताने । अस्माद्धातोर्ऋज्रेंद्राग्रवज्रविप्रेति रन्प्रत्ययेत्वयोर्निपातनादाद्युदात्तत्वं । विपन्यवः । विविधं पनं पननं स्तुतिं यातीति विपन्युः । मृगय्वादयश्चेति कः । अकारलोप
श्छांदसः । प्रत्ययस्वरः । जागृवांसः । जागृ निद्राक्षये। अस्माल्लिट् । तस्य क्वसुः । उगिदचामिति नुम् । द्विचनाभावश्छांदसः । वस्वेकाजाद्धसामिति नियमादिडभावः । जाग्रोऽविचिणल्ङित्सु । पा० ७. ३. ८५.। इति गुणो न भवति तत्र विरित्यत्र क्वसोरपि गृहीतत्वात् । प्रत्ययस्वरः । इंधते । ञिइंधी दीप्तौ । अंतर्भावितण्यर्थोऽयं । निघातः । हव्यवाहं । वह प्रापणे । वहश्चेति ण्विः । उपधावृद्धिः । कृदुत्तरपदप्रकृतिस्वरत्वं । सहोवृधं । वृधु वर्धने । क्विप् चेति क्विप् ॥ ॥ ८॥
 
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१०" इत्यस्माद् प्रतिप्राप्तम्