"ऋग्वेदः सूक्तं ३.३५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९४:
अति ऽआयाहि । शश्वतः । वयं । ते। अरं । सुतेभिः । कृणवाम । सोमैः ॥५॥
 
हे इंद्र वृषणा कामानां सेचकौ वीतपृष्ठा कमनीयपृष्ठभागौ ते तव हरी अन्ये अस्मदन्ये यजमानासो यजमाना मा नि रीरमन् । मा हर्षयन्। वयं तु सुतेभिरभिषुतैः सोमैस्ते तवारं पर्याप्तं कृणवाम । यथा तव तृप्तिर्भवति तथा कुर्म इत्यर्थः । त्वं तु अत्यायाहि शश्वतः । बहूनन्यानतिक्रम्य सोमपानार्थं शीघ्रमागच्छ ॥ वीतपृष्ठा । वी कांत्यादिषु । अस्मात् क्तप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । रीरमन् । रमु क्रीडायामित्यस्य ण्यंतस्य लुङि चङि रूपं । न माङ्योगे इत्यडभावः । निघातः । अत्यायाहि । यातेर्लोटि रूपं । गतिर्गताविति पूर्वस्य निघातः । कृणवाम । कृणोतेर्लोटि रूपं । निघातः ॥ ॥१७॥
 
 
तवायं सोम इति माध्यंदिने सवने नेष्टुः प्रस्थितयाज्या। सूत्रितं च । तवायं सोमस्त्वमेह्यर्वाङिन्द्राय सोमाः प्रदिवः । आ°५. ५.। इति ॥
 
तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ्छ॑श्वत्त॒मं सु॒मना॑ अ॒स्य पा॑हि ।
 
अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ॥
 
तव। अयं । सोमः । त्वं । आ । इहि । अर्वाङ्। शश्वत्तमं । सुऽमनाः। अस्य । पाहि।
 
अस्मिन् । यज्ञे । बर्हिर्षि । आ । निऽसद्य । दधिष्व । इमं । जठरे। इंदुं । इंद्र ॥६॥
 
हे इंद्र अयं सोमस्तव त्वदर्थमभिषुतः । त्वमर्वाङ् सोमाभिमुख्येनैहि । आयाहि । आगत्य च सुमनाः शोभनमनस्को भूत्वा शश्वत्तमं भूयांसमस्येमं सोमं पाहि । पिब । बर्हिषि प्रवृद्धेऽस्मिन्यज्ञे निषद्योपविश्य इंदुं क्लेदनशीलमिमं सोमं जठर आ दधिष्व । धारय । यथा नाभेरधस्तान्न गच्छति तथा धारय ॥ अंगिरोभिरा गहि यज्ञियेभिः । ऋग्वे० १०.१४. ५.। इत्यत्र न यज्ञविशेषणं बर्हिर्भिन्नरूपं वा तदित्यतो नोत्सृज्यते ॥ इहि । इण् गतौ । अस्य लोटि रूपं । निघातः । शश्वत्तमं । उंछादित्वादंतोदात्तत्वं । पाहि। पा पान इत्यस्य लोटि रूपं । बहुलं छंदसीति शपो लुक् । निघातः । निषद्य । सदेर्ल्यपि सदिरप्रतेरिति षत्वं । लित्स्वरः । दधिष्व । दधातेर्लोटि छंदस्युभयथेति थास आर्धधातुकत्वादिडागमः । प्रत्ययस्वरः। इंदुं । उंदी क्लेदने । उंदेरिच्चादेरित्युप्रत्ययः । धातोरादेरिकारादेशः । निदित्यनुवृत्तेराद्युदात्तः ॥
 
 
स्ती॒र्णं ते॑ ब॒र्हिः सु॒त इ॑न्द्र॒ सोमः॑ कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्याम् ।
 
तदो॑कसे पुरु॒शाका॑य॒ वृष्णे॑ म॒रुत्व॑ते॒ तुभ्यं॑ रा॒ता ह॒वींषि॑ ॥
 
स्तीर्णं । ते। बर्हिः। सुतः। इंद्र। सोमः । कृताः। धानाः । अत्तवे। ते। हरिऽभ्यां ।
 
तत्ऽओकसे । पुरुऽशाकाय । वृष्णे। मरुत्वते । तुभ्यं । राता । हवींषि ॥७॥
 
हे इंद्र ते तवोपवेशनार्थं बर्हिः स्तीर्णं । विस्तृतं । तथा सोमः च त्वदर्थं सुतः । अभिषुतः । ते तव हरिभ्यामत्तवे भक्षणार्थं धाना भृष्टयवाः कृताः । संपादिताः। तदोकसे। तद्बर्हिरोको निलयो यस्य तस्मै । पुरुशाकाय बहुभिः स्तुत्याय यद्वा बहुसहायाय वृष्णे कामानां वर्षित्रे मरुत्वते । मरुतो देवविशः । तद्वते । एवंभूताय तुभ्यं हवींषि सोमाज्यादीनि राता । अस्माभिर्दत्तानि । तानि सेवस्वेति भावः ॥ स्तीर्णं । स्तृञ् आच्छादन इत्यस्य ऋत इद्धातोरितीत्वं । रदाभ्यामिति निष्ठानत्वं । प्रत्ययस्वरः । अत्तवे । अद भक्षणे इत्यस्मात्तुमर्थे तवेन्प्रत्ययः । नित्स्वरः । तदोकसे । बहुव्रीहौ पूर्वपदस्वरः । पुरुशाकाय। शच व्यक्तायां वाचीत्यस्मात्कर्मणि घञ्। चजोः कु घिण्ण्यतोरिति कुत्वं । कृदुत्तरपदस्वरः । मरुत्वते । तसौ मत्वर्थे इति भसंज्ञायां तकारस्य जश्त्वाभावः ।। प्रत्ययस्य पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः । राता। रा दाने इत्यस्मात्कर्मणि क्तः । प्रत्ययस्वरः ॥
 
 
इ॒मं नर॒ः पर्व॑ता॒स्तुभ्य॒माप॒ः समि॑न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् ।
 
तस्या॒गत्या॑ सु॒मना॑ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॒॑ अनु॒ स्वाः ॥
 
इमं । नरः । पर्वताः। तुभ्यं । आपः । सं। इंद्र । गोभिः । मधुऽमंतं । अक्रन्।
 
तस्य।आऽगत्य। सुऽमनाः।ऋष्व।पाहि।प्रऽजानन्।विद्वान्।पथ्याः।अनु।स्वाः॥८॥
 
हे इंद्र नरः कर्मणां नेतारोऽध्वर्य्वादयः पर्वता ग्रावाण आपश्चैते सर्वे संभूय तुभ्यं त्वदर्थमिमं सोमं गोभिः पयोभिर्मधुमंतं माधुर्योपेतं समक्रन्। सम्यगकार्षुः । ऋष्व दर्शनीय हे इंद्र सुमनाः शोभनमनस्को विद्वान्कर्माभिज्ञः स्वाः स्वकीयाः पथ्या वैदिके पथि कर्मणि साधुभूताः स्तुतीरनु प्रजानन् त्वं तस्य पाहि। इममभिषुतं सोमं पिब ॥ अक्रन् । करोतेलुङि रूपं । निघातः। आगत्य । गमेर्ल्यपि रूपं । लित्स्वरः। पाहि। पातेर्लोटि रूपं ॥
 
 
याँ आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ ।
 
तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो॒३॒॑ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ॥
 
यान्। आ। अभजः। मरुतः । इंद्र। सोमे। ये । त्वां । अवर्धन्। अभवन्। गणः । ते।
 
तेभिः । एतं । सऽजोषाः । वावशानः । अग्नेः। पिब। जिह्वया। सोमं। इंद्र ॥९॥
 
हे इंद्र यान्मरुतः सोमे सोमपानविषय आभजः समभावयः ये च मरुतस्त्वामवर्धन् युद्धे प्रोत्साहोत्पादनेनावर्धयन् ये च मरुतस्ते तव गणोऽभवन् सहाया अभूवन्नित्यर्थः । हे इंद्र एवंविधस्तेभिस्तैर्मरुद्भिः सजोषाः संगतः सन् एतमभिषुतं सोमं वावशानः कामयमानस्त्वमग्नेराहुत्यधिकरणभूतस्याहवनीयस्य ज्वालारूपया जिह्वयेमं पिब ॥ अभजः । भज सेवायामित्यस्य लङि रूपं । यद्वृत्तयोगादनिघातः । अवर्धन्। वृधु वर्धन इत्यस्य ण्यंतस्य लङि रूपं । छंदस्युभयथेति झेरार्धधातुकत्वाण्णेरनिटीति णिलोपः । अत्रापि यद्योगादनिघातः । अभवन् । वाक्यभेदादनिघातः । वावशानः। वश कांतावित्यस्य यङ्लुकि चानशि रूपं । चित्स्वरः । पिब । पा पाने । निघातः ॥
 
 
इन्द्र॒ पिब॑ स्व॒धया॑ चित्सु॒तस्या॒ग्नेर्वा॑ पाहि जि॒ह्वया॑ यजत्र ।
 
अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु॑र्वा य॒ज्ञं ह॒विषो॑ जुषस्व ॥
 
इंद्र। पिब । स्वधया। चित्। सुतस्य । अग्नेः । वा। पाहि । जिह्वया। यजत्र।
 
अध्वर्योः । वा। प्रऽयतं । शक्र । हस्तात्। होतुः। वा। यज्ञं। हविषः । जुषस्व ॥१०॥
 
हे इंद्र स्वधया। स्वमात्मानं दधाति पोषयतीति स्वधा बलं । तेन । चिद्विकल्पार्थः । बलादपहृत्य सुतस्य सुतमभिषुतं हुतं वा पिब । यजत्र यष्टव्येंद्राग्नेर्ज्वालारूपया जिह्वया वाहुतं सोमं पाहि। पिब । हे शक्र समर्थेंद्र अध्वर्योर्हस्ताद्वा प्रयतं दातुमुपक्रांतं सोमं पिब । अथवा होतुर्यज्ञं यजनीयं वषट्कारोपेतं हविषो भागं जुषस्व । सेवस्व । सर्वथापि त्वमवागत्यास्माभिर्दीयमानं सोमं पिबेति भावः ॥ पिब । आमंत्रितस्याविद्यमानत्वेन पादादित्वादनिघातः। अध्वर्योः। अध्वरं कामयतीति क्यच् । कव्यध्वरेत्यकारलोपः। प्रत्ययस्वरः। तत एकादेशस्वरः। प्रयतं । यम उपरम इत्यस्य कर्मणि निष्ठा । शक्र । शक्लृ शक्तौ । स्फायितंचीत्यादिना रक्। हस्तात् । असिहसीत्यादिना तन् । नित्स्वरः । होतुः । जुहोतेस्ताच्छीलिकस्तृन् । नित्स्वरः । जुषस्व । जुषी प्रीतिसेवनयोरित्यस्य लोटि रूपं । निघातः ॥
 
 
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
 
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
 
शुनं। हुवेम। मघऽवानं। इंद्रं । अस्मिन् । भरे। नृऽतमं । वाजऽसातौ।
 
शृण्वंतं । उग्रं । ऊतये । समत्ऽसु । घ्नंतं। वृत्राणि । संऽजितं । धनानां ॥११॥
 
पूर्वं व्याख्याता ॥ ॥१८॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३५" इत्यस्माद् प्रतिप्राप्तम्