"ऋग्वेदः सूक्तं ३.३५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७०:
ग्रसेतां। अश्वा । वि। मुच। इह। शोणा। दिवेऽदिवे। सऽदृशीः। अद्धि। धानाः ॥३॥
 
वृषभ कामानां वर्षक स्वधावोऽन्नवन् हे इंद्र वृषणा सेचनसमर्थौ तपुष्पा तापकेभ्यः शत्रुभ्यो रक्षकावश्वावुपो नयस्व । अस्मत्समीपं प्रापय । उत अपि च त्वमीमेनं यजमानमव । पालय। शोणा शोणवर्णौ तावश्वाविहास्मिन्देवयजने वि मुच। विमुक्तौ तावश्वौ ग्रसेतां । विघसं भक्षयतां । त्वं तु सदृशीरेकरूपान् धाना भृष्टयवान् दिवे दिवे प्रतिदिवसमद्धि । भक्षय ॥ नयस्व । नयतेर्लोटि रूपं । तपुष्पा । पा रक्षणे । आतोऽनुपसर्गे कः । सुपां सुलुगिति डादेशः । इसुसोः सामर्थ्य इति संहितायां विसर्जनीयस्य षत्वं । कृदुत्तरपदप्रकृतिस्वरः । अव । अवतेर्लोटि रूपं । स्वधावः । मतुवसोरिति नकारस्य रुत्वं । निघातः । ग्रसेतां । ग्रसु अदन इत्यस्य लोट्यातामि रूपं । पादादित्वादनिघातः । आतामो लसार्वधातुकस्वरे धातुस्वरः । मुच । मुंचतेर्लोटि रूपं । आगमानुशासनस्यानित्यत्वान्नुमभावः । सदृशीः । समानशब्द उपपदे दृशिर् प्रेक्षण इत्यस्मात्समानान्ययोश्चेति कञ्प्रत्ययः । समानस्य दृग्दृश्वतुष्विति सभावः । टिड्ळाणञ्टिड्ढाणञ् इत्यादिना ङीप् । तस्य पित्वादनुदात्तत्वे धातुस्वरः । अद्धि । अद भक्षण इत्यस्य लोट्यदादित्वाच्छ्पो लुक् । हुझल्भ्यो हेर्धिरिति ध्यादेशः । निघातः । धानाः । डुधाञ् धारणपोषणयोः । धापॄवस्यज्यतिभ्यो न इति नप्रत्ययः । प्रत्ययस्वरः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३५" इत्यस्माद् प्रतिप्राप्तम्