"शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ५/ब्राह्मणं ६" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">११.५.६ पञ्चमहायज्ञब्राह्मणम... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ३:
पञ्चैव महायज्ञाः। तान्येव महासत्त्राणि भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञ इति - ११.५.६.[१]
 
अहरहर्भूतेभ्यो बलिं हरेत् तथैतं भूतयज्ञं समाप्नोत्यहरहर्दद्यादोदपात्रात्तथैतं मनुष्ययज्ञं समाप्नोत्यहरहः स्वधाकुर्यादोदपात्रात्तथैतं पितृयज्ञं समाप्नोत्यहरहः स्वाहाकुर्यादा काष्ठात्तथैतं देवयज्ञं समाप्नोति - ११.५.६.[२][[File:Dhruvaa.jpg|thumb|ध्रुवा]] [[File:Sruvaa.jpg|thumb|स्रुवा]] [[File:Yajna implements.jpg|thumb|यज्ञपात्राणि]]
 
अथ ब्रह्मयज्ञः। स्वाध्यायो वै ब्रह्मयज्ञस्तस्य वा एतस्य ब्रह्मयज्ञस्य वागेव जुहूर्मन उपभृच्चक्षुर्ध्रुवा मेधा स्रुवः सत्यमवभृथः स्वर्गो लोक उदयनं यावन्तं ह वा इमां पृथिवीं वित्तेन पूर्णां ददल्लोकं जयति त्रिस्तावन्तं जयति भूयांसं चाक्षय्यं य एवं विद्वानहरहः स्वाध्यायमधीते तस्मात्स्वाध्यायोऽध्येतव्यः - ११.५.६.[३]