"मृच्छकटिकम्" इत्यस्य संस्करणे भेदः

पर्यङ्कग्रन्थिबन्धद्विगुणितभुजङ्गाश्लेषसं... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१३:०१, ३१ मार्च् २०१८ इत्यस्य संस्करणं

पर्यङ्कग्रन्थिबन्धद्विगुणितभुजङ्गाश्लेषसंवीतजानोरन्तः प्राणावरोधव्युपरतसकलज्ञानरुद्धेन्द्रियस्य । आत्मन्यात्मानं व्यपगतकरणं पश्यतस्तत्त्वदृष्ट्या शम्भोर्व: पातु शून्यक्षणघटितलयब्रह्मलग्न: समाधि:।।

इति नान्दीश्लोकेन आारब्धं नाटकमिदं शूद्रकस्य मृच्छकटिकमिति नाम्ना प्रसिद्धमस्ति। कवि शूद्रकेण नाट्यशास्त्रस्य सर्वनियमान् परिपाल्य एकसुन्दरि रचना कृता इयमिदानीमपि जनप्रिया अस्ति। उत्सव इति नान्ना हिन्दीचलचित्रं अस्य रूपान्तरमस्ति।

कविशुद्रकस्य कालस्योपरि यद्यपि प्रतिपन्नमस्ति किन्तु स: तु त्रितीयशताब्दस्य पूर्वस्य राजा इति किञ्चित् ज्ञायते। प्राय: २००० वर्षतमपूर्वस्य नाटकमिदम्।अस्मिन्नाटके कविना एकदरिद्र्ब्राह्मणस्य चारुदत्तस्य एकया गणिकया वसन्तसेनया सह प्रीतिमाश्रित्य सुन्दरसामाजिककथा दर्शिता। अस्मात् नाटकात् तस्मिन् काले प्रचलिता सामाजिकव्यवस्था राजनीतिकव्यवस्था धार्मिकप्रचलनानि च स्पष्टतया द्रष्टुं शक्यते। संवादै: श्लोकैश्च मनोरञ्जनं कृत्वा कवि: सम्पूर्णनाटकं सुभाषितानां सङ्ग्रह एव हास्यरसेन शृंगाररसेन प्रतिपादितम्।

"https://sa.wikisource.org/w/index.php?title=मृच्छकटिकम्&oldid=141946" इत्यस्माद् प्रतिप्राप्तम्