"ऋग्वेदः सूक्तं १०.१७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०७:
 
आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः ।
 
विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥१॥
 
अहं ध्रुवः आङ्गिरसः त्वां सोमं राजानं आ - समन्तात्, सर्वतः आहार्षम् हर्षयामि। (तु. अह्रिषाद् अस्य तन् मुखम् एवेदं मामकं शिरः।। - पैप्पलाद संहिता १९.२६.१५)। केन प्रकारेण। अन्तरेधि। अन्तः प्रविश। एधि वर्धने। ध्रुवः एवं अविचाचलि, अविचलः तिष्ठ। विशः त्वा सर्वा वाञ्छन्तु। केवलं ध्रुव, निश्चलावस्थां अवस्थानं पर्याप्तं नास्ति। विशः, प्रजाः सर्वाः त्वां वाञ्छन्तु। रजनीशादि दार्शनिकाः कथयन्ति यत् अस्माकं अस्तित्वं एकाकी घटना नास्ति। भूतं, भविष्यं सर्वं अस्माकेन सह सहयोगं कुर्वन्ति। तेन वयं जीवामः। वाञ्छन्तु। वयं वाञ्छनीयाः भवामः। अपरिहार्याः। न अवाञ्छनीयाः। रजनीशस्य कथनमस्ति यत् जीवस्य मृत्योः प्रागेव समष्ट्यां तस्य मृत्योः घटनं भवति। मृत्युः अाकस्मिका घटना नास्ति। ध्रुवभवनं मृत्योः निवारणाय अनिवार्यमस्ति।
 
इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः ।
इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥२॥
 
प्रथमायां ऋचायां अन्तः एधनस्य निर्देशमस्ति। द्वितीयायां इहैव एधनस्य। प्रथमायां ऋचायां अविचाचल्यभवनस्य निर्देशमस्ति। द्वितीयायां व्याख्या अस्ति - पर्वत इव। अग्निहोत्रे मह उपस्थानम् : स ह प्रजापतिरीक्षांचक्रे। कथं न्विमे लोका ध्रुवाः प्रतिष्ठिताः स्युरिति। स एभिश्चैव पर्वतैर्नदीभिश्चेमामदृंहत्। वयोभिश्च मरीचिभिश्चान्तरिक्षम्। जीमूतैश्च नक्षत्रैश्च दिवम्। - श.ब्रा. [[शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ८/ब्राह्मणं १|११.८.१.२]]। पुराणेषु सार्वत्रिकेण रूपेण कथनमस्ति यत् पर्वताः भूमिं ध्रुवां कुर्वन्ति (शिव [[शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः १८|१.१८.४६]]( पर्वत के पुरुष और भूमि के प्रकृति का रूप होने का उल्लेख )। वैदिकेषु ग्रन्थेषु अग्निः पृथिवीं ध्रुवां करोति। यदा पृथिवी चेतना पृथिवी भवति, तदा पर्वतः अपि जड पर्वतः न भवति। तत् चेतनायाः पुञ्जः भवति। किन्तु पुञ्ज एवं पर्वत शब्दे अन्तरमस्ति। पर्वतः पर्ववान् भवति। सूक्ष्मस्तरेषु जीवः सप्तशरीराणां, पर्वाणां पर्वतः अस्ति। तस्मिन् पर्वते एकः पर्वः अन्यस्य पर्वस्य पोषकः भवति। द्र. श्रीरजनीशस्य व्याख्यानमाला [https://oshohindipravachan.wordpress.com/pravachan/%E0%A4%9C%E0%A4%BF%E0%A4%A8-%E0%A4%96%E0%A5%8B%E0%A4%9C%E0%A4%BE-%E0%A4%A4%E0%A4%BF%E0%A4%A8-%E0%A4%AA%E0%A4%BE%E0%A4%87%E0%A4%AF%E0%A4%BE%E0%A4%82/14-%E0%A4%B8%E0%A4%BE%E0%A4%A4-%E0%A4%B6%E0%A4%B0%E0%A5%80%E0%A4%B0-%E0%A4%94%E0%A4%B0-%E0%A4%B8%E0%A4%BE%E0%A4%A4-%E0%A4%9A%E0%A4%95%E0%A5%8D%E0%A4%B0/ कुण्डलिनी और सात शरीर]।
 
 
इममिन्द्रो अदीधरद्ध्रुवं ध्रुवेण हविषा ।
 
तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः ॥३॥
 
शतपथब्राह्मणः ध्रुवीकरणस्य त्रयाणां स्तराणां उल्लेखं करोति। अयं प्रतीयते यत् इन्द्रस्य उल्लेखं अन्तरिक्षस्य स्तरे ध्रुवीकरणेन सम्बद्धमस्ति। कारणं। ऋग्वेदे [[ऋग्वेदः सूक्तं १.६४|1.64.3]] मरुतां संज्ञा पर्वताःइव अस्ति – युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव। वाजसनेयि संहितायां [[शुक्‍लयजुर्वेदः/अध्यायः १७|१७.८५]] मरुतानां सप्त गणानां उल्लेखमस्ति – स्वतवां, प्रघासी, सान्तपन, गृहमेधी, क्रीडी, शाकी, उज्जेषी। एते मरुतः ज्योतीनां पुञ्जाः सन्ति। तेषां व्यापनं पृथिवीतः द्युलोकपर्यन्तं अस्ति। मरुद्गणानां अधिपतिः इन्द्रः अस्ति। शतपथ ब्राह्मणे [[शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ८/ब्राह्मणं १|११.८.१.२]] ध्रुवीभवनस्य त्रयाः स्तराः कथितानि सन्ति - पृथिवी, अन्तरिक्ष, द्यौः। पृथिव्याः स्तरे पर्वताः ध्रुवतां प्रयच्छन्ति। अन्तरिक्षे वयांसि, मरीचयः। यदा चेतनायाः गतिः गुरुत्वाकर्षणशक्तेः विपरीतापि सम्भवा भवति, तदा वयांसि। अन्तरिक्षस्य प्रत्यक्षं उल्लेखं वर्तमानसूक्ते नास्ति।
 
 
ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे ।
 
ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामयम् ॥४॥
 
अस्यां ऋचायां द्युलोकस्य ध्रुवीकरणस्य अपेक्षायाः उल्लेखमस्ति। शतपथब्राह्मणे द्युलोकस्य ध्रुवीकरणाय जीमूतस्य एवं नक्षत्राणां उल्लेखमस्ति। जीमूतः - वर्षणं यः जीवस्य पोषणं करोति। जीवं मरणरहितं करोति। पर्वताः येभिः पृथिवी ध्रुवा भवति, तेषां स्वयमपि ध्रुवीभवनस्य आवश्यकता अस्ति। पर्वतानां ध्रुवासः विशेषणं ऋग्वेदे अन्यत्रापि प्रकटयति।
 
भविष्यपुराणे [[भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९५|४.१९५.४२]] धान्य, लवण, गुड, सुवर्ण, तिल, कार्पास, घृत, रत्न, रौप्य एवं शर्करा शैलानां दानस्य माहात्म्यं वर्णितमस्ति । अन्येषु पुराणेषु एषां संज्ञा दश धेनुरस्ति । एषां शैलानां एका व्याख्या सायणाचार्य महोदयेन शतपथब्राह्मणे स्वटीकायाः प्रत्येक अध्यायस्य अन्ते कृतमस्ति – धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः। आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः।।
 
 
ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।
 
ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥५॥
 
 
ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि ।
 
अथो त इन्द्रः केवलीर्विशो बलिहृतस्करत् ॥६॥
 
 
कर्मकाण्डे पृथिवीस्तरे ध्रुवीभवनं ध्रुवापात्रेण भवति, अन्तरिक्षे उपभृतेन एवं द्युलोके जुहू - स्रुवा पात्रेभ्यः। जुहू वीणाधारिण्याः सरस्वत्याः प्रतीकमस्ति। ध्रुवापात्रतः जूहू यावत् साधनायाः गति ऊर्ध्वायां दिशायामस्ति। तदोपरि स्रुवा पात्रस्य साधना सर्वासु दिशासु भवति। -
 
ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।
 
जुहु द्यां गच्छ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥६॥ अ. [[अथर्ववेदः/काण्डं १८/सूक्तम् ०४|१८.४.६]]। द्र. [http://puraana.tripod.com/pur_index30/sruk.htm स्रुक् उपरि संदर्भाः]
 
[[File:Varaha snout, Khajuraho.jpg|thumb|यज्ञवाराहतुण्ड, खजुराहो]]
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७३" इत्यस्माद् प्रतिप्राप्तम्