"ऋग्वेदः सूक्तं १०.१७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२४:
तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः ॥३॥
 
शतपथब्राह्मणः ध्रुवीकरणस्य त्रयाणां स्तराणां उल्लेखं करोति। अयं प्रतीयते यत् इन्द्रस्य उल्लेखं अन्तरिक्षस्य स्तरे ध्रुवीकरणेन सम्बद्धमस्ति। कारणं। अथर्ववेदे [[अथर्ववेदः/काण्डं ५/सूक्तम् २४|५.२४.६]] उल्लेखमस्ति यत् मरुतः पर्वतानां अधिपतयः सन्ति। ऋग्वेदे [[ऋग्वेदः सूक्तं १.६४|1.64.3]] मरुतां संज्ञा पर्वताःइव अस्ति – युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव। वाजसनेयि संहितायां [[शुक्‍लयजुर्वेदः/अध्यायः १७|१७.८५]] मरुतानां सप्त गणानां उल्लेखमस्ति – स्वतवां, प्रघासी, सान्तपन, गृहमेधी, क्रीडी, शाकी, उज्जेषी। एते मरुतः ज्योतीनां पुञ्जाः सन्ति। तेषां व्यापनं पृथिवीतः द्युलोकपर्यन्तं अस्ति। मरुद्गणानां अधिपतिः इन्द्रः अस्ति। शतपथ ब्राह्मणे [[शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ८/ब्राह्मणं १|११.८.१.२]] ध्रुवीभवनस्य त्रयाः स्तराः कथितानि सन्ति - पृथिवी, अन्तरिक्ष, द्यौः। पृथिव्याः स्तरे पर्वताः ध्रुवतां प्रयच्छन्ति। अन्तरिक्षे वयांसि, मरीचयः। यदा चेतनायाः गतिः गुरुत्वाकर्षणशक्तेः विपरीतापि सम्भवा भवति, तदा वयांसि। अन्तरिक्षस्य प्रत्यक्षं उल्लेखं वर्तमानसूक्ते नास्ति।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७३" इत्यस्माद् प्रतिप्राप्तम्