"ऋग्वेदः सूक्तं १०.१७४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
अभीवर्तेन हविषा येनेन्द्रो अभिवावृते ।
तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय ॥१॥
Line २२ ⟶ २१:
यथाहमेषां भूतानां विराजानि जनस्य च ॥५॥
 
</prespan></poem>
</div>
{{ऋग्वेदः मण्डल १०}}
 
{{सायणभाष्यम्|
' अभीवर्तेन ' इति पञ्चर्चं त्रयोविंशं सूक्तमाङ्गिरसस्याभीवर्ताख्यस्यार्षमानुष्टुभम् । पूर्ववद्राजस्तुतिर्देवता । तथा चानुक्रान्तम्-' अभीवर्तेन पञ्चाभीवर्तः ' इति । पुरोहित इदं सूक्तं राजानं युद्धाय कृतसंनाहं वाचयीत । सूत्र्यते हि--' अथैनं सारथमाणमुपारुह्याभीवर्तं वाचयति ' ( आश्व. गृ. ३.१२. १२) इति ।।
 
 
अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेन्द्रो॑ अभिवावृ॒ते ।
 
तेना॒स्मान्ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ॥
 
अभिऽवर्तेन । हविषां । येन । इन्द्रः । अभिऽववृते ।
 
तेन । अस्मान् । ब्रह्मणः । पते । अभि । राष्ट्राय । वर्तय । । १ । ।
 
अभीवर्तेन । अभिगच्छत्यनेनेत्यभीवर्तः ।। करणे वम् । थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । ' उपसर्गस्य घञ्यमनुष्यो बहुलम् ' ( पा. सू. ६.३.१२२) इति दीर्घः ।। ईदृशेन येन हविषा साधनेन इन्द्रः अभिववृते सर्वमभिजगाम तेन हविषेष्टवतः अस्मान् हे ब्रह्मणस्पते राष्ट्राय
राज्यं प्राप्तुम् अभि वर्तय अभिगमय ।।
 
 
अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः ।
 
अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ॥
 
अभिऽवृत्य । सऽपत्नान् । अभि । याः । नः । अरातयः ।
 
अभि । पृतन्यन्तम् । तिष्ठः । अभि । यः । नः । इरस्यति ।। २ ।।
 
हे राजन् सपत्नान् शत्रून् अभिवृत्य अभितो गमयित्वा नः अस्माकं याः अरातयः अदानशीलाः प्रजाः सन्ति ता अपि अभि तिष्ठ अभिभव । पृतन्यन्तं पृतनाः सेना आत्मन इच्छन्तं युयुत्सुं च अभि तिष्ठ ।। पृतनाशब्दात् क्यचि ' कव्यध्वरपृतनस्य' ' इत्यन्तलोपः ।। यः
च नः अस्मभ्यम् इरस्यति ईर्ष्यति । इरस् तिरस् ईर्ष्यायां कण्ड्वादिः । तमपि अभि तिष्ठ । यद्वा । प्रकृतो ब्रह्मणस्पतिरेवात्रापि संबोध्यः ।।
 
 
अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृतत् ।
 
अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥
 
अभि । त्वा । देवः । सविता । अभि । सोमः । अवीवृतत् ।
 
अभि । त्वा । विश्वा । भूतानि । अभिऽवर्तः । यथा । अससि ।। ३ ।।
 
हे राजन् देवः दानादिगुणयुक्तः सविता त्वा त्वाम् अभि अवीवृतत् अभिवर्तयतु । अभिगमयतु राष्ट्रम् । सोमः च अभि वर्तयतु । विश्वा विश्वानि सर्वाण्यपि भूतानि पृथिव्यादीनि त्वाम् अभि वर्तयन्तु । यथा येन प्रकारेण त्वम् अभीवर्तः अससि अभितः सर्वत्र वर्तमानो भवसि ।। अस्तेश्छान्दसः शपो लुगभावः ।।
 
 
येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
 
इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवम् ॥
 
येन । इन्द्रः । हविषा । कृत्वी । अभवत् । द्युम्नी । उत्ऽतमः ।
 
इदम् । तत् । अक्रि । देवाः । असपत्नः । किल । अभुवम् ।। ४ । ।
येन हविषा अस्माभिर्दत्तेन माद्यन् इन्द्रः कृत्वी वृत्रवधादेः कर्मणः कर्ता अभवत् द्युम्नी द्युम्नं द्योततेर्यशो वान्नं वा । तद्वान् अत एव उत्तमः उत्कृष्टतमश्चाभवत् तत् इदं हविः हे देवाः अक्रि अकारि । यद्वा । अहमकार्षम् । अत एवाहम् असपत्नः किल अभुवम् । शत्रुरहितोऽप्यभवं खलु ।।
 
 
अ॒स॒प॒त्नः स॑पत्न॒हाभिरा॑ष्ट्रो विषास॒हिः ।
 
यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥
 
असपत्नः । सपत्नऽहा । अभिऽराष्ट्रः । विऽससहिः ।
 
यथा । अहम् । एषाम् । भूतानाम् । विऽराजानि । जनस्य । च ।। ५ ।।
 
सपत्नहा सपत्नानां शत्रूणां हन्ता अत एव असपत्नः शत्रुरहितोऽहमभूवम् । अभिराष्ट्रः अभिगतराष्ट्रः प्राप्तराज्यः सन् विषासहिः शत्रूणां विशेषेणाभिभविता चाभूवम् । यथा येन प्रकारेण अहमेषां दृश्यमानानां सर्वेषां भूतानां प्राणिनां जनस्य च सेवकस्यामात्यादेश्च विराजानि यथेश्वरो भवानि तथा सपत्नहा विषासहिश्चाभूवमित्यर्थः ।। ।। ३२ ।।
 
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७४" इत्यस्माद् प्रतिप्राप्तम्