"ऋग्वेदः सूक्तं १०.१७१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
 
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
त्वं त्यमिटतो रथमिन्द्र प्रावः सुतावतः ।
अशृणोः सोमिनो हवम् ॥१॥
Line २१ ⟶ २०:
देवानां चित्तिरो वशम् ॥४॥
 
</prespan></poem>
</div>
{{ऋग्वेदः मण्डल १०}}
 
{{सायणभाष्यम्|
त्वं त्यम्' इति चतुर्ऋचं विंशं सूक्तं भृगुपुत्रस्येटस्यार्षं गायत्रमैन्द्रम् । अनुक्रान्तं च--- * त्वं त्यमिटो भार्गवो गायत्रम्' इति । गतो विनियोगः ॥
 
 
त्वं त्यमि॒टतो॒ रथ॒मिन्द्र॒ प्रावः॑ सु॒ताव॑तः ।
 
अशृ॑णोः सो॒मिनो॒ हव॑म् ॥
 
त्वम् । त्यम् । इटतः । रथम् । इन्द्र । प्र । आवः । सुतऽवतः ।
अशृणोः । सोमिनः । हवम् ।।१।।
 
हे "इन्द्र "सुतावतः सुतेनाभिषुतेन सोमेन युक्तस्य Vइटतः इटस्य । ‘सुपां सुलुक्' इति ङसस्तस् । एतत्संज्ञस्यर्षेः त्यं तं प्रसिद्धं रथं "प्रावः प्रारक्षः । सोमिनः सोमयुक्तस्य मम हवम् आह्वानम् "अशृणोः शृणु ॥
 
 
त्वं म॒खस्य॒ दोध॑त॒ः शिरोऽव॑ त्व॒चो भ॑रः ।
 
अग॑च्छः सो॒मिनो॑ गृ॒हम् ॥
 
त्वम् । मखस्य । दोधतः । शिरः । अव । त्वचः । भरः ।
 
अगच्छः । सोमिनः । गृहम् ॥ २॥
 
हे इन्द्र त्वं मखस्य यज्ञस्य दोधतः कम्पमानस्य देवेभ्यः पलायमानस्य शिरः प्रवर्ग्यरूपं त्वचः त्वगुपलक्षिताच्छरीरात् "अव भरः । अवयुत्य पृथक्कृत्य हृतवानसि । देवेभ्यो निष्क्रान्तस्य पुरुषाकारस्य धन्विनो यज्ञस्य शिर इन्द्रो वम्रिरूपेण ज्याघातनद्वारा पुरा चिच्छेद । तदभिप्रायेणेदमुक्तम् । श्रूयते हि - तस्येन्द्रो वम्रिरूपेण धनुर्ज्यामच्छिनद्रुद्रस्य त्वेव धनुरार्त्निः शिर उत्पिपेष स प्रवर्ग्योऽभवत्' (तै. आ. १. ५. २) इति । स त्वं सोमिनः सोमवतो मम गृहम् vअगच्छः आगच्छ
 
 
त्वं त्यमि॑न्द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यम् ।
 
मुहुः॑ श्रथ्ना मन॒स्यवे॑ ॥
 
त्वम् । त्यम् । इन्द्र । मर्त्यम् । आस्त्रऽबुध्नाय । वेन्यम् ।
 
मुहुः । श्रथ्नाः । मनस्यवे ।। ३ ।।
 
हे "इन्द्र त्वं त्यं तं मर्त्यं मनुष्यं वेन्यं वेनस्य पुत्रं पृथुम् आस्त्रबुध्नाय । अस्त्रबुध्नो नाम कश्चित् । तस्य पुत्राय "मनस्यवे मननीयं स्तोत्रमिच्छते vमुहुः शश्वत् Vश्रथ्नाः अहिंसीः । वशमनय इत्यर्थः ॥ ।
 
 
त्वं त्यमि॑न्द्र॒ सूर्यं॑ प॒श्चा सन्तं॑ पु॒रस्कृ॑धि ।
 
दे॒वानां॑ चित्ति॒रो वश॑म् ॥
 
त्वम् । त्यम् । इन्द्र । सूर्यम् । पश्चा। सन्तम्। पुरः । कृधि ।
देवानाम् । चित्। तिरः। वशम्॥४॥
 
हैं इन्द्र त्वं त्यं सूर्यं सायंसमये पश्चा पश्चात् सन्तं भवन्तं vपुरः परेद्युः प्रातःकाले पुरस्तात् कृधि करोषि। लकारव्यत्ययः । कीदृशम् । vदेवानां चित् देवानामपि vतिरः तिरोहितं तैरपि क्व गत इति दुर्विज्ञातं "वशं कान्तम् ॥ ॥ २९ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७१" इत्यस्माद् प्रतिप्राप्तम्