"ऋग्वेदः सूक्तं १०.९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
{{ऋग्वेदः मण्डल १०}}
{{सायणभाष्यम्|
‘प्रैते' इति चतुर्दशर्चं चतुर्थं सूक्तं कद्र्वाः पुत्रस्य सर्पस्यार्बुदस्यार्षम् । पञ्चमी सप्तमी चतुर्दशी त्रिष्टुभः शिष्टा एकादश जगत्यः । सोमाभिषवार्था ग्रावाणोऽत्र देवता । तथा चानुक्रान्तं----प्रैते षळूना सर्पोऽर्बुदः काद्रवेयो ग्राव्णोऽस्तौत्पञ्चम्यन्त्ये त्रिष्टुभौ सप्तमी च' इति । ग्रावस्तोत्र एतत्सूक्तम् । सूत्रित च--- प्रैते वदन्त्वित्यर्बुदं प्रागुत्तमाया आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोः ' ( आश्व.
श्रौ. ५. १२) इति । यद्वा । इदमेकमैव सूक्तं ग्रावस्तोत्रम्। सूत्रितं च--- अर्बुदमेवेत्येके प्र वो . ग्रावाण इत्येके' (आश्व. श्रौ. ५, १२) इति ॥
 
 
प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः ।
 
यद॑द्रयः पर्वताः सा॒कमा॒शव॒ः श्लोकं॒ घोषं॒ भर॒थेन्द्रा॑य सो॒मिनः॑ ॥
 
प्र । एते । वदन्तु । प्र। वयम् । वदाम । ग्रावऽभ्यः । वाचम् । वदत। वदत्ऽभ्यः ।
 
यत् । अद्रयः । पर्वताः । साकम् । आशवः । श्लोकम् । घोषम् । भरथ । इन्द्राय । सोमिनः ॥१॥
 
एते ग्रावाण उपलाः प्र वदन्तु अभिषवशब्दं कुर्वन्तु । "वयं यजमानाः "वदद्भ्यः अभिषवशब्दं कुर्वद्भ्यः vग्रावभ्यः ग्राव्णामर्थाय vवाचं vप्र vवदाम । किंच हे ऋत्विजो यूयमपि स्तुतिलक्षणां वाचं वदत पठत । यत् यदा अद्रयः आदरणीया दृढाः आशवः सोमाभिषवार्थं क्षिप्रकारिणः पर्वताः ग्रावाणः सर्वे यूयं साकं सह इन्द्राय इन्द्रार्थं श्लोकं श्रोतव्यं vघोषम् अभिषवशब्दं भरथ पोषयथ तदानीं सोमिनः सोमवन्तः सोमेन तृप्ता भवथ ॥
 
 
ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद॒भि क्र॑न्दन्ति॒ हरि॑तेभिरा॒सभिः॑ ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९४" इत्यस्माद् प्रतिप्राप्तम्