"ऋग्वेदः सूक्तं १०.९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
{{ऋग्वेदः मण्डल १०}}
{{सायणभाष्यम्|
‘प्रैते' इति चतुर्दशर्चं चतुर्थं सूक्तं कद्र्वाः पुत्रस्य सर्पस्यार्बुदस्यार्षम् । पञ्चमी सप्तमी चतुर्दशी त्रिष्टुभः शिष्टा एकादश जगत्यः । सोमाभिषवार्था ग्रावाणोऽत्र देवता । तथा चानुक्रान्तं----प्रैते षळूना सर्पोऽर्बुदः काद्रवेयो ग्राव्णोऽस्तौत्पञ्चम्यन्त्ये त्रिष्टुभौ सप्तमी च' इति । ग्रावस्तोत्र एतत्सूक्तम् । सूत्रित च--- प्रैते वदन्त्वित्यर्बुदं प्रागुत्तमाया आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोः ' ( आश्व. श्रौ. ५. १२) इति । यद्वा । इदमेकमैव सूक्तं ग्रावस्तोत्रम्। सूत्रितं च--- अर्बुदमेवेत्येके प्र वो . ग्रावाण इत्येके' (आश्व. श्रौ. ५, १२) इति ॥
श्रौ. ५. १२) इति । यद्वा । इदमेकमैव सूक्तं ग्रावस्तोत्रम्। सूत्रितं च--- अर्बुदमेवेत्येके प्र वो . ग्रावाण इत्येके' (आश्व. श्रौ. ५, १२) इति ॥
 
 
Line ५४ ⟶ ५३:
यत् । अद्रयः । पर्वताः । साकम् । आशवः । श्लोकम् । घोषम् । भरथ । इन्द्राय । सोमिनः ॥१॥
 
एते ग्रावाण उपलाः प्र वदन्तु अभिषवशब्दं कुर्वन्तु । "वयंvवयं यजमानाः "वदद्भ्यःvवदद्भ्यः अभिषवशब्दं कुर्वद्भ्यः vग्रावभ्यः ग्राव्णामर्थाय vवाचं vप्र vवदाम । किंच हे ऋत्विजो यूयमपि स्तुतिलक्षणां वाचं वदत पठत । यत् यदा अद्रयः आदरणीया दृढाः आशवः सोमाभिषवार्थं क्षिप्रकारिणः पर्वताः ग्रावाणः सर्वे यूयं साकं सह इन्द्राय इन्द्रार्थं श्लोकं श्रोतव्यं vघोषम् अभिषवशब्दं भरथ पोषयथ तदानीं सोमिनः सोमवन्तः सोमेन तृप्ता भवथ ॥
 
 
Line ६० ⟶ ५९:
 
वि॒ष्ट्वी ग्रावा॑णः सु॒कृतः॑ सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ॥
 
एते । वदन्ति । शतऽवत् । सहस्रऽवत् । अभि । क्रन्दन्ति । हरितेभिः । आसऽभिः ।
 
विष्ट्वी । ग्रावाणः । सुऽकृतः । सुऽकृत्यया । होतुः । चित् । पूर्वे । हविःऽअद्यम्। आशत ॥२॥
 
vशतवत्सहस्रवत् यथा शतं मनुष्याः सहस्रवदपरिमिता मनुष्याश्च वदन्ति तद्वत् एते ग्रावाणः vवदन्ति शब्दं कुर्वन्ति । किंच हरितेभिः सोमसंसर्गाद्धरितवर्णैः vआसभिः आस्यैः अभि vक्रन्दन्ति । सोममभिलक्ष्य देवानाह्वयन्तीत्यर्थः। किंच vसुकृतः शोभनकर्माणः vग्रावाणः vविष्ट्वी यज्ञं प्राप्य होतुः देवानामाह्वातुरग्नेः पूर्वे चित् पूर्वमेव अद्यं भक्षणीयं हविः आशत प्राप्नुवन्ति ।।
 
 
ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू॑ङ्खयन्ते॒ अधि॑ प॒क्व आमि॑षि ।
 
वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ॥
 
एते । वदन्ति । अविदन् । अना। मधु । नि । ऊङ्खयन्ते । अधि । पक्वे । आमिषि ।
 
वृक्षस्य । शाखाम् । अरुणस्य । बप्सतः । ते। सूभर्वाः । वृषभाः । प्र । ईम् । अराविषुः ॥३॥
 
vअरुणस्य अरुणवर्णस्य वृक्षस्य शाखां vबप्सतः भक्षयन्तः vते vसूभर्वाः शोभनभक्षाः vवृषभाः प्रेमराविषुः प्ररुवन्ति । यथा vपक्वे vआमिषि vअधि आमिषे क्रव्यादो मांसभक्षकाश्च मांसविषये यथा न्यूङ्खयन्ते शब्दविशेषं कुर्वन्ति तद्वत् एते ग्रावाणः वदन्ति शब्दं कुर्वन्ति । किंच vमधु मदकरं सोमम् vअना आस्येन vअविदन् लभन्ते ॥
 
 
बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश॑न्तोऽविदन्न॒ना मधु॑ ।
 
सं॒रभ्या॒ धीरा॒ः स्वसृ॑भिरनर्तिषुराघो॒षय॑न्तः पृथि॒वीमु॑प॒ब्दिभिः॑ ॥
 
बृहत् । वदन्ति । मदिरेण । मन्दिना । इन्द्रम् । क्रोशन्तः । अविदन् । अना। मधु ।
 
सम्ऽरभ्य । धीराः । स्वसृऽभिः । अनर्तिषुः । आऽघोषयन्तः । पृथिवीम् । उपब्दिऽभिः॥४॥
 
vमदिरेण मदकरेण मन्दिना अभिषूयमाणेन सोमेन इन्द्रं क्रोशन्तः आह्वयन्त एते ग्रावाणः बृहत् अत्यन्तं वदन्ति शब्दायन्ते । किंच vअना आस्येन vमधु मदकरं सोमम् vअविदन् अलभन्त । किंच vसंरभ्य संरब्धा भूत्वा vधीराः धृष्टाः सन्तः उपब्दिभिः शब्दैः पृथिवीम् vआघोषयन्तः पूरयन्तः स्वसृभिः अङ्गुलिभिः सह अनर्तिषुः नृत्यन्ति ।
 
 
सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः ।
 
न्य१॒॑ङ्नि य॒न्त्युप॑रस्य निष्कृ॒तं पु॒रू रेतो॑ दधिरे सूर्य॒श्वितः॑ ॥
 
सुऽपर्णाः । वाचम् । अक्रत । उप । द्यवि । आऽखरे । कृष्णाः । इषिराः । अनर्तिषुः ।
 
न्य॑क् । नि । यन्ति । उपरस्य । निःऽकृतम् । पुरु । रेतः । दधिरे । सूर्यऽश्वित: ॥ ५ ।।
 
vसुपर्णाः सुपतना ग्रावाणः उप उपलक्ष्य समीपे द्यवि अन्तरिक्षे vवाचम् अभिषवशब्दम् vअक्रत कुर्वन्ति । किंच आखरे । मृगाणां व्रज आखरः । तस्मिन् vइषिराः गमनशीलाः कृष्णाः कृष्णमृगा इव सूर्यश्वितः सूर्यवच्छ्वेतवर्णा द्रप्साः अनर्तिषुः नृत्यन्ति । निष्कृतं ग्रावभि: पीडितं सत् उपरस्य उपलस्य vन्यक् अधोमुखं सोमं vनि vयन्ति निगमयन्ति । किंच vपुर बहु vरेतः सोमलक्षणमुदकं दधिरे धारयन्ति ॥ ॥ २९ ॥
 
 
उ॒ग्रा इ॑व प्र॒वह॑न्तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ ।
 
यच्छ्व॒सन्तो॑ जग्रसा॒ना अरा॑विषुः शृ॒ण्व ए॑षां प्रो॒थथो॒ अर्व॑तामिव ॥
 
उग्राःऽइव । प्रऽवहन्तः । सम्ऽआयमुः । साकम् । युक्ताः । वृषणः । बिभ्रतः । धुरः ।
 
यत् । श्वसन्तः । जग्रसानाः । अराविषुः । शृण्वे । एषाम् । प्रोथथः । अर्वताम्ऽइव ।। ६ ।।
 
vवृषणः । फलं वर्षतीति वृषा यज्ञः। तस्य vधुरः धुरं भारं vबिभ्रतः धारयन्त एते ग्रावाणः । vसाकं सोमेन सह vयुक्ताः सन्तः प्रवहन्तः रथं प्रकर्षेण वोढारः vउग्राः उद्गूर्णा अश्वाः vइव vसमायमुः समायच्छन्ति । आयता भवन्तीत्यर्थः । यत् यदा vश्वसन्तः अभिषवसमय उत्पतननिपतनव्यापारजनितेन वायुना श्वसन्त इव स्थिता ग्रावाणः vजग्रसानाः सोमं ग्रसमानाः अराविषुः शब्दायन्ते तदानीम् vएषां ग्राव्णां संबन्धी vप्रोथथः मुखाच्छब्दः शृण्वे श्रूयते । तत्र इष्टान्तः । vअर्वतामिव । अश्वानां संबन्धिनो मुखाद्धेषाशब्दो यथा तद्वदित्यर्थः ॥
 
 
दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः ।
 
दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ॥
 
दशावनिऽभ्यः । दशऽकक्ष्येभ्यः । दशऽयोक्त्रेभ्यः । दशऽयोजनेभ्यः ।।
दशाभीशुऽभ्यः । अर्चत । अजरेभ्यः । दश । धुरः । दश । युक्ताः । वहत्ऽभ्यः ।। ७ ।।
 
दशावनिभ्यः । कर्माण्यवन्ति गच्छन्तीत्यवनयः । दशावनयोऽङ्गुलयो येषां ग्राहकत्वेन संबन्धिनस्ते दशावनयः । तान् ग्राव्णः। द्वितीयार्थे चतुर्थी । दशकक्ष्येभ्यः। कक्ष्याः प्रकाशका अङ्गुलयो येषां ते दशकक्ष्याः । तान् । दशयोक्त्रेभ्यः । योक्त्रवद्बन्धनसाधनभूता दशाङ्गुलयो येषां तान् । दशयोजनेभ्यः । सोमेन सह योजने साधनभूता दशाङ्गुलयो येषां तान्। vदशाभीशुभ्यः । कर्माण्यभितो व्याप्नुवन्तीत्यभीशवोऽङ्गुलयो दश येषां तान् । अजरेभ्यः जराविवर्जितान् vदश दशभिः vधुरः धूर्भिः हिंसितृभिः । तृतीयार्थे प्रथमा । vयुक्ताः युक्तान्। द्वितीयार्थे प्रथमा । vवहद्भ्यः वहतोऽभिषवाख्ये कर्मणि व्याप्रियमाणान् vअर्चत स्तुत । हे ऋत्विज इति शेषः । अत्र
यास्कः-* अवनयोऽङ्गुलयो भवन्त्यवन्ति कर्माणि । कक्ष्याः प्रकाशयन्ति कर्माणि । योक्त्राणि योजनानीति व्याख्यातमभीशवोऽभ्यनुवते कर्माणि । दश धुरो दश युक्ता वहद्भ्यः । धूर्धूर्वतेर्वधकर्मण इयमपीतरा धूरेतस्मादेव विहन्ति वहं धारयतेर्वा ' (निरु. ३. ९) इति ।
 
 
ते अद्र॑यो॒ दश॑यन्त्रास आ॒शव॒स्तेषा॑मा॒धानं॒ पर्ये॑ति हर्य॒तम् ।
 
त ऊ॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सों॒ऽशोः पी॒यूषं॑ प्रथ॒मस्य॑ भेजिरे ॥
 
ते । अद्रयः । दशऽयन्त्रासः । आशवः । तेषाम् । आऽधानम् । परि । एति । हर्यतम् ।
 
ते । ऊँ इति । सुतस्य । सोम्यस्य । अन्धसः । अंशोः । पीयूषम् । प्रथमस्य । भेजिरे ॥ ८ ॥
 
अद्रयः आदरणीयाः आशवः क्षिप्रकारिणः vते एते प्रकृता ग्रावाणः दशयन्त्रासः दशयन्त्राः । तेषाम् एषां ग्राव्णां संबन्धि यत् vआधानं प्रक्षेपणमभिषवकर्म हर्यतं स्पृहणीयं vपर्येति परितो गच्छति । ते एते ग्रावाण एव सुतस्य अभिषुतस्य सोम्यस्य सोमस्य संबन्धिनः अंशोः खण्डस्वरूपस्य vअन्धसः अन्नस्य पीयूषम् अमृतं प्रथमं भेजिरे ॥
 
 
ते सो॒मादो॒ हरी॒ इन्द्र॑स्य निंसतें॒ऽशुं दु॒हन्तो॒ अध्या॑सते॒ गवि॑ ।
 
तेभि॑र्दु॒ग्धं प॑पि॒वान्सो॒म्यं मध्विन्द्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ॥
 
ते । सोमऽअदः । हरी इति । इन्द्रस्य । निंसते । अंशुम् । दुहन्तः । अधि । आसते । गवि।
 
तेभिः । दुग्धम्। पपिऽवान् । सोम्यम् । मधु । इन्द्रः । वर्धते । प्रथते । वृषऽयते ॥ ९ ॥
 
सोमादः सोमस्यात्तारः ते प्रकृता एते ग्रावाणः इन्द्रस्य हरी अश्वौ vनिंसते निक्षन्ति चुम्बन्ति । प्राप्नुवन्तीत्यर्थः । किंच vगवि अधिषवणचर्मणि अंशु सोमं दुहन्तः vआसते। किंच vइन्द्रः vतेभिः तैः दुग्धं सोम्यं सोममयं मधु अमृतं vपपिवान् पीतवान् vवर्धते वृद्धशरीरो भवति । vप्रथते विस्तीर्णशरीरश्च भवति । वृषायते वृषेवाचरति ॥
 
 
वृषा॑ वो अं॒शुर्न किला॑ रिषाथ॒नेळा॑वन्त॒ः सद॒मित्स्थ॒नाशि॑ताः ।
 
रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रम् ॥
 
वृषा । वः । अंशुः । न । किल । रिषाथन । इळाऽवन्तः । सदम् । इत् । स्थन । आशिताः ।
 
रैवत्याऽइव । महसा । चारवः । स्थन । यस्य । ग्रावाणः । अजुषध्वम् । अध्वरम् ॥ १० ॥
अंशुः सोमः वः युष्माकं वृषा यज्ञे वर्षिता भविष्यति । यूयमपि न रिषाथन किल न vरिष्यथ न शीर्णा भवथ किल । किंच vइळावन्तः अन्नवन्त इव यूयं सदमित् सदैव आशिताः भोजिताः स्थन भवथ। किंच रैवत्येव यथा रेवन्तस्तेजसा युक्ता भवन्ति तद्वत् महसा तेजसा युक्ताः vचारवः कल्याणाः स्थन भवथ । हे vग्रावाणः यूयं यस्य यजमानस्य vअध्वरं यज्ञम् vअजुषध्वम् असेवध्वम् ॥ ॥ ३० ॥
 
 
तृ॒दि॒ला अतृ॑दिलासो॒ अद्र॑योऽश्रम॒णा अशृ॑थिता॒ अमृ॑त्यवः ।
 
अ॒ना॒तु॒रा अ॒जरा॒ः स्थाम॑विष्णवः सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ॥
 
तृदिलाः । अतृदिलासः । अद्रयः । अश्रमणाः । अशृथिताः । अमृत्यवः ।
 
अनातुराः । अजराः । स्थ । अमविष्णवः । सुऽपीवसः । अतृषिताः । अतृष्णऽजः ॥११॥
 
vअश्रमणाः श्रमणवर्जिताः अशृथिताः अन्यैरशिथिलीकृताः vअमृत्यवः अमारिताः vअनातुराः अरोगाः vअजराः जरारहिताः vस्थ भवथ । किंच अमविष्णवः उत्क्षेपणावक्षेपणगत्युपेता हे ग्रावाणः vतृदिलाः अन्येषां भेदकाः vअतृदिलासः स्वयमन्येनाभिन्नाः सुपीवसः सुबलाः vअतृषिताः तृष्णारहिताः vअतृष्णजः निःस्पृहा भवथ ॥
 
 
ध्रु॒वा ए॒व वः॑ पि॒तरो॑ यु॒गेयु॑गे॒ क्षेम॑कामास॒ः सद॑सो॒ न यु॑ञ्जते ।
 
अ॒जु॒र्यासो॑ हरि॒षाचो॑ ह॒रिद्र॑व॒ आ द्यां रवे॑ण पृथि॒वीम॑शुश्रवुः ॥
 
धुवाः । एव । वः । पितरः । युगे युगे । क्षेमऽकामासः । सदसः । न । युञ्जते ।
 
अजुर्यासः । हरिऽसाचः । हरिद्रवः । आ । द्याम् । रवेण । पृथिवीम् । अशुश्रवुः ॥ १२ ॥
 
हे ग्रावाणः vयुगेयुगे सर्वेषु युगेषु vधुवा vएव निश्चला एव vवः युष्माकं पितरः पितृभूताः पर्वताः vक्षेमकामासः क्षेमकामाः सदसः सदांसि आत्मना न vयुञ्जते न संयोजयन्ति। vअजुर्यासः जरारहिताः हरिषाचः सोमस्य संभक्तारः vहरिद्रवः सोमसंसर्गाद्धरितवर्णाः द्यां दिवं पृथिवीं च रवेण अभिषवशब्देन vअशुश्रवुः श्रावयन्ति ।
 
 
तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने॒ याम॑न्नञ्ज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभिः॑ ।
 
वप॑न्तो॒ बीज॑मिव धान्या॒कृतः॑ पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ॥
 
तत् । इत् । वदन्ति । अद्रयः । विऽमोचने । यामन् । अञ्जःपाःऽइव । घ। इत् । उपब्दिऽभिः ।
 
वपन्तः । बीजम्ऽइव । धान्यऽकृतः । पृञ्चन्ति । सोमम्। न । मिनन्ति । बप्सतः ।। १३ ॥
 
vअद्रयः आदरणीया ग्रावाणः यामन् यामनि गमने अञ्जस्पाः । अञ्जसा पान्ति रक्षन्तीत्यञ्जस्पाः। तेषां रथानाम् इव उपब्दिभिः vतदित् तदेवाभिषवकर्म विमोचने vघेत् तत् सोमरसविमोचनवेलायामपि vवदन्ति प्रकाशयन्ति । किंच vबप्सतः सोमं भक्षयन्त ग्रावाण: vवपन्तः
vधान्याकृतः कृषीवला: vबीजमिव यथा पृञ्चन्ति तद्वत् vसोमं पृञ्चन्ति । संपर्चयन्तीत्यर्थः । न एनं vमिनन्ति । न हिंसन्तीत्यर्थः ॥
 
 
सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं॑ तु॒दन्तः॑ ।
Line १०९ ⟶ १९४:
वि षू मु॑ञ्चा सुषु॒वुषो॑ मनी॒षां वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ॥
 
सुते । अध्वरे । अधि । वाचम् । अक्रत । आ । क्रीळयः । न । मातरम्। तुदन्तः ।
 
वि । सु । मुञ्च । सुसुऽवुषः । मनीषाम् । वि । वर्तन्ताम् । अद्रयः । चायमानाः ।। १४ ।।
 
vचायमानाः पूज्यमानाः अद्रयः आदरणीया ग्रावाणः अध्वरेऽधि यज्ञे vसुते सोमेऽभिषुते vमातरं तुदन्तः हस्तेन ताडयन्तः vआ vक्रीळयो vन आक्रीडकाः कुमाराः शब्दं यथा कुर्वन्ति तथा vवाचं शब्दम् vअक्रत कृण्वन्ति । vसुषुवुषः सोममभिषुतवतः ग्राव्णः vमनीषां स्तुतिं vवि vमुञ्च विशेषेण मुञ्च । किंच अद्रयः वि vवर्तन्ताम् अभिषवशब्दं विमुञ्चन्तु ॥ ॥ ३१ ॥
 
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्येऽष्टमाष्टके चतुर्थोऽध्यायः समाप्तः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९४" इत्यस्माद् प्रतिप्राप्तम्