"ऐतरेय ब्राह्मणम्/पञ्चिका ७ (सप्तम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १००:
 
1375
अथ यदौदुम्बराण्यूर्जो वा एषोऽन्नाद्याद्वनस्पतिरजायत यदुदुम्बरो भौज्यं वा एतद्वनस्पतीनामूर्जमेवास्मिंस्तदन्नाद्यं च भौज्यं च वनस्पतीनां क्षत्रे दधात्यथ यदाश्वत्थानि तेजसो वा एष वनस्पतिरजायत यदश्वत्थः साम्राज्यं वा एतद्वनस्पतीनाम्तेज एवास्मिंस्तत्साम्राज्यं च वनस्पतीनां क्षत्रे दधात्यथ यत्प्लाक्षाणि यशसो वा एष वनस्पतिरजायत यत्प्लक्षः स्वाराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनां यश एवास्मिंस्तत्स्वाराज्यवैराज्ये च वनस्पतीनां क्षत्रे दधात्येतान्यस्य पुरस्तादुपक्लृप्तानि भवन्त्यथ सोमं राजानं क्रीनन्तिक्रीणन्ति ते राज्ञ एवावृतोपवसथात् प्रतिवेशैश्चरन्ति अथौपवसथ्यमहरेतान्यध्वर्युः पुरस्तादुपकल्पयेताधिषवणं चर्माधिषवणे फलके द्रोणकलशं दशापवित्रमद्रीन्पूतभृतं चाधवनीयं च स्थालीमुदञ्चनं चमसं च तद्यदेतद्राजानम्प्रातरभिषुण्वन्ति तदेनानि द्वेधा विगृह्णीयादभ्यन्यानि सुनुयान्माध्यंदिनायान्यानि परिशिंष्यात्॥7.32॥ (35.7) (156)